शृणु पुत्र प्रवक्ष्यामि रहस्यं परमं मतम्
ब्रह्मोवाच
शृणु पुत्र प्रवक्ष्यामि रहस्यं परमं मतम् ॥
एते ब्रह्मविदः प्रोक्ताश्चातुर्विद्या महा द्विजाः
॥१॥स्वाध्यायाश्च वषट्काराः स्वधाकाराश्च नित्यशः ॥
रामाज्ञापालकाश्चैव हनुमद्भक्तितत्पराः
॥२॥एकदा तु ततो देवा ब्रह्माणं समुपागताः ॥
ब्राह्मणान्द्रष्टुकामास्ते ब्रह्मविष्णुपुरोगमाः
॥३॥तान्देवानागतान्दृष्ट्वा स्वस्थानाच्चलितास्तु ते ॥
अर्घपाद्यं पुरस्कृत्य मधुपर्कं तथैव च
॥४॥पूजयित्वा ततो विप्रा देवान्ब्रह्मपुरोगमान् ॥
ब्रह्मात्र उपविष्टास्ते वेदानुच्चारयन्ति हि
॥५॥संहितां च पदं चैव क्रमं घनं तथैव च ॥
उच्चैः स्वरेण कुर्वीत ऋचामृग्वेदसंहिताम्
॥६॥सामगाश्च प्रकुर्वंति स्तोत्राणि विविधानि च ॥
शास्त्राणि च तथा याज्यापुरोनुवाक्या स्तथा
॥७॥चतुरक्षरं परं चैव चतुरक्षरमेव च ॥
द्व्यक्षरं च तथा पंचाक्षरं द्वयक्षरमेव च ॥
एतद्यज्ञस्वरूपं च यो जपेज्ज्ञानपूर्वकम्
॥८॥अंते ब्रह्म पदप्राप्तिः सत्यंसत्यं वदाम्यहम् ॥
एकाग्रमानसाः सर्वे वेदपाठरता द्विजाः
॥९॥तेषामंगणदेशेषु कण्डूयन्ते कचान्मृगाः ॥
ब्राह्मणा वेदमातां च जपंति विधिपूर्वकम्
॥१०॥हस्ते धृतांश्च तैर्दर्भान्भक्षंते मृगपोतकाः ॥
निर्वैरं तं तदा दृष्ट्वा आश्रमं गृहमेधिनाम्
॥११॥तुतुषुः परमं देवा ऊचुस्ते च परस्परम् ॥
त्रेतायुगमिदानीं च सर्वे धर्मपरायणाः
॥१२॥कलिर्दुष्टस्तथा प्रोक्तः किं करिष्यति पापकः ॥
चातुर्विद्यान्समाहूय ऊचुस्ते त्रय एव च
॥१३॥वृत्त्यर्थं भवतां चैव त्रैविद्यानां तथैव च ॥
विभागं वः प्रदास्यामो यथावत्प्रतिपाल्यताम्
॥१४॥ये वणिजः पुरा प्रोक्ताः षट्त्रिंशच्च सहस्रकाः ॥
त्रिसहस्रास्तु त्रैविद्या दशपंचसहस्रकाः
॥१५॥चातुर्विद्यास्तथा प्रोक्ता अन्योन्यं वृत्तिमाश्रिताः ॥
सत्रिभागास्तु त्रैविद्याश्चतुर्भागास्तु चात्रिणः
॥१६॥वणिजां गृहमागत्य पौरोहित्यस्य नित्यशः ॥
भागं विभज्य संप्रापुः काजेशेन विनिर्मिताः
॥१७॥परस्परं न विवाहश्चातुर्विद्यत्रिविद्ययोः ॥
चातुर्विद्या मया प्रोक्तास्त्रिविद्यास्तु तथैव च
॥१८॥त्रैविभागेन त्रैविद्याश्चतुर्भागेन चात्रिणः ॥
एवं ज्ञातिविभागस्तु काजेशेन विनिर्मितः
॥१९॥कृतकृत्यास्तु ते विप्राः प्रणेमुस्तान्सुरोत्तमान् ॥
वृत्तिं दत्त्वा ततो देवाः स्वस्थानं च प्रतस्थिरे
॥२०॥पंचपंचाशद्ग्रामाणां ते द्विजाश्च निवासिनः ॥
चतुर्विद्यास्तु ते प्रोक्तास्तदादि तु त्रिविद्यकाः
॥२१॥चातुर्विद्यस्य गोत्राणि दशपंच तथैव च ॥
भारद्वाजस्तथा वत्सः कौशिकः ८ कुश एव च
॥२२॥शांडिल्यः ५ कश्यपश्चैव गौतमश्छादनस्तथा ८ ॥
जातूकर्ण्यस्तथा कुंतो वशिष्ठो ११ धारणस्तथा
॥२३॥आत्रेयो मांडिलश्चैव १४ लौगाक्षश्च १५ ततः परम् ॥
स्वस्थानानां च नामानि प्रवक्ष्याम्यनुपूर्वशः
॥२४॥सीतापूरं च श्रीक्षेत्रं २ मगोडी च ३ तथा स्मृता ॥
ज्येठलोजस्तथा चैव शेरथा च ततः परम्
॥२५॥छेदे ताली वनोडी च गोव्यंदली तथैव च ॥
कंटाचोषली चैव कोहेचं चंदनस्तथा
॥२६॥थलग्रामश्च सोहं च हाथंजं कपडवाणकम् ॥
व्रजन्होरी च वनोडी च फीणां वगोलं दृणस्तथा (?)
॥२७॥थलजा चारणं सिद्धा भालजाश्च ततः परम् ॥
महोवी आईया मलीआ गोधरी आमतः परम्
॥२८॥वाठसुहाली तथा चैव माणजा सानदीयास्तथा ॥
आनन्दीया पाटडीअ टीकोलीया ततः परम्
॥२९॥गंभी धणीआ मात्रा च नातमोरास्तथैव च ॥
वलोला रांत्यजाश्चैव रूपोला बोधणीच वै
॥३०॥छत्रोटा अलु एवा च वासतडीआमतः परम् ॥
जाषासणा गोतीया च चरणीया दुधीयास्तथा
॥३१॥हालोला वैहोला च असाला नालाडास्तथा ॥
देहोलो सौहासीया च संहालीयास्तथैव च
॥३२॥स्वस्थानं पंचपत्ताशद्ग्रामा एते ह्यनुक्रमात् ॥
दत्ता रामेण विधिवत्कृत्वा विप्रेभ्य एव च
॥३३॥अतः परं प्रवक्ष्यामि स्वस्थानस्य च गोत्रजान् ॥
तथा हि प्रवरांश्चैव यथावद्विधिपूर्वकम्
॥३४॥ज्ञात्वा तु गोत्रदेवीं च तथा प्रवरमेव च ॥
स्वस्थानं जायते चैव द्विजाः स्वस्थानवासिनः
॥३५॥नारद उवाच
कथं च जायते गोत्रं कथं तु ज्ञायते कुलम् ॥
कथं वा ज्ञायते देवी तद्वदस्व यथार्थतः
॥३६॥ब्रह्मोवाच
सीतापुरं तु प्रथमं प्रवरद्वयमेव च ॥
कुशवत्सौ तथा चात्र मया ते परिकीर्त्तितौ
॥३७॥१ श्रीक्षेत्रे द्वितीयं चैव गोत्राणां त्रयमेव च ॥
छांदनसस्तथा वत्सस्तृतीयं कुशमेव च
॥३८॥तृतीये मुद्गलं चैव कुशभारद्वाजमेव च ३ ॥
शोहोली च चतुर्थं वै कुशप्रवरमेव च
॥३९॥ज्येष्ठला पंचमश्चैव वत्सकुशौ प्रकीर्त्तितौ ५ ॥
श्रेयस्थानं हि षष्ठं वै भारद्वाजः कुशस्तथा
॥४०॥दंताली सप्तमं चैव भारद्वाजः कुशस्तथा १ ॥
