मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — धर्मारण्यखण्डः, अध्याय ४

3
ब्रह्मखण्डः · धर्मारण्यखण्डः · 4

क्षेत्रस्थापनम्

व्यास उवाच

अतः परं प्रवक्ष्यामि धर्मराजस्य चेष्टितम् ॥

यच्छ्रुत्वा यमदूतानां न भयं विद्यते क्वचित्

॥१॥

धर्मराजेन सा दृष्टा वर्द्धनी च वराप्सरा ॥

महत्यरण्ये का ह्येषा सुन्दरांग्यतिसुन्दरी

॥२॥

निर्मानुषवनं चेदं सिंहव्याघ्रभयानकम् ॥

आश्चर्यं परमं ज्ञात्वा धर्मराजोऽब्रवीदिदम्

॥३॥

धर्मराज उवाच

कस्मात्त्वं मानिनि ह्येका वने चरसि निर्जने ॥

कस्मात्स्थानात्समायाता कस्य पत्नी सुशोभने

॥४॥

सुता त्वं कस्य वामोरु अतिरूपवती शुभा ॥

मानुषी वाथ गंधर्वी अमरी वाथ किंनरी

॥५॥

अप्सरा पक्षिणी वाथ अथवा वनदेवता ॥

राक्षसी वा खेचरी वा कस्य भार्या च तद्वद

॥६॥

सत्यं च वद मे सुभ्रूरित्याहार्कसुतस्तदा ॥

किमिच्छसि त्वया भद्रे किं कार्यं वा वदात्र वै

॥७॥

यदिच्छसि त्वं वामोरु ददामि तव वांछितम्

॥८॥

वर्द्धन्युवाच

धर्मे तिष्ठति सर्वं वै स्थावरं जंगमं विभो ॥

स धर्मो दुष्करं कर्म कस्मात्त्वं कुरुषेऽनघ

॥९॥

यम उवाच

ईशानस्य च यद्रूपं द्रष्टुमिच्छामि भामिनि ॥

तेनाहं तपसा युक्तः शिवया सह शंकरम्

॥१०॥

यशः प्राप्स्ये सुखं प्राप्स्ये करोमि च सुदुष्करम् ॥

युगेयुगे मम ख्यातिर्भवेदिति मतिर्मम

॥११॥

कल्पे कल्पे महाकल्पे भूयः ख्यातिर्भवेदिति ॥

एतस्मात्कारणात्सुभ्रूस्तप्यते परमं तपः

॥१२॥

कस्मात्त्वमागता भद्रे कथयस्व यथातथा ॥

किं कार्यं कस्य हेतुश्च सत्यमाख्यातुमर्हसि

॥१३॥

वर्द्धन्युवाच

तपसैव त्वया धर्म भयभीतो दिवस्पतिः ॥

तेनाहं नोदिता चात्र तपोवि घ्नस्य कांक्षया

॥१४॥

इन्द्रासनभयाद्भीता हरिणा हरिसन्निधौ ॥

प्रेषिताहं महाभाग सत्यं हि प्रवदाम्यहम्

॥१५॥

सूत उवाच

सत्यवाक्येन च तदा तोषितो रविनंदनः ॥

उवाचैनां महाभाग्यो वरदोहं प्रयच्छ मे

॥१६॥

यमोऽहं सर्वभूतानां दुष्टानां कर्मकारिणाम् ॥

धर्म रूपो हि सर्वेषां मनुजानां जितात्मनाम्

॥१७॥

स धर्मोऽहं वरारोहे ददामि तव दुर्लभम् ॥

तत्सर्वं प्रार्थय त्वं मे शीघ्रं चाप्सरसां वरे

॥१८॥

वर्द्धन्युवाच

इन्द्रस्थाने सदा रम्ये सुस्थिरत्वं प्रयच्छ मे ॥

