धराक्षेत्रवर्णनम्
व्यास उवाच
अतः परं प्रवक्ष्यामि शिवतीर्थमनुत्तमम् ॥
यत्रासौ शंकरो देवः पुनर्जन्मधरोऽभवत्
॥१॥कीलितो देवदेवेशः शंकरश्च त्रिलोचनः ॥
गिरिजया महाभाग पातितो भूमिमंडले
॥२॥छलितो मुह्यमानस्तु दिवारात्रिं न वेत्ति च ॥
पुंस्त्रीनपुंसकाश्चैव जडीभूतस्त्रिलोचनः
॥३॥कल्पांतमिव संजातं तदा तस्मिंश्च कीलिते ॥
पार्वत्या सहसा तस्य कृत कीलनकं तदा
॥४॥युधिष्ठिर उवाच
एतदाश्चर्यमतुलं वचनं यत्त्वयोदितम् ॥
यो गुरुः सर्वदेवानां योगिनां चैव सर्वदा
॥५॥पार्वत्या कीलितः कस्मा न्नष्टवृत्तिः शिवः कथम् ॥
कारणं कथ्यतां तत्र परं कौतूहलं हि मे
॥६॥व्यास उवाच
मन्त्रौघा विविधा राजञ्छंकरेण प्रकाशिताः ॥
पार्वत्यग्रे महाराज अथर्वणोपवेदजाः
॥७॥शाकिनी डाकिनी चैव काकिनी हाकिनी तथा ॥
एकिनी लाकिनी ह्येताः षट्भेदास्तत्र कीर्ति ताः
॥७॥बीजान्युद्धृत्य वै ताभ्यो माला चैकवृता कृता ॥
शंभुना कथिता चैव पार्वत्यग्रे नृपोत्तम
॥९॥तैश्चैव अष्टा भवति मंत्रोद्धारः कृतस्तु सा ॥
साधयेत्सा महादुष्टा शाकिनी प्रमदानघे
॥१०॥श्रीपार्वत्युवाच
प्रकाशितास्त्वया नाथ भेदा ह्येते षडेव हि ॥
षड्विधाः शक्तयो नाथ अगम्यायोगमालिनीः ॥
षड्विधोक्तं त्वयैकेन कूटात्कृतं वदस्व माम्
॥११॥श्रीमहादेव उवाच
अप्रकाशो महादेवि देवासुरैस्तु मानवैः
॥१२॥पार्वत्युवाच
नमस्ते सर्वरूपाय नमस्ते वृषभध्वज ॥
जटिलेश नमस्तुभ्यं नीलकण्ठ नमोस्तुते
॥१३॥कृपासिंधो नमस्तुभ्यं नमस्ते कालरूपिणे ॥
एतैश्च बहुभिर्वाक्यैः कोमलैः करुणानिधिम्
॥१४॥तोषयित्वाद्रितनया दण्डवत्प्रणिपत्य च ॥
जग्राह पादयुगलं तां प्रोवाच दयापरः
॥१५॥किमर्थं स्तूयसे भद्रे याच्यतां मनसीप्सितम्
॥१६॥पार्वत्युवाच
समाहारं च सध्यानं कथयस्व सविस्तरम् ॥
असंदेहमशेषं च यद्यहं वल्लभा तव
॥१७॥श्रीरुद्र उवाच
न प्रकाश्यं त्वया देवि समाहारोद्भवं फलम् ॥
सर्वं तत्त्वमहं वक्ष्ये मंत्रकूटाद्यमेव हि
॥१७॥मायाबीजं तु सर्वेषां कूटानां हि वरानने ॥
सर्वेषां मध्यमो वर्णो बिंदुना दादिशोभितः
॥१९॥वह्निबीजं सवातं च कूर्मबीजसमन्वितम् ॥
आदित्यप्रभवं बीजं शक्तिबीजोद्भवं सदा
॥२०॥एतत्कूटं चाद्यबीजं द्वितीयं च विभोर्मतम् ॥
तृतीयं चाग्निबीजं तु संयुक्तं बिंदुनेंदुना
॥२१॥चतुर्थं युक्तं शेषेण ब्रह्मबीजमृषिस्तथा ॥
पंचमं कालबीजं च षष्ठं पार्थिव बीजकम्
॥२२॥सप्तमे चाष्टमे बाह्यं नृसिंहेन समन्वितम् ॥
नवमे द्वितीयमेकं च दशमे चाष्टकूटकम्
॥२३॥विपरीतं तयोर्बीजं रुद्राक्षे वर चारिणि ॥
चतुर्दशे चतुर्थ्यर्थं पृथ्वीबीजेन संयुतम्