वटस्थानमष्टमं च निबोध सुतसत्तम
॥४१॥तत्र गोत्रं कुशं कुत्सं भारद्वाजं तथैव च ॥
राज्ञः पुरं नवमं च भारद्वाजप्रवरमेव च ९
॥४२॥कृष्णवाटं दशमं चैव कुशप्रवरमेव च ॥
दहलोडमेकादशं वत्सप्रवरमेव हि
॥४३॥चेखलीद्वादशं पौककुशप्रवरमेव च
॥४४॥चांचोदखे १२ देहोलोडी आत्रयश्च वत्सकुत्सकश्चैव ॥
भारद्वाजीकोणाया च भारद्वाजगोलंदृणाशकुस्तथा
॥४५॥थलत्यजाद्वये चैव कुशधारणमेव च ॥
नारणसिद्धा च स्वस्थानं कुत्सं गोत्रं प्रकीर्तितम्
॥४६॥भालजां कुत्सवत्सौ च मोहोवी आकुशस्तथा ॥
ईयाश्लीआ शांडिलश्च गोधरीपात्रमेव च
॥४७॥आनंदीया द्वे चैव भारद्वाजशांडिलश्चैव पाटडीआ कुशमेव च
॥४८॥वांसडीआश्चैव जास्वा कौत्समणा वत्सआत्रेयौ गीता आकुशगौतमौ
॥४९॥चरणीआ भारद्वाजः दुधीआधारणसा हि अहो सोन्नामांडिल्यस्तथा
॥५०॥वेलोला हुराश्चैवा असाला कुशश्चैव धारणा च द्वितीय कम्
॥५१॥नालोला वत्सधारणीया च देलोला कुत्समेव च ॥
सोहासीया भारद्वाजकुशवत्समेव च
॥५२॥सुहालीआ वत्सं वै प्रोक्तं गोत्राणि यथाक्रमम् ॥
मया प्रोक्तानि चैवात्र स्वस्थानानि यथाक्रमम्
॥५३॥शीतवाडिया ये प्रोक्ताः कुशो वत्सस्तथैव च ॥
विश्वामित्रो देवरातस्तृतीयो दलमेव च
॥५४॥भार्गवच्यावनाप्नवानौर्वजमदग्निरेव हि ॥
वचार्द्दशेषाबुटला गोत्रदेव्यः प्रकीर्तिताः
॥५५॥इति प्रथमं गोत्रम्
॥१॥श्रीक्षेत्रं द्वितीयं प्रोक्तं गोत्रद्वितयमेव च ॥
छांदनसस्तथा वत्सं देवी द्वितयमेव च
॥५६॥आंगिरसांबरीषश्च यौवनाश्वस्तथैव च ॥
भृगुच्यवनआप्नवानौ र्वजमदग्निमेव च
॥५७॥देवी भट्टारिका प्रोक्ता द्वितीया शेपला तथा ॥
एतद्वंशोद्भवा ये च शृणु तान्मुनिसत्तम
॥५८॥सक्रोधनाः सदाचाराः श्रौतस्मार्तक्रियापराः ॥
पंचयज्ञरता नित्यं संबंधसंमाश्रिताः ॥
क्षतज्ञाः क्रतुजाश्चैव ते सर्वे नृपसत्तमाः
॥५९॥इति द्वितीयगोत्रम्
॥२॥तृतीयं मगोडोआ वै गोत्रद्वितयमेव च ॥
भारद्वाजस्तथा कुत्सं देवी द्वितयमेव च
॥६०॥आंगिरसबार्हस्पत्यभारद्वाजस्तथैव च ॥
विश्वामित्रदेव रातौप्रवरत्रयमेव च
॥६१॥शेषला बुधला प्रोक्ताधारशांतिस्तथैव च ॥
अस्मिन्ग्रामे च ये जाता ब्राह्मणाः सत्यवादिनः
॥६२॥द्विजपूजाक्रिया युक्ता नानायज्ञक्रियापराः ॥
अस्मिन्गोत्रे समुत्पन्ना द्विजाः सर्वे मुनीश्वराः
॥६३॥इति तृतीयगोत्रम्
॥३॥चतुर्थं शीहोलियाग्रामं गोत्रद्वित यमेव च ॥
विश्वामित्रदेवराततृतीयौदलमेव च
॥६४॥देवी चचाई वै तेषां गोत्रदेवी प्रकीर्तिता ॥
अस्मिन्गोत्रे तुये जाता दुर्बला दीनमा नसाः
॥६५॥असत्यभाषिणो विप्रा लोभिनो नृपसत्तम ॥
सर्व्वविद्याप्रवीणाश्च ब्राह्मणा ब्रह्मसत्तम
॥६६॥इति चतुर्थं स्थानम्
॥४॥ज्येष्ठलोजा पंचमं च स्वस्थानं प्रतिकीर्तितम् ॥
वत्सशीया कुत्सशीया प्रवरद्वितयं स्मृतम्
॥६७॥आवरिवृवाप्रः यौवनाश्वभृगुच्यवनआप्नोर्वजमदग्निस्तथैव हि
॥६८॥चचाई वत्सगोत्रस्य शांता च कुत्सगोत्रजा ॥
एतैस्त्रिभिः पंचभिश्च द्विजा ब्रह्मस्वरूपिणः
॥६९॥शांता दांताः सुशीलाश्च धन पुत्रैश्च संयुताः ॥
वेदाध्ययनहीनाश्च कुशलाः सर्वकर्मसु
॥७०॥सुरूपाश्च सदाचाराः सर्वधर्मेषु निष्ठिताः ॥
दानधर्म्मरताः सर्वे अत्रजा जलदा द्विजाः
॥७१॥इति पंचमं स्थानम्
॥५॥शेरथाग्रामेषु वै जाताः प्रवरद्वयसंयुताः ॥
कुशभारद्वाजाश्चैव देवीद्वयं तथैव च
॥७२॥विश्वामित्रो देवरातस्तृतीयौ दल एव च ॥
आंगिरसबार्हस्पत्यभारद्वाजास्तथैव च
॥७३॥कमला च महालक्ष्मीर्द्वितीया यक्षिणी तथा ॥
अस्मिन्गोत्रे च ये जाताः श्रौतस्मार्त्तरता बुधाः
॥७४॥वेदाध्ययनशीलाश्च तापसाश्चारिमर्द्दनाः ॥
रोषिणो लोभिनो दुष्टा यजने याजने रताः ॥
ब्रह्मक्रियापराः सर्वे ब्राह्मणास्ते मयोदिताः ॥
इति षष्ठं स्थानम्
॥६॥दंतालीया भारद्वाजकुत्सशायास्तथैव च ॥
आंगिरसबार्हस्पत्यभारद्वाजास्तथैव च
॥७६॥देवी च यक्षिणी प्रोक्ता द्वितीया कर्मला तथा ॥
अस्मिन्गोत्रे च ये जाता वाडवा धनिनः शुभाः
॥७७॥वस्त्रालंकरणोपेता द्विजभक्तिपरायणाः ॥
ब्रह्मभोज्यपराः सर्वे सर्वे धर्मपरायणाः
॥७८॥इति सप्तमं स्थानम्
॥७॥वडोद्रीयान्वये जाताश्चत्वारः प्रवराः स्मृताः ॥
कुशः कुत्सश्च वत्सश्च भारद्वाजस्तथैव च
॥७९॥तत्प्रवराण्यहं वक्ष्ये तथा गोत्राण्यनुक्रमात् ॥
विश्वामित्रो देवरातस्तृतीयौदल एव च
॥८०॥आंगिरसांबरीषश्च यौवनाश्वस्तृतीयकः ॥
भार्गवश्च्यावनाप्नवानौर्वजमदग्निस्तथैव च
॥८१॥आंगिरसबार्हस्पत्यभारद्वाजास्तथैव च ॥
कर्मला क्षेमला चैव धारभट्टारिका तथा
॥८२॥चतुर्थी क्षेमला प्रोक्ता गोत्रमाता अनुक्रमात् ॥
अस्मिन्गोत्रे तु ये जाताः पंचयज्ञरताः सदा