स्वामिन्धर्मभृतां श्रेष्ठ लोकानां च हिताय वै

॥१९॥

यम उवाच

एवमस्त्विति तां प्राह चान्यं वरय सत्वरम् ॥

ददामि वरमुत्कृष्टं गानेन तोषितोस्म्यहम्

॥२०॥

वर्द्धन्युवाच

अस्मिन्स्थाने महाक्षेत्रे मम तीर्थं महामते ॥

भूयाच्च सर्वपापघ्नं मन्नाम्नेति च विश्रुतम्

॥२१॥

तत्र दत्तं हुतं तप्तं पठितं वाऽक्षयं भवेत् ॥

पञ्चरात्रं निषेवेत वर्द्धमानं सरोवर म्

॥२२॥

पूर्वजास्तस्य तुष्येरंस्तर्प्यमाणा दिनेदिने ॥

तथेत्युक्त्वा तु तां धर्मो मौनमाचष्ट संस्थितः ॥

त्रिःपरिक्रम्य तं धर्मं नमस्कृत्य दिवं ययौ

॥२३॥

वर्द्धन्युवाच

मा भयं कुरु देवेश यमस्यार्कसुतस्य च ॥

अयं स्वार्थपरो धर्म यशसे च समाचरेत्

॥२४॥

व्यास उवाच

वर्द्धनी पूजिता तेन शक्रेण च शुभानना ॥

साधुसाधु महाभागे देवकार्य कृतं त्वया

॥२५॥

निर्भयत्वं वरागेहे सुखवासश्च ते सदा ॥

यशः सौख्यं श्रियं रम्यां प्राप्स्यसि त्वं शुभानने

॥२६॥

तथेति देवास्तामूचुर्निर्भयानंदचेतसा ॥

नमस्कृत्य च शक्रं सा गता स्थानं स्वकं शुभम्

॥२७॥

सूत उवाच

गतेप्सरसि राजेन्द्र धर्मस्तस्थौ यथाविधि ॥

तपस्तेपे महाघोरं विश्वस्योद्वेगदायकम्

॥२८॥

पंचाग्निसा धनं शुक्रे मासि सूर्येण तापिते ॥

चक्रे सुदुःसहं राजन्देवैरपि दुरासदम्

॥२९॥

ततो वर्षशते पूर्णे अन्तको मौनमास्थितः ॥

काष्ठभूत इभवातस्थौ वल्मीकशतसंवृतः

॥३०॥

नानापक्षिगणैस्तत्र कृतनीडैः स धर्मराट् ॥

उपविष्टे व्रतं राजन्दृश्यते नैव कुत्रचित्

॥३१॥

संस्मरंतोऽथ देवेश मुमापतिमनिंदितम् ॥

ततो देवाः सगन्धर्वा यक्षाश्चोद्विग्नमानसाः ॥

कैलासशिखरं भूय आजग्मुः शिवसन्निधौ

॥३२॥

देवा ऊचुः

त्राहित्राहि महादेव श्रीकण्ठ जगतः पते ॥

त्राहि नो भूतभव्येश त्राहि नो वृषभध्वज ॥

दयालुस्त्वं कृपानाथ निर्विघ्नं कुरु शंकर

॥३३॥

ईश्वर उवाच

केनापराधिता देवाः केन वा मानमर्द्दिताः ॥

मर्त्ये स्वर्गेऽथवा नागे शीघ्रं कथय ताचिरम्

॥३४॥

अनेनैव त्रिशूलेन खट्वांगेनाथवा पुनः ॥

अथ पाशुपतेनैव निहनिष्यामि तं रणे ॥

शीघ्रं वै वदतास्माक मत्रागमनकारणम्

॥३५॥

देवा ऊचुः

कृपासिन्धो हि देवेश जगदानन्दकारक ॥

न भयं मानुषादद्य न ना गाद्देवदानवात्

॥३६॥

मर्त्यलोके महादेव प्रेतनाथो महाकृतिः ॥