॥२४॥कूटाः शेषाक्षराः केचिद्रक्षिता मेनकात्मजे ॥
सा पपात यदोर्व्यां हि शिवपत्नी तदा नृप
॥२५॥रामेणाश्वासिता तत्र प्रहसंस्त्रिपुरांतकः ॥
भद्रे यस्मात्त्वया पन्नं जंवशक्तिर्भविष्यति
॥२६॥मारणे मोहने वश्ये आकर्षणे च क्षोभणे ॥
यंयं कामयते नूनं ततत्सिद्धिर्भविष्यति
॥२७॥इति श्रुत्वा तदा देवी दुष्टचित्ता शुचिस्मिता ॥
कूटशेषास्ततो वीराः प्रोक्तास्तस्यै तु शंभु ना
॥२८॥उवाच च कृपासिंधुः साधयस्व यथाविधि ॥
कैलासात्तु हरस्तत्र धर्मारण्यं गतो भृशम्
॥२९॥ज्ञात्वा देवी ययौ तत्र यत्रासौ वृषभध्वजः ॥
तत्क्षणात्पतितो भूमौ धर्मारण्ये नृपोत्तम
॥३०॥जटा चंद्रोरगाः शूलं वृषभाद्यायुधानि३ ॥
मुंडमाला च कौपीनं कपालं ब्रह्मणस्तु वै
॥३१॥गता गणाश्च सर्वत्र भूतप्रेता दिशो दश ॥
विसंज्ञं च स्वमात्मानं ज्ञात्वा देवो महेश्वरः
॥३२॥स्वेदजास्तु समुत्पन्ना गणाः कूटादयस्तथा ॥
पंचकूटान्समुत्पाद्य तस्मात्तदाधमूलिने
॥३३॥साधकास्ते महाराज जपहोमपरायणाः ॥
प्रेतासनास्तु ते सर्वे कालकूटोपरि स्थिताः
॥३४॥कथयंति स्वमात्मानं येन मोक्षः पिनाकिनः ॥
ततः कष्टसमाविष्टा गौरी वह्निभयातुरा
॥३५॥सभाजितः शिवस्तैश्च गौरी ह्रीणा त्वधोमुखी ॥
तपस्तेपे च तत्रस्था शंकरादेशकारिणी
॥३६॥पंचाग्निसेवनं कृत्वा धूम्रपानमधोमुखी ॥
कूटाक्षरैः स्तुतस्तैस्तु तोषितो वृषभध्वजः
॥३७॥धराक्षेत्रमिदं राजन्पापघ्नं सर्वकामदम् ॥
देवमज्जनकं शुभ्रं स्थानकेऽस्मिन्विराजते
॥३८॥आश्विने कृष्णपक्षे च चतुर्दश्या दिने नृप ॥
तत्र स्नात्वा च पीत्वा च सर्वपापैः प्रमुच्यते
॥३९॥पूजयित्वा च देवेशमुपोष्य च विधानतः ॥
शाकिनी डाकिनी चैव वेतालाः पितरो ग्रहाः
॥४०॥ग्रहा धिष्ण्या न पीड्यंते सत्यंसत्यं वरानने ॥
सांगं रुद्रजपं तत्र कृत्वा पापैः प्रमुच्यते
॥४१॥नश्यंति त्रिविधा रोगाः सत्यंसत्यं च भूपते ॥
एतत्सर्वं मया ख्यातं देवमज्जनकं शृणु
॥४२॥अश्वमेधसहस्रैस्तु कृतैस्तु भूरिदक्षिणैः ॥
तत्फलं समवाप्नोति श्रोता श्रावयिता नरः
॥४३॥अपुत्रो लभते पुत्रान्निर्धनो धनमाप्नुयात् ॥
आयुरारोग्यमैश्वर्यं लभते नात्र संशयः
॥४४॥मनोवाक्कायजनितं पातकं त्रिविधं च यत् ॥
तत्सर्वं नाशमायाति स्मरणात्कीर्तनान्नृप
॥४५॥धन्यं यशस्यमायुष्यं सुखसंतानदायकम् ॥
माहात्म्यं शृणुयाद्वत्स सर्वसौख्यान्वितो भवेत्
॥४६॥सर्वतीर्थेषु यत्पुण्यं सर्वदानेषु यत्फलम् ॥
सर्वयज्ञैश्च यत्पुण्यं जायते श्रवणान्नृप
॥४७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां तृतीये ब्रह्मखण्ड पूर्वभागे धर्माण्यमाहात्म्ये धराक्षेत्रवर्णनं नाम विंशोऽध्यायः ॥ २० ॥