॥८३॥लोभिनः क्रोधिनश्चैव प्रजायंते बहुप्रजाः ॥
स्नानदानादि निरताः सदा विनिर्जितेंद्रियाः
॥८४॥वापीकूपतडागानां कर्तारश्च सहस्रशः ॥
व्रतशीला गुणज्ञाश्च मूर्खा वेदविवर्जिताः
॥८५॥इत्यष्टमं स्थानम्
॥८॥गोदणीयाभिधे ग्रामे गोत्रौ द्वौ तत्र संस्थितौ ॥
वत्सगोत्रं प्रथमकं भारद्वाजं द्वितीयकम्
॥८६॥भृगुच्यवनाप्नवानौर्वपुरोध समेव च ॥
शीहरी प्रथमा ज्ञेया द्वितीया यक्षिणी तथा
॥८७॥अस्मिन्गोत्रोद्भवा विप्रा धनधान्यसमन्विताः ॥
सामर्षा लौल्यहीनाश्च द्वेषिणः कुटिलास्तथा
॥८८॥हिंसिनो धनलुब्धाश्च मया प्रोक्तास्तु भूपते
॥८९॥इति नवमं स्थानम्
॥९॥कण्टवाडीआ ग्रामे विप्राः कुशगोत्र शुक्लशुश्च समुद्भ`वाः ॥
प्रवरं तस्य वक्ष्यामि शृणु त्वं च नृपोत्तम
॥९०॥विश्वमित्रो देवरात उदलश्च त्रयः स्मृताः ॥
चचाई देवी सा प्रोक्ता शृणु त्वं नृप सत्तम
॥९१॥यजंते क्रतुभिस्तत्र हृष्टचित्तैकमानसाः ॥
सर्वविद्यासु कुशला ब्राह्मणाः सत्यवादिनः
॥९२॥इति दशमं स्थानम्
॥१०॥वेखलोया मया प्रोक्ता कुत्सवंशे समुद्भवाः ॥
प्रवरत्रयसंयुक्ताः शृणुत्वं च नृपोत्तम
॥९३॥विश्वामित्रो देवराजौदलश्चेति त्रयः स्मृताः ॥
चचाई देवी तेषां वै कुलरक्षाकरी स्मृता
॥९४॥ब्राह्मणाश्च महात्मानः सत्त्ववंतो गुणान्विताः ॥
तपस्वियोगिनश्चैव वेदवेदांगपारगाः
॥९५॥साधवश्च सदाचारा विष्णुभक्तिपरायणाः ॥
स्नानसंध्यापरा नित्यं ब्रह्मभोज्यपरायणाः
॥९६॥अस्मिन्वंशे मया प्रोक्ताः शृणुत्वं च अतः परम्
॥९७॥इत्येकादशस्थानम्
॥११॥देहलोडीआ ये प्रोक्ताः कुत्सप्रवरसंयुताः ॥
आंगिरस आंबरीषो युवनाश्वस्तृतीयकः
॥९८॥गोत्रदेवी मया प्रोक्ता श्रीशेषदुर्बलेति च ॥
कुत्सवंशे च ये जाताः सद्वृत्ताः सत्यभाषिणः
॥९९॥वेदाध्ययनशीलाश्च परच्छिद्रैकदर्शिनः ॥
सामर्षा लौल्यतो हीना द्वेषिणः कुटिलास्तथा
॥१००॥हिंसिनो धनलुब्धाश्च ये च कुत्ससमुद्भवाः
॥१॥इति द्वादशं स्थानम्
॥१२॥कोहे च ब्राह्मणाः प्रोक्ता गोत्रत्रितयसंयुताः ॥
भारद्वाजस्तथा वत्सस्तृतीयः कुश एव च
॥२॥प्रवराण्यहं तथा वक्ष्ये यथा गोत्रक्रमेण हि ॥
भार्गवच्यवनाप्नवानौर्वजमदग्निस्तथैव च
॥३॥कुशप्रवरं तृतीयं तु प्रवरत्रयमेव च ॥
विश्वामित्रो देवरातस्तृतीयौदलमेव च
॥४॥यक्षिणी प्रथमा प्रोक्ता द्वितीया शीहुरी तथा ॥
तृतीया चचाई प्रोक्ता यथानुक्रमगोत्रजा
॥५॥अस्मिन्गोत्रे भवा विप्राः श्रौतस्मार्त्तरता बुधाः ॥
वेदाध्ययनशीलाश्च तापसाश्चारिमर्द्दनाः
॥६॥रोषिणो लोभिनो दुष्टा यजने याजने रताः ॥
ब्रह्मकर्मपराः सर्वे मया प्रोक्ता द्विजोत्तमाः
॥७॥इति त्रयोदशं स्थानम्
॥१३॥चांदणखेडे ये जाता भारद्वाजसमुद्भवाः ॥
आंगिरसो बार्हस्पत्यस्तृतीयो भारद्वाजस्तथा
॥८॥यक्षिणी चास्य वै देवी प्रोक्ता व्यासेन धीमता ॥
भारद्वाजास्तु ये जाता द्विजा ब्रह्मस्वरूपिणः
॥९॥शांता दांता सुशीलाश्च धनपुत्रसमन्विताः ॥
धर्मारण्ये द्विजाः श्रेष्ठाः क्रतुकर्मणि कोविदाः
॥११०॥गुरुभक्तिरताः सर्वे भासयंति स्वकं कुलम्
॥११॥इति चतुर्द्दशस्थानम्
॥१४॥थलग्रामे च ये जाता भारद्वाजसमुद्भवाः ॥
आंगिरसो बार्हस्पत्यो भारद्वाजस्तृतीयकः
॥१२॥अस्मिन्गोत्रे च ये जाता वाडवा धनिनः शुभाः ॥
वस्त्रालंकरणोपेता द्विजभक्तिपरायणाः
॥१३॥ब्रह्मभोज्यपराः सर्वे सर्वे धर्मपरायणाः ॥
गोत्रदेवी मया ख्याता यक्षिणी नाम रक्षिणी
॥१४॥इति पंचदश स्थानम्
॥१५॥मोऊत्रीयाश्च ये जाता द्वौ गोत्रौ तत्र कीर्तितौ ॥
भारद्वाजः कश्यपश्च देवीद्वितयमेव च
॥१५॥चामुण्डा यक्षिणी चैव देवी चात्र प्रकीर्त्तिता ॥
कश्यपाऽवत्सारश्चैव नैधुवश्च तृतीयकः
॥१६॥आंगिरसो बार्हस्पत्यो भारद्वाजस्तृतीयकः ॥
प्रियवाक्या महादक्षा गुरु भक्ति रताः सदा
॥१७॥सदा प्रतिष्ठावंतश्च सर्वभूतहिते रताः ॥
यजंति ते महायज्ञान्काश्यपा ये द्विजातयः
॥१८॥सर्वेषां याजनकरा याज्ञिकाः परमाः स्मृताः
॥१९॥इति षोडशं स्थानम्
॥१६॥हाथीजणे च ये जाता वत्सा भारद्वाजास्तथा ॥
ज्ञानजा यक्षिणी चैव गोत्रदेव्यौ प्रकी र्तिते
॥१२०॥अस्मिन्गोत्रे च ये जाताः पंचयज्ञरताः सदा ॥
लोभिनः क्रोधिनश्चैव प्रजावंतो बहुश्रुताः
॥२१॥स्नानदानादिनिरता विष्णुभक्तिपरायणाः ॥
व्रतशीला गुणज्ञानमूर्खा वेदविवर्जिताः
॥२२॥इति सप्तदशं स्थानम्
॥१७॥कपड्वाणजा ब्राह्मणास्तु भारद्वाजा कुशास्तथा ॥
देवी च यक्षिणी प्रोक्ता द्वितीया चचाई तथा
॥२३॥आंगिरसबार्हस्पत्यौ भारद्वाजस्तृतीयकः ॥
विश्वामित्रो देवरातस्तृतीयौदल मेव च
॥२४॥अस्मिन्गोत्रे च ये जाताः सत्यवादिजितव्रताः ॥