आत्मकार्यं महाघोरं क्लेशयेदिति निश्चयः

॥३७॥

उग्रेण तपसा कृत्वा क्लिश्यदात्मानमात्मना ॥

तेनात्र वयमुद्विग्ना देवाः सर्वे सदाशिव ॥

शरणं त्वामनुप्राप्ता यदिच्छसि कुरुष्व तत्

॥३८॥

सूत उवाच

देवानां वचनं श्रुत्वा वृषारूढो वृषध्वजः ॥

आयुधान्परिसंगृह्य कवचं सुमनोहरम् ॥

गतवानथ तं देशं यत्र धर्मो व्यवस्थितः

॥३९॥

ईश्वर उवाच

अनेन तपसा धर्म संतुष्टं मम मानसम् ॥

वरं ब्रूहि वरं ब्रूहि वरं ब्रूहीत्युवाच ह

॥४०॥

इच्छसे त्वं यथा कामा न्यथा ते मनसि स्थितान् ॥

यंयं प्रार्थयसे भद्र ददामि तव सांप्रतम्

॥४१॥

सूत उवाच

एवं संभाषमाणं तु दृष्ट्वा देवं महेश्वरम् ॥

वल्मीकादुत्थितो राजन्गृहीत्वा करसंपुटम् ॥

तुष्टाव वचनैः शुद्धैर्लोकनाथमरिंदम्

॥४२॥

धर्म उवाच

ईश्वराय नमस्तुभ्यं नमस्ते योगरूपिणे ॥

नमस्ते तेजोरूपाय नीलकंठ नमोऽस्तु ते

॥४३॥

ध्यातॄणामनुरूपाय भक्तिगम्याय ते नमः ॥

नमस्ते ब्रह्मरूपाय विष्णुरूप नमोऽ स्तु ते

॥४४॥

नमः स्थूलाय सूक्ष्माय अणुरूपाय वै नमः ॥

नमस्ते कामरूपाय सृष्टिस्थित्यंतकारिणे

॥४५॥

नमो नित्याय सौम्याय मृडाय हरये नमः ॥

आतपाय नमस्तुभ्यं नमः शीतकराय च

॥४६॥

सृष्टिरूप नमस्तुभ्यं लोकपाल नमोऽस्तु ते ॥

नम उग्राय भीमाय शांत रूपाय ते नमः

॥४७॥

नमश्चानंतरूपाय विश्वरूपाय ते नमः ॥

नमो भस्मांगलिप्ताय नमस्ते चंद्रशेखर ॥

नमोऽस्तु पंचवक्त्राय त्रिनेत्राय नमोऽस्तु ते

॥४८॥

नमस्ते व्यालभूषाय कक्षापटधराय च ॥

नमोंऽधकविनाशाय दक्षपापापहारिणे ॥

कामनिर्द्दाहिने तुभ्यं त्रिपुरारे नमोऽस्तु ते

॥४९॥

चत्वारिंशच्च नामानि मयोक्तानि च यः पठेत् ॥

शुचिर्भूत्वा त्रिकालं तु पठेद्वा शृणुयादपि

॥५०॥

गोघ्नश्चैव कृतघ्नश्च सुरापो गुरुत ल्पगः ॥

ब्रह्महा हेमहारी च ह्यथवा वृषलीपतिः

॥५१॥

स्त्रीबालघातकश्चैव पापी चानृतभाषणः ॥

अनाचारी तथा स्तेयी परदाराभिगस्तथा ॥

अकार्यकारी कृत्यघ्नो ब्रह्मद्विड्वाडवाधमः

॥५३॥

सूत उवाच

इत्येवं बहुभिर्वाक्यैर्धर्मराजेन वै मुहुः ॥

ईडितोऽपि महद्भक्त्या प्रणम्य शिरसा स्वयम्

॥५४॥

तुष्टः शंभुस्तदा तस्मा उवाचेदं वचः शुभम् ॥

वरं वृणु महाभाग यत्ते मनसि वर्त्तते

॥५५॥

यम उवाच