जितेंद्रियाः सुरूपाश्च अल्पाहाराः शुभाननाः
॥२५॥सदोद्यताः पुराणज्ञा महादानपरायणाः ॥
निर्द्वेषिणो लोभयुता वेदाध्ययनतत्पराः
॥२६॥दीर्घदर्शिनो महातेजा महामायाविमोहिताः
॥२७॥इत्यष्टादशं स्थानम्
॥१८॥जन्होरी वाडवाः प्रोक्ताः कुशप्रवरसंयुताः ॥
विश्वामित्रो देवरातस्तृतीयौदल एव च
॥२८॥तारणी च महामाया गोत्रदेवी प्रकीर्त्तिता ॥
अस्मिन्वंशे ससुत्पन्ना वाडवा दुःसहा नृप
॥२९॥महोत्कटा महाकायाः प्रलंबाश्च महोद्धताः ॥
क्लेशरूपाः कृष्णवर्णाः सर्वशास्त्र विशारदाः
॥१३०॥बहुभुग्धनिनो दक्षा द्वेषपापविवर्जिताः ॥
सुवस्त्रभूषा वैरूपा ब्राह्मणा ब्रह्मवादिनः
॥३१॥इत्येकोनविशतितमं स्थानम्
॥१९॥वनोडीयाश्च ये जाता गोत्राणां त्रयमेव च ॥
कुशकुत्सौ च प्रवरौ तृतीयो भारद्वाजस्तथा
॥३२॥विश्वामित्रो देवरातस्तृतीयौदल मेव च ॥
आंगिरस आंबरीषो युवनाश्वस्तृतीयकः
॥३३॥आंगिरसबार्हस्पत्यभारद्वाजास्तथैव च ॥
शेषला प्रथमा प्रोक्ता तथा शांता द्वितीयका
॥३४॥तृतीया धारशांतिश्च गोत्रदेव्यो ह्यनुक्रमात् ॥
अस्मिन्गोत्रे तु ये जाता दुर्बला दीनमानसाः
॥३५॥असत्यभाषिणो विप्रा लोभिनो नृपसत्तम ॥
सर्वविद्याकुशलिनो ब्राह्मणा ब्रह्मवित्तमाः
॥३६॥इति विंशतितमं स्थानम्
॥२०॥कीणावाचनकं स्थानं यदेकाधि कविंशति ॥
भारद्वाजाश्च विप्रेंद्राः कथिता ब्राह्मणाः शुभाः
॥३७॥आंगिरसवार्हस्पत्यभारद्वाजास्तथैव च ॥
यक्षिणी च तथा देवी गोत्रदेवी प्रकी र्तिता
॥३८॥अस्मिन्गोत्रे च ये जाता वाडवा धनिनः शुभाः ॥
वस्त्रालंकरणोपेता द्विजभक्तिपरायणाः
॥३९॥ब्रह्मभोज्यपराः सर्वे सर्वे धर्म्म परायणाः
॥१४०॥इत्येकविंशतितमं स्थानम्
॥२१॥गोविंदणाः च स्वस्थाने ये जाता ब्रह्मसत्तमाः ॥
कुशगोत्रं च वै प्रोक्तं प्रवरत्रयमेव च
॥४१॥विश्वामित्रो देवरातौदलप्रवरमेव च ॥
चचई च महादेवी गोत्रदेवी प्रकीर्तिता
॥४२॥अस्मिन्गोत्रे च ये जाता ब्राह्मणा ब्रह्मवेदिनः ॥
यजंते क्रतुभिस्तत्र हृष्टचित्तैकमानसाः
॥४३॥सर्वविद्यासु कुशला ब्रह्मण्या ब्रह्मवित्तमाः
॥४४॥इति द्वाविंशतितमं स्थानम्
॥२२॥थलत्यजा हि विप्रेंद्रा द्वौ गोत्रौ चाप्यधिष्ठितौ ॥
धारणं संकुशं चैव गोत्रद्वितयमेव च
॥४५॥अगस्त्यो दार्ढ्यच्युतश्च रथ्यवाहनमेव च ॥
विश्वामित्रो देवरात स्तृतीयौदल एव च
॥४६॥देवी च छत्रजा प्रोक्ता द्वितीया थलजा तथा ॥
धारणसगोत्रे ये जाता ब्रह्मण्या ब्रह्मवित्तमाः
॥४७॥त्रिप्रवराश्चैव विख्याता सत्त्ववंतो गुणान्विताः ।
तदन्वये च ये जाता धर्मकर्म्मसमाश्रिताः
॥४८॥धनिनो ज्ञाननिष्ठाश्च तपोयज्ञक्रियादिषु ॥
त्रयोविंशं प्रोक्तमेत्तत्स्थानं मोढकजातिनाम्
॥४९॥इति त्रयोविंशतितमं स्थानम्
॥२३॥वारणसिद्धाश्च ये प्रोक्ता ब्राह्मणा ज्ञानवित्तमाः ॥
अस्मिन्गोत्रे च ये विप्राः सत्यवादिजितव्रताः
॥१५०॥जितेंद्रियाः सुरूपाश्च अल्पाहाराः शुभाननाः ॥
सदोद्यताः पुराणज्ञा महादानपरायणाः
॥५१॥निर्द्वेषिणोऽलोभयुता वेदाध्ययनतत्पराः ॥
दीर्घदर्शिनो महातेजा महामायाविमोहिताः
॥५२॥चतुर्विंशतितमं प्रोक्तं स्वस्थानं परमं मतम्
॥५३॥इति चतुर्विंशतितमं स्थानम्
॥२४॥भालजाश्चात्र वै प्रोक्ता ब्राह्मणाः सत्यवादिनः
॥५४॥वत्सगोत्रं कुशं चैव गोत्रद्वितयमेव च ॥
तेषां प्रवराण्यहं वक्ष्ये पंचत्रितयमेव च ॥
भृगुश्चयवनाप्नवानौर्वजमदग्निस्तथैव च
॥५५॥आंगिरसौंबरीषश्च यौवनाश्वस्तृतीयकः ॥
शांता च शेषला चात्र देवीद्बितयमेव च
॥५६॥अस्मिन्वंशे समुत्पन्ना सद्वृत्ताः सत्यभाषिणः ॥
शांताश्च भिन्नवर्णाश्च निर्धनाश्च कुचैलिनः
॥५७॥सगर्वा लौल्ययुक्ताश्च वेदशास्त्रेषु निश्चलाः ॥
पंचविंशतिमं प्रोक्तं स्वस्थानं मोढज्ञातिनाम्
॥५८॥इति पंचविंशतितमं स्थानम्
॥२५॥महोवीआश्च ये संति ब्राह्मणा ब्रह्मवित्तमाः ॥
एकमेव च वै गोत्रं कुशसंज्ञं पवित्रकम्
॥५९॥विश्वामित्रो देवरातस्तृतीयौदल एव च ॥
देवी चवाई चैवात्र रक्षारूपा व्यवस्थिता
॥१६०॥अस्मिन्गोत्रे च ये जाताः सत्यवादि जितेद्रियाः ॥
सत्यव्रताः सुरूपाश्च अल्पाहाराः शुभा ननाः
॥६१॥दयालवः कृपालवः सर्वभूतहिते रताः ॥
षड्विंशतितमं प्रोक्तं स्वस्थानं त्रह्मवादिनाम्
॥६२॥रामेण संस्तुताश्चैव सानुजेन तथैव च
॥६३॥इति षड्विंशतितमं स्थानम्
॥२६॥तियाश्रीयामथोवक्ष्ये स्वस्थानं सप्तविंशकम् ॥
अस्मिन्स्थाने च ये जाता ब्राह्मणा वेदपारगाः
॥६४॥शांडिल्यगोत्रं चैवात्र कथितं वेदसत्तमैः ॥
पंचप्रवरमथो प्रोक्तं ज्ञानजा चात्र देवता
॥६५॥काश्यपावत्सारश्चैव शांडि लोसित एव च ॥
पंचमो देवलश्चैव प्रवराणि तथा क्रमात् ॥
ज्ञानजा च तथा देवी कथिता स्थानदेवता
॥६६॥अस्मिन्वंशे च ये जातास्ते द्विजाः सूर्यवर्चसः ॥
चंद्रवच्छीतलाः सर्वे धर्मारण्ये व्यवस्थिताः
॥६७॥सदाचारा महाराज वेदशास्त्रपरायणाः ॥
याज्ञिकाश्च शुभाचाराः सत्यशौचपरायणाः
॥६८॥धर्मज्ञा दानशीलाश्च निर्मला हि मदोत्सुकाः ॥
तपःस्वाध्यायनिरता न्यायधर्मपरायणाः ॥
सप्तविंशतिमं स्थानं कथितं ब्रह्मवित्तमैः
॥६९॥इति सप्तविंशं स्थानम्
॥२७॥गोधरीयाश्च ये जाता ब्राह्मणा ज्ञानसत्तमाः ॥
गोत्रत्रयमथो वक्ष्ये यथा चैवाप्यनुक्रमात्
॥१७०॥प्रथमं धारणसं चैव जातूकर्णं द्वितीयकम् ॥
तृतीयं कौशिकं चैव यथा चैवाप्यनुक्रमात्
॥७१॥धारणसगोत्रे ये जाताः प्रवरैस्त्रिभिः संयुताः ॥
अगस्तिश्च दार्ढच्युत इध्मवाहनसंज्ञकः
॥७२॥वसिष्ठश्च तथात्रेयो जातूकर्णस्तृतीयकः ॥
विश्वामित्रो माधुच्छंदस अघमषणस्तृतीयकः
॥७३॥महाबला च मालेया द्वितीया चैव यक्षिणी ॥
तृतीया च महायोगी गोत्रदेव्यः प्रकीर्तिताः
॥७४॥अस्मिन्वंशे च ये जाता ब्राह्मणाः सत्यवादिनः ॥
अलौल्याश्च महायज्ञा वेदाज्ञाप्रतिपालकाः
॥७५॥इत्यष्टाविंशं स्थानम्
॥२८॥वाटस्त्रहाले ये जाता गोत्रत्रितयमेव च ॥
धारणं प्रथमं ज्ञेयं वत्ससंज्ञं द्वितीयकम्
॥७६॥तृतीयं कुत्ससंज्ञं च गोत्रदेव्यस्तथैव च ॥
प्रथमं धारणसगोत्रं प्रवरत्रयमेव च
॥७७॥अगस्तिदार्ढच्युतश्चैव इध्मवाहन एव च ॥
द्वितीयं वत्ससंज्ञं हि प्रवराणि च पंच वै
॥७८॥भृगु च्यवनाप्नवानौर्वजमदग्निस्तथैव च ॥
तृतीयं कुत्ससंज्ञं हि प्रवरत्रयमेव च
॥७९॥आंगिरसांबरीषौ च यौवनाश्वस्तृतीयकः ॥
देवी चच्छत्रजा चैव द्वितीया शेषला तथा
॥१८०॥ज्ञानजा चैव देवी च गोत्रदेव्यो ह्यनुक्रमात् ॥
अस्मिन्गोत्रे च ये विप्राः सत्यवादिजितेंद्रियाः
॥८१॥सुरूपाश्चाल्पाहाराश्च महादानपरायणाः ॥
निर्द्वेषिणो लोभयुता वेदाध्ययनतत्पराः
॥८२॥दीर्घदर्शिनो महातेजा महोत्काः सत्यवादिनः
॥८३॥इत्येकोनत्रिंशं स्थानम्
॥२९॥माणजा च महास्थानं गोत्रद्वितयमेव च ॥
शांडिल्यश्च कुशश्चैव गोत्रद्वयमितीरितम्
॥८४॥काश्यपोऽवत्सारश्च शांडिल्योऽसित एव च ॥
पंचमो देवलश्चैव एकगोत्रं प्रकीर्तितम्
॥८५॥ज्ञानजा च तथा देवी कथिता चात्र सैव च ॥
द्वितीयं च कुशं गोत्रं प्रवरत्रयमेव च
॥८६॥विश्वामित्रो देवराजस्तृतीयोदलमेव च ॥
ज्ञानदा चात्र वै देवी द्वितीया संप्रकीर्तिता
॥८७॥अस्मिन्गोत्रे तु ये जाता दुर्बला दीनमानसाः ॥
असत्यभाषिणो विप्रा लोभिनो नृपसत्तम
॥८८॥सर्वविद्याकुशलिनो ब्राह्मणा ब्रह्मसत्तमाः
॥८९॥इति त्रिंशं स्थानम्
॥३०॥साणदां च परं स्थानं पवित्रं परमं मतम् ॥
कुशप्रवरजा विप्रास्तत्रस्थाः पावनाः स्मृताः
॥१९०॥विश्वामित्रो देवरातस्तृतीयोदल एव च ॥
ज्ञानदा च महादेवी गोत्रदेवी प्रकीर्तिता
॥९१॥अस्मिन्गोत्रे तु ये जाता दुर्बला दीनमानसाः ॥
असत्यभाषिणो विप्रा लोभिनो नृपसत्तम
॥९२॥सर्वविद्याकुशिलिनो ब्राह्मणा ब्रह्मवित्तमाः
॥९३॥इत्येकत्रिंशं स्थानम्
॥३१॥आनन्दीया च संस्थानं गोत्रद्वितयमेव च ॥
भारद्वाजं नाम चैकं शांडिल्यं च द्वितीयकम्
॥९४॥आंगिरसो बार्हस्पत्यो भारद्वाजस्तृतीयकः ॥
चचाई चात्र या देवी गोत्रदेवी प्रकीर्तिता
॥९५॥काश्यपावत्सारश्च शांडिल्योऽसित एव च ॥
पंचमो देवलश्चैव प्रवराणि यथाक्रमम्
॥९६॥ज्ञानजा च तथा देवी कथिता गोत्रदेवता ॥
अस्मिन्गोत्रे च ये जाता निर्लोभाः शुद्धमानसाः
॥९७॥यदृच्छालाभसंतुष्टा ब्राह्मणा ब्रह्मवित्तमाः
॥९८॥इति द्वात्रिंशं स्थानम्
॥३२॥पाटडीया परं स्थानं पवित्रं परिकीर्तितम्।
कुशगोत्रं भवेदत्र प्रवरत्रयसंयुतम्
॥९९॥विश्वामित्रो देवरातस्तृतीयौदलमेव हि ॥
अस्मिन्गोत्रे च ये जाता वेदशास्त्र परायणाः ॥
मदोद्धुराश्च ते विप्रा न्यायमार्गप्रवर्तकाः
॥१॥इति त्रयस्त्रिंशं स्थानम्
॥३३॥टीकोलिया परं स्थानं कुशगोत्रं तथैव च ॥
विश्वामित्रो देवरातस्तृतीयौदलमेव च
॥२॥चचाई चात्र वै देवी गोत्रदेवी प्रकीर्तिता ॥
अस्मिन्गोत्रे भवा विप्राः श्रुतिस्मृतिपरायणाः
॥३॥रोगिणो लोभिनो दुष्टा यजने याजने रताः ॥
ब्रह्मक्रियापराः सर्वे मोढाः प्रोक्ता मयात्र वै
॥४॥इति चतुस्त्रिंशं स्थानम्
॥३४॥गमीधाणीयं परमं स्थानं प्रोक्तं वै पचत्रिंशकम् ॥
योत्र धारणसं चैव देवी चात्र महाबला
॥५॥अगस्तिदार्ढच्युतइध्मवाहनसंज्ञकाः ॥
अस्मिन्वंशे च ये जाता ब्राह्मणा ब्रह्मतत्पराः
॥६॥अलौल्याश्च महाप्राज्ञा वेदाज्ञाप्रतिपालकाः
॥७॥इति पंचत्रिंशं स्थानम्
॥३५॥मात्रा च परमं स्थानं पवित्रं सर्वदेहिनाम् ॥
कुशगोत्रं पवित्रं तु परमं चात्र धिष्ठितम्