यदि तुष्टोऽसि देवेश दयां कृत्वा ममोपरि ॥

तं कुरुष्व महाभाग त्रैलोक्यं सचराचरम्

॥५६॥

मन्नाम्ना स्थानमेतद्धि ख्यातं लोके भवेदिति ॥

अच्छेद्यं चाप्यभेद्यं च पुण्यं पापप्रणाशनम्

॥५७॥

स्थानं कुरु महादेव यदि तुष्टोऽसि मे भव ॥

शिवेन स्थानकं दत्तं काशीतुल्यं तदा नृप ॥

तद्दत्त्वा च पुनः प्राह अन्यं वरय सत्तम

॥५८॥

धर्म उवाच

यदि तुष्टोऽसि देवेश दयां कृत्वा ममोपरि ॥

तं कुरुष्व महाभाग त्रैलोक्यं सचराचरम् ॥

वरेणैवं यथा ख्यातिं गमिष्यामि युगेयुगे

॥५९॥

ईश्वर उवाच

ब्रूहि कीनाश तत्सर्वं प्रकरोमि तवेप्सितम् ॥

तपसा तोषितोऽहं वै ददामि वरमीप्सितम्

॥६०॥

यम उवाच

यदि मे वांछितं देव ददासि तर्हि शंकर ॥

अस्मिन्स्थाने महाक्षेत्रे मन्नामा भव सर्वदा

॥६१॥

धर्मारण्यमिति ख्यातिस्त्रैलोक्ये सचराचरे ॥

यथा संजायते देव तथा कुरु महेश्वर

॥६२॥

ईश्वर उवाच

धर्मारण्यमिदं ख्यातं सदा भूयाद्युगेयुगे ॥

त्वन्नाम्ना स्थापितं देव ख्यातिमेतद्गमिष्यति ॥

अथान्यदपि यत्किंचित्करोम्येष वदस्व तत

॥६३॥

यम उवाच

योजनद्वयविस्तीर्णं मन्नाम्ना तीर्थमुत्तमम् ॥

मुक्तेश्च शाश्वतं स्थानं पावनं सर्वदेहिनाम्

॥६४॥

मक्षिकाः कीटकाश्चैव पशुपक्षिमृगादयः ॥

पतंगा भूतवेताला पिशाचोरगराक्षसाः

॥६५॥

नारी वाथ नरो वाथ मत्क्षेत्रे धर्मसंज्ञके ॥

त्यजते यः प्रियान्प्राणान्मुक्तिर्भवतु शाश्वती

॥६६॥

एवमस्त्विति सर्वोपि देवा ब्रह्मादयस्तथा ॥

पुष्पवृष्टिं प्रकुर्वाणाः परं हर्षमवा्प्नुयुः

॥६७॥

देवदुंदुभयो नेदुर्गंधर्वपतयो जगुः ॥

ववुः पुण्यास्तथा वाता ननृतुश्चाप्सरो गणाः

॥६८॥

सूत उवाच

यमेन तपसा भक्त्या तोषितो हि सदाशिवः ॥

उवाच वचनं देवं रम्यं साधुमनोरमम्

॥६९॥

अनुज्ञां देहि मे तात यथा गच्छामि सत्वरम् ॥

कैलासं पर्वतश्रेष्ठं देवानां हितकाम्यया

॥७०॥

यम उवाच

न मे स्थानं परित्यक्तुं त्वया युक्तं महेश्वर ॥

कैलासादधिकं देव जायते वचनादिदम्

॥७१॥

शिव उवाच

साधु प्रोक्तं त्वया युक्तमेकांशेनात्र मे स्थितिः ॥

न मया त्यजितं साधु स्थानं तव सुनिर्मलम्

॥७२॥

विश्वेश्वरं महालिंगं मन्नाम्नात्र भविष्यति ॥

एवमुक्त्वा महादेवस्तत्रैवांतरधीयत

॥७३॥

शिवस्य वचनात्तत्र तदा लिंगं तदद्भुतम् ॥