॥८॥विश्वामित्रो देवरातो दलश्चैव तृतीयकः ॥
ज्ञानदा च महादेवी सर्वलोकैकरक्षिणी
॥९॥अस्मिन्वंशे समुद्भूता ब्राह्मणा देवतत्पराः ॥
सस्वाधायवषट्कारा वेदशास्त्रप्रवर्तकाः
॥२१०॥इति षट्त्रिशं स्थानम्
॥३६॥नातमोरा परं स्थानं पवित्रं परमं शुभम् ॥
कुशगोत्रं च तत्रास्ति प्रवरत्रयसंयुतम्
॥११॥विश्वामित्रो देवरातस्तृतीयौदलमेव च ॥
ज्ञानजा चात्र वै देवी गोत्रदेवी प्रकीर्तिता
॥१२॥अस्मिन्वंशे भवा ये च ब्राह्मणा ब्रह्मवित्तमाः ॥
धर्मज्ञाः सत्यवक्तारो व्रतदानपरायणाः
॥१३॥इति सप्तत्रिंशं स्थानम्
॥३७॥बलोला च महास्थानं पवित्रं परमाद्भुतम् ॥
कुशगोत्रं समाख्यातं प्रवरत्रयमेव च
॥१४॥पूर्वोक्तं प्रवरं चैव देवी चैवात्र मानदा ॥
वंशेस्मिन्परमाः प्रोक्ताः काजेशेन विनिर्मिताः
॥१५॥असत्यभाषिणो विप्रा लोभिनो नृपसत्तम ॥
सर्वविद्याकुशलिनो ब्राह्मणा ब्रह्मसत्तमाः
॥१६॥इत्यष्टत्रिंशं स्थानम्
॥३८॥राज्यजा च महास्थानं लौगाक्षाप्रवरं तथा ॥
काश्यपावत्सारवाशिष्ठं प्रवरत्रयमेव च
॥१७॥भद्रा च योगिनी चैव गोत्रदेवी प्रकीर्तिता ॥
अस्मिन्वंशे समुद्भूता ब्राह्मणा वेदतत्पराः
॥१८॥नित्यस्नाननित्यहोमनित्यदानपरायणाः ॥
नित्यधर्मरताश्चैव नित्यनैमित्ततत्पराः
॥१९॥इत्येकोनचत्वारिंशं स्थानम
॥३९॥रूपोला परमं स्थानं पवित्रमतिपुण्यदम् ॥
अस्मिन्गोत्रत्रये चैव देवीत्रितयमेव च
॥२२०॥प्रथमं कुत्सवत्साख्यौ भारद्वाजस्तृतीयकः ॥
आंगिरसोंबरीषश्च यौवनाश्वस्तृतीयकः
॥२१॥भृगुच्यवनाप्नवानौर्वजगदग्निस्तथैव च ॥
आंगिरसवार्हस्पत्यभारद्वाजस्तथैव च
॥२२॥क्षेमला चैव वै देवी धारभट्टारिका तथा ॥
तृतीया क्षेमला प्रोक्ता गोत्रमाता ह्यनुक्रमात्
॥२३॥अस्मिन्गोत्रे च ये जाता पंचयज्ञरताः सदा ॥
लोभिनः क्रोधिनश्चैव प्रजायन्ते बहुप्रजाः
॥२४॥स्नानदानादिनिरताः सदा च विजितेंद्रियाः ॥
वापीकूपतडागानां कर्त्तारश्च सहस्रशः
॥२५॥इति चत्वारिंशं स्थानम्
॥४०॥बोधणी परमं स्थानं पवित्रं पापनाशनम् ॥
कुशं च कौशिकं चैव गोत्रद्वितयमेव च
॥२६॥विश्वामित्रश्च प्रथमो देवरातोदलेति च ॥
विश्वामित्राघमर्षणकौशिकेति तथैव च
॥२७॥यक्षिणी प्रथमा चैव द्वितीया तारणी तथा ॥
अस्मिन्गोत्रे तु ये जाता दुर्बला दीनमानसाः
॥२८॥असत्यभाषिणो विप्रा लोभिनो नृपसत्तम ॥
सर्वविद्याकुशलिनो ब्राह्मणा ब्रह्मसत्तमाः
॥२९॥इत्येकचत्वारिशं स्थानम्
॥४१॥छत्रोटा च परं स्थानं सर्वलोकैकपूजितम् ॥
कुशगोत्रं समाख्यातं प्रवरत्रयमेव हि
॥२३०॥विश्वामित्रो देवरातस्तृतीयो दलमेव वै ॥
चचाई चात्र वै देवी गोत्रदेवी प्रकीर्तिता
॥३१॥अस्मिन्वंशे भवाश्चैव वेदशास्त्रपरायणाः ॥
महोदयाश्च ते विप्रा न्यायमार्गप्रवर्तकाः
॥३२॥इति द्विचत्वारिंशं स्थानम्
॥४२॥खल एवात्र संस्थानं त्रयश्चत्वारिंशमेव हि ॥
वत्सगोत्रोद्भवा विप्राः कृषिकर्मप्रवर्तकाः
॥३३॥गोत्रजा ज्ञानजा देवी प्रवराः पंच एव हि ॥
भार्गावच्या वनाप्नवानौर्वजामदग्न्येति चैव हि
॥३४॥अस्मिन्गोत्रे भवा विप्राः श्रौताग्नि सुनिषेवकाः ॥
वेदाध्ययनशीलाश्च तापसाश्चारिमर्दनाः
॥३५॥रोषिणो लोभिनो हृष्टा यजने याजने रताः ॥
सर्वभूतदयाविष्टास्तथा परोपकारिणः
॥३६॥इति त्रयश्चत्वारिंश स्थानम्
॥४३॥वासंतड्यां च विप्राणां कुशगोत्रमुदाहृतम् ॥
विश्वामित्रो देवारातस्तृतीयौदलमेव हि
॥३७॥चचाई चात्र वै देवी गोत्रदेवी प्रकीर्तिता ॥
अस्मिन्वंशे च ये जाताः पूर्वोक्ता ब्रह्मतत्पराः
॥३८॥परोपकारिणश्चैव परचित्तानुवर्तिनः ॥
परस्वविमुखाश्चैव परमार्गप्रवर्त्तकाः
॥३९॥इति चतुश्चत्वारिंशं स्थानम्
॥४४॥अतः परं च संस्थानं जाखासणमुदाहृतम् ॥
गोत्रं वै वात्स्यसंज्ञं तु गोत्रजा शीहुरी तथा ॥
प्रवराणि च पंचैव मया तव प्रकाशितम्
॥२४०॥भार्गवच्यावनाप्नवानौर्वपुरोधसः स्मृतः ॥
अस्मिन्वंशे च ये जाता वाडवाः सुखवासिनः ॥
विप्राः स्थूलाश्च ज्ञातारः सर्वकर्म रताश्च वै
॥४१॥सर्वे धर्मैकविश्वासाः सर्वलोकैकपूजिताः ॥
वेदशास्त्रार्थनिपुणा यजने याजने रताः
॥४२॥सदाचाराः सुरूपाश्च तुंदिला दीर्घ दर्शिनः ॥
शीहुरी चात्र वै देवी कुलदेवी प्रकीर्तिता
॥४३॥इति पंचचत्वारिंशं स्थानम्
॥४५॥षट्चत्वारिंशकं स्थानं मोटानां तु प्रकाशितम् ॥
गोतीआनामसंज्ञा तु कुशगोत्रमिहास्ति च
॥४४॥विश्वामित्रं प्रथमं चैव द्वितीयं देवरातकम् ॥
तृतीयमौदलं चैव प्रवरत्रितयं त्विदम्
॥४५॥यक्षिणी चात्र वै देवी राक्षसानां प्रभंजनी ॥
अस्मिन्वंशे च ये जाता ब्राह्मणा ब्रह्मतत्पराः
॥४६॥धर्मे मतिप्रवृत्ताश्च धर्मशास्त्रेषु निष्ठिताः