तं दृष्ट्वा च सुरैस्तत्र यथानामानुकीर्त्तनम्

॥७४॥

स्वंस्वं लिंगं तदा सृष्टं धर्मारण्ये सुरोत्तमैः ॥

यस्य देवस्य यल्लिंगं तन्नाम्ना परिकीर्तितम्

॥७५॥

सूत उवाच

धर्मेण स्थापितं लिंगं धर्मेश्वरमुपस्थितम् ॥

स्मरणात्पूजनात्तस्य सर्वपापैः प्रमुच्यते

॥७६॥

यद्ब्रह्म योगिनां गम्यं सर्वेषां हृदये स्थितम् ॥

तिष्ठते यस्य लिंगं तु स्वयंभुवमिति स्थितम्

॥७७॥

भूतनाथं च संपूज्य व्याधिभिर्मुच्यते जनः ॥

धर्मवापीं ततश्चैव चक्रे तत्र मनोरमाम्

॥७८॥

आहत्य कोटितीर्थानां जलं वाप्यां मुमोच ह ॥

यमतीर्थस्वरूपं च स्नानं कृत्वा मनोरमम्

॥७९॥

स्नानार्थं देवतानां च ऋषीणां भावितात्मनाम् ॥

तत्र स्नात्वा च पीत्वा च सर्वपापैः प्रमुच्यते

॥८०॥

धर्मवाप्यां नरः स्नात्वा दृष्ट्वा धर्मेश्वरं शिवम् ॥

मुच्यते सर्वपापेभ्यो न मातुर्गर्भमाविशेत्

॥८१॥

तत्र स्नात्वा नरो यस्तु करोति यमतर्पणम् ॥

व्याधिदोषविनाशार्थं क्लेशदोषोप शांतये ॥

यमाय धर्मराजाय मृत्यवे चांतकाय च ॥

वैवस्वताय कालाय दध्नाय परमेष्ठिने

॥८२॥

वृकोदराय वृकाय दक्षिणेशाय ते नमः ॥

नीलाय चित्रगुप्ताय चित्र वैचित्र ते नमः

॥८३॥

यमार्थं तर्पणं यो वै धर्मवाप्यां करिष्यति ॥

साक्षतैर्नामभिश्चैतैस्तस्य नोपद्रवो भवेत्

॥८४॥

एकांतरस्तृतीयस्तु ज्वरश्चातुर्थिकस्तथा ॥

वेलायां जायते यस्तु ज्वरः शीतज्वरस्तथा

॥८५॥

पीडयन्ति न चैतस्य यस्यैवो मतिरीदृशी ॥

रेवत्यादिग्रहा दोषा डाकिनी शाकिनी तथा

॥६६॥

धनधान्यसमृद्धिः स्यात्संततिर्वर्धते सदा ॥

भूतेश्वरं तु संपूज्य सुस्नातो विजितेंद्रियः

॥८७॥

सांगं रुद्रजपं कृत्वा व्याधिदोषात्प्रमुच्यते ॥

अमावास्यां सोमदिने व्यतीपाते च वैधृतौ ॥

संक्रांतौ ग्रहणे चैव तत्र श्राद्धं स्मृतं नृणाम्

॥८८॥

श्राद्धं कृतं तेन समाः सहस्रं निरस्य चैतत्पितरस्त्वदंति ॥

पानीयमेवापि तिलैर्विमिश्रितं ददाति यो वै प्रथितो मनुष्यः

॥८९॥

एकविंशतिवारैस्तु गयायां पिंडदानतः ॥

धर्मेश्वरे सकृद्दत्तं पितॄणां चाक्षयं भवेत्

॥९०॥

धर्मेशात्पश्चिमे भागे विश्वेश्वरांतरेपि वा ॥

धर्मवापीति विख्याता स्वर्गसोपानदायिनी

॥९१॥

धर्मेण निर्मिता पूर्वं शिवार्थं धर्मबुद्धिना ॥