॥४७॥इति षटचत्वारिंशस्थानम्
॥४६॥सप्तचत्वारिंशकं च संस्थानं परिकीर्तितम् ॥
वरलीयाख्यसंस्थानं पवित्रं परमं मतम्
॥४८॥भारद्वाजं तथा गोत्रं प्रवराणि तथैव च ॥
यक्षिणी चात्र वै देवी कुलदेवी प्रकीर्तिता
॥४९॥आंगिरसं बार्हस्पत्यं भारद्वाजं तृतीयकम् ॥
अस्मिन्वंशे च ये जाताः ब्राह्मणा पूतमूर्तयः
॥२५०॥येषां वाक्योदकेनैव शुध्यंति पापिनो नराः
॥५१॥इति सप्तचत्वारिंशकं स्थानम्
॥४७॥दुधीयाख्यं परं स्थानं गोत्रद्वितयमेव च ॥
धारणसं तथा गोत्रमांगिरकसमेव च
॥५२॥अगस्तिदार्ढच्युतइध्मवाहनसंज्ञकम् ॥
छत्राइ च महादेवी द्वितीयं प्रवरं शृणु
॥५३॥आंगिरसांबरीषौ च यौवनाश्वस्तृतीयकः ॥
ज्ञानदा शेषला चैव ज्ञानदा सर्वदेहिनाम्
॥५४॥अस्मिन्वंशे समुत्पन्ना वाडवा दुःसहा नृप ॥
मदोत्कटा महाकायाः प्रलंभाश्च मदोद्धताः
॥५५॥क्लेशरूपाः कृष्णवर्णाः सर्वशस्त्रविशारदाः ॥
बहुभुग्धनिनो दक्षा द्वेषपापविवर्जिताः
॥५६॥इत्यष्टाचत्वारिशकं स्थानम्
॥४८॥हासोलासं प्रवक्ष्यामि स्वस्थानं चात्र संश्रुतम् ॥
शांडिल्यगोत्रं चैवात्र प्रवरैः पंचभिर्युतम्
॥५७॥भार्गवच्यावनाप्नवानौर्वं वै जामदग्न्यकम् ॥
यक्षिणी चात्र वै देवी पवित्रा पापनाशिनी
॥५८॥अस्मिन्वंशे च ये जाता ब्राह्मणाः स्थूलदेहिनः ॥
लंबोदरा लंबकर्णा लंबहस्ता महाद्विजाः
॥५९॥अरोगिणः सदा देवाः सत्यव्रतपरायणाः
॥२६०॥इत्येकोनपञ्चाशत्तमं स्थानम्
॥४९॥वैहालाख्यं च संस्थानं पचाशत्तममेव हि ॥
कुशगोत्रं तथा चैव देवी चात्र महाबला
॥६१॥अस्मिन्गोत्रे भवा विप्रा दुष्टाः कुटिलगामिनः ॥
धनिनो धर्मनिष्ठाश्च वेदवेदांगपारगाः
॥६२॥दानभोगरताः सर्वे श्रौते च कृत बुद्धयः
॥६३॥इति पञ्चाशत्तमं स्थानम्
॥५०॥असाला परमं स्थानं प्रवरद्वयमेव हि ॥
कुशं च धारणं चैव प्रवराणि क्रमेण तु
॥६४॥विश्वामित्रो देवरातो देवलस्तु तृतीयकः ॥
ज्ञानजा च तथा देवी गोत्रदेवी प्रकीर्तिता
॥६५॥इत्येकपंचाशत्तमं स्थानम्
॥५१॥नालोला परमं स्थानं द्विपंचाशत्तमं किल ॥
वत्सगोत्रं तथा ख्यातं द्वितीयं धारणसं तथा
॥६६॥प्रवराश्चैव पूर्वोक्ता देव्युक्ता पूर्वमेव हि ॥
अस्मिन्वंशे च ये जाताः पवित्राः परमा मताः ॥
६७ बहुनोक्तेन किं विप्राः सर्व एवात्र सत्तमाः ॥
सर्वे शुद्धा महात्मानः सर्वे कुलपरंपराः
॥६८॥इति द्वापञ्चाश त्तमं स्थानम्
॥५२॥देहोलं परमं स्थानं ब्राह्मणानां परंतप ॥
कुशवंशोद्भवा विप्रास्तत्र जाता नृसत्तम ॥
पूर्वोक्तप्रवराण्येव देवी पूर्वोदिता मया
॥६९॥तस्मिन्गोत्रे द्विजा जाताः पूर्वोक्तगुणशालिनः
॥२७०॥इति त्रिपंचाशत्तमं स्थानम्
॥५३॥सोहासीयापुरं स्थानं गोत्रत्रितयमेव हि ॥
भारद्वाजस्तथा ख्यातं गोत्रं वत्सं तथैव च
॥७१॥यक्षिणी ज्ञानजा चैव सिहोली च यथाक्रमम् ॥
एतद्वंशपरीक्षा च पूर्वोक्ता नृपसत्तम
॥७२॥इति चतुःपंचाशत्तमं स्थानम्
॥५४॥पंचपंचाशकं स्थानं प्रवक्ष्यामि तवाधुना ॥
नाम्ना संहालियास्थानं दत्तं रामेण वै पुरा
॥७३॥तत्र वै कुत्सगोत्रस्था ब्राह्मणां ब्रह्मवर्चसः ॥
स्वधर्मनिरता नित्याः स्वकर्म्मनिरताश्च ते
॥७४॥आंगिरसांबरीषेच यौवनाश्वमतः परम् ॥
शांता चैवात्र वै देवी शांतिकर्म्मणि शा तिदा
॥७५॥इति पंचपंचाशत्तमं स्थानम्
॥५५॥एवं मया ते गोत्राणि स्थानान्यपि तथैव च ॥
प्रवराणि तथैवात्र ब्राह्मणानां परंतप
॥७६॥अतः परं प्रवक्ष्यामि त्रैविद्यानां परंतप ॥
स्वस्थानं च मया प्रोक्तं यथानुक्रमेण तु
॥७७॥शीलायाः प्रथमं स्थानं मंडोरा च द्वितीयकम् ॥
एवडी च तृतीय हि गुंदराणा चतुर्थकम्
॥७८॥पंचमं कल्याणीया देगामा षष्ठकं तथा ॥
नायकपुरा सप्तमं च डलीआ चाष्टमं तथा
॥७९॥कडोव्या नवमं चैव कोहाटोया दशमं तथा ॥
हरडीयैकादशं चैव भदुकीया द्वादशं तथा
॥२८०॥संप्राणावा तथा चात्र कंदरावा प्रकीर्तितम् ॥
वासरोवा त्रयोदशं शरंडावा चतुर्दशम्
॥८१॥लोलासणा पंचदशं वारोला षोडशं तथा ॥
नागलपुरा मया चात्र उक्तं सप्तदशं तथा
॥८२॥ब्रह्मोवाच
चातुर्विद्यास्तु ये विप्रा नागताः पुनरागताः ॥
वसतिं तत्र रम्ये च चक्रिरे ते द्विजोत्तमाः
॥८३॥चतुर्विंशतिसंख्याका रामशासनलिप्सया ॥
हनुमंतं प्रति गता व्यावृत्ताः पुनरागताः
॥८४॥तेषां दोषात्समस्तास्ते स्थानभ्रंशत्वमागताः ॥
कियत्काले गते तेषां विरोधः समपद्यत
॥८५॥भिन्नाचारा भिन्नभाषा वेशसंशयमागताः ॥
पंचदशसहस्राणि मध्ये ये के च वाडवाः
॥८६॥कृषिकर्मरता आसन्केचिद्यज्ञपरायणाः ॥
केचिन्मल्लाश्च संजा ताः केचिद्वै वेदपाठकाः
॥८७॥आयुर्वेदरताः केचित्केचिद्रजकयाजकाः ॥
संध्यास्नानपराः केचिन्नीलीकर्तृप्रयाजकाः