तत्र स्नात्वा च पीत्वा च तर्पिताः पितृदेवताः

॥९२॥

शमीपत्रप्रमाणं तु पिंडं दद्याच्च यो नरः ॥

धर्मवाप्यां महापुण्यां गर्भवासं न चाप्नुयात्

॥९३॥

कुम्भीपाकान्महारौद्राद्रौरवान्नरकात्पुनः ॥

अंधतामिस्रकाद्राजन्मुच्यते नात्र संशयः

॥९४॥

सूत उवाच

एकवर्षं तर्पणीयं धर्मवाप्यां नरोत्तमः ॥

ऋतौ मासे च पक्षे च विपरीतं च जायते

॥९५॥

बर्हिषदोऽग्निष्वात्ताश्च आज्यपाः सोमपास्तथा ॥

तृप्तिं प्रयांति परमां वाप्यां वै तर्पणेन तु

॥९६॥

कुरुक्षेत्रादि क्षेत्राणि अयोध्यादिपुरस्तथा ॥

पुष्कराद्यानि सर्वाणि मुक्तिनामानि संति वै

॥९७॥

तानि सर्वाणि तुल्यानि धर्मकूपोऽधिको भवेत् ॥

मन्त्रो वेदास्तथा यज्ञा दानानि च व्रतानि च

॥९८॥

अक्षयाणि प्रजायंते दत्त्वा जप्त्वा नरेश्वर ॥

अभिचाराश्च ये चान्ये सुसिद्धाथर्ववेदजाः

॥९९॥

ते सर्वे सिद्धिमायांति तस्मिन्स्थाने कृता अपि ॥

आदितीर्थं नृपश्रेष्ठ काजेशैरुपसेवितम्

॥१००॥

सिद्धिस्थानं सुसौम्यं च ब्रह्माद्यैरपि सेवि तम् ॥

कृते तु युगपर्यंतं त्रेतायां लक्षपञ्चकम्

॥१॥

द्वापरे लक्षमेकं तु दिनैकेन फलं कलौ ॥

एतदुक्तं मया ब्रह्मन्धर्मारण्यस्य वर्णनम् ॥

फलं चैवात्र सर्वं हि उक्तं द्वैपायनेन तु

॥२॥

सूत उवाच

अतः परं प्रवक्ष्यामि धर्मवाक्यं मनोरमम् ॥

देवानां हितकामाय आज्ञाप्य च यदुक्तवान्

॥३॥

धर्म उवाच

अस्मिन्क्षेत्रे प्रकुर्वंति विष्णुमायाविमोहिताः ॥

पारदार्यं महादुष्टं स्वर्णस्तेयादिकं तथा

॥४॥

अन्यच्च विकृतं सर्वं कुर्वाणो नरकं व्रजेत् ॥

अन्यक्षेत्रे कृतं पापं धर्मारण्ये विनश्यति

॥५॥

धर्मारण्ये कृतं पापं वज्रलेपो भविष्यति ॥

यथा पुण्यं तथा पापं यत्किंचिच्च शुभाशुभम्

॥६॥

तत्सर्वं वर्द्धते नित्यं वर्षाणि शतमित्युत ॥

कामिनां कामदं पुण्य योगिनां मुक्तिदायकम्

॥७॥

सिद्धानां सिद्धिदं प्रोक्तं धर्मारण्यं तु सर्वदा ॥

अपुत्रो लभते पुत्रान्निर्धनो धनवान्भवेत्

॥८॥

एतदाख्यानकं पुण्यं धर्मेण कथितं पुरा ॥

यः शृणोति नरो भक्त्या नारी वा श्रावयेत्तु यः ॥

गोसहस्रफलं तस्य अंते हरिपुरं ब्रजेत्

॥१०९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये क्षेत्रस्थापनंनाम चतुर्थोऽध्यायः ॥ ४ ॥