॥८८॥तंतुकृद्याचनरतास्तंतुवायादियाचकाः ॥
कलौ प्राप्ते द्विजाः भ्रष्टा भविष्यंति न संशयः
॥८९॥शूद्रेषु जातिभेदः स्यात्कलौ प्राप्ते नराधिप ॥
भ्रष्टाचाराः परं ज्ञात्वा ज्ञातिबंधेन पीडिताः
॥२९०॥भोजनाच्छादने राजन्परित्यक्ता निजैर्जनैः ॥
न कोऽपि कन्यां विवहेत्संसर्गेण कदाचन ॥
ततस्ते वणिजो राजं स्तैलकाराः कलौ किल
॥९१॥केचिच्च कलकाराश्च केचित्तंदुलकारिणः ॥
राजपुत्राश्रिताः केचिन्नानावर्णसमाश्रिताः ॥
कलौ प्राप्ते तु वणिजो भ्रष्टाः केपि महीतले
॥९२॥तेषां तु पृथगाचाराः सम्बन्धाश्च पृथक्कृता ॥
सीतापुरे च वसतिः केषांचित्समजायत
॥९३॥साभ्रमत्यास्तटे केचिद्यत्र कुत्र व्यवस्थिताः ॥
सीतापुरात्तु ये पूर्वं भयभीता समागताः
॥९४॥साभ्रमत्युत्तरे कूले श्रीक्षेत्रे ये व्यवस्थिताः ॥
यदा तेषां पदं स्थानं दत्तं वै सुखवासकम्
॥९५॥पुनस्तेऽपि गताः सद्यस्तस्मिन्सीतापुरे स्वयम् ॥
पंचपञ्चाशद्ग्रामाश्च दत्तास्तु प्रुनरागमे
॥९६॥रामेण मोढविप्राणां निवासांस्तेषु चक्रिरे ॥
वृत्तिबाह्यास्तु ये विप्रा धर्मारण्यांतरस्थिताः
॥९७॥नास्माकं वणिजां वृत्तौ ग्रामवृत्तौ न किंचन ॥
प्रयोजनं हि विप्रेंद्रा वासोऽस्माकं तु रोचते
॥९८॥इत्युक्ते समनुज्ञातास्त्रैविद्यैस्तैर्द्विजोत्तमैः ॥
तेषु ग्रामेषु ते विप्राश्चातुर्विद्या द्विजोत्तमाः
॥९९॥स्वकर्मनिरताः शांताः कृषिकर्मपरायणाः ॥
धर्मारण्यान्नातिदूरे धेनूः संचारयंति ते
॥३००॥बहवस्तत्र गोपाला वभूवुर्द्विजबालकाः ॥
चातुर्विद्यास्तु शिशवस्तेषां धेनूरचारयन् ॥
तेषां भोजनकामाय अन्नपानादिसत्कृतम्
॥१॥अनयन्वै युवतयो विधवा अपि बालकाः
॥२॥कालेन कियता राजंस्तेषां प्रीतिरभून्मिथः ॥
गोपाला बुभुजुः प्रेम्णा कुमार्यो द्विजबालिकाः
॥३॥जाताः सगर्भास्ताः सर्वा दृष्टास्तैर्द्विजसत्तमैः ॥
परित्यक्ताश्च सदनाद्धिक्कृताः पापकर्मणा
॥४॥तेभ्यो जाता कुमारा ये कातीभा गोलकास्तथा ॥
धेनुजास्ते धरालोके ख्यातिं जग्मुर्द्विजोत्तमाः
॥५॥वृत्ति बाह्यास्तु ते विप्रा भिक्षां कुर्वंति नित्यशः ॥
अन्यच्च श्रूयतां राजंस्त्रैविद्यानां द्विजन्मनाम्
॥६॥कुष्ठी कोऽपि तथा पंगुर्मूर्खो वा बधिरोऽपि वा ॥
काणो वाप्यथ कुब्जो वा बद्धवागथवा पुनः
॥७॥अप्राप्तकन्यका ह्येते चातुर्विद्यान्समाश्रिताः ॥
वित्तेन महता राजन्सुतांस्तेषां कुमारिकाः
॥८॥उद्वाहितास्तदा राजंस्तस्माज्जातार्भकास्तु ये ॥
त्रिदलजास्ते विख्याताः क्षितिलोकेऽभवंस्ततः
॥९॥वृत्तिं चक्रुर्ब्राह्मणास्तेऽ न्योन्यं मिश्रसमुद्भवाः ॥
अन्यच्च श्रूयतां राजंस्त्रैविद्यानां द्विजन्मनाम्
॥३१०॥रामदत्तेन ग्रामेण करग्रहणहेतवे ॥
एकीभूय द्विजैः सर्वैर्ग्रामं प्रदाय तं बलिम्
॥११॥अर्द्धं निवेदयामासुरर्द्धं चैवोपरक्षितम् ॥
एतल्लब्धं हि मन्वानास्ते द्विजा लौल्यभागिनः
॥१२॥महास्थानगता ये च ते हि विस्मयमाययुः ॥
तन्मध्ये कोऽपि विप्रस्तानुवाच कुपितो वचः
॥१३॥विप्र उवाच
अनृतं चैव भाषंते लौल्येन महता वृताः ॥
पुत्रपौत्रविनाशाय ब्रह्मस्वेष्वतिलोलुपाः
॥१४॥न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ॥
विषमेकाकिनं हंति ब्रह्मस्वं पुत्रपौत्रकम्
॥१५॥ब्रह्मस्वेन च दग्धेषु पुत्रदारगृहादिषु ॥
न च तेऽपि तिष्ठंति ब्रह्मस्वेन विनाशिताः
॥१६॥न नाकं लभते सोऽथ सदा ब्रह्मस्वहारकः ॥
यदा वराटिकां चैव ब्राह्मणस्य हरंति ये
॥१७॥ततो जन्मत्रयाण्येव हर्त्ता निरयमाव्रजेत् ॥
पूर्वजा नोपभुंजंति तत्प्रदत्तं जलं क्वचित्
॥१८॥क्षयाहे नोपभुंजंति तस्य पिंडोदकक्रियाः ॥
संततिं नैव लभते लभ्यमाना न जीवति
॥१९॥यदि जीवति दैवाच्चेद्भ्रष्टाचारा भवेदिति
॥३२०॥एकादशविप्रा ऊचुः
नासत्यं भाषितं विप्राः कथं दूषयसे हि नः ॥
अपराधं विना कस्य कटूक्तिर्युज्यते किल
॥२१॥तच्छ्रुत्वा तैर्द्विजैः पार्थ ग्रामग्राहयिता वणिक् ॥
परिपृष्टः स तत्सर्वं कथयामास कारणम्
॥२२॥वणिजैरेव मे दत्तो बलिश्च द्विजसत्तमाः ॥
तत्सर्वं शुद्धभावेन कथितं तु द्विजन्मसु
॥२३॥ततोऽर्द्धदलं ज्ञात्वा ते कुपिता द्विजपुत्रकाः ॥
वृत्तेर्बहिष्कृतास्ते वै एकादश द्विजास्ततः
॥२४॥एकादशसमा ज्ञातिर्विख्याता भुवनत्रये ॥
न तेषां सहसंबन्धो न विवाहश्च जायते
॥२५॥एकादशसमा ये च बहिर्ग्रामे वसंति ते ॥
एवं भेदाः समभवन्नाना मोढद्विजन्मनाम् ॥
युगानुसारात्कालेन ज्ञातीनां च वृषस्य वा
॥३२६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये ज्ञातिभेदवर्णनंनामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