मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — धर्मारण्यखण्डः, अध्याय ६

3
ब्रह्मखण्डः · धर्मारण्यखण्डः · 6

सदाचारलक्षणवर्णनम्

व्यास उवाच

उपकाराय साधूनां गृहस्थाश्रमवासिनाम् ॥

यथा च क्रियते धर्मो यथावत्कथयामि ते

॥१॥

वत्स गार्हस्थ्यमास्थाय नरः सर्वमिदं जगत् ॥

पुष्णाति तेन लोकांश्च स जयत्यभिवांछितान्

॥२॥

पितरो मुनयो देवा भूतानि मनुजास्तथा ॥

क्रिमिकीटपतंगाश्च वयांसि पितरोऽसुराः

॥३॥

गृहस्थमुपजीवंति ततस्तृप्तिं प्रयांति च ॥

मुखं वास्य निरीक्षंते अपो नो दास्यतीति च

॥४॥

सर्वस्याधारभूता ये वत्स धेनुस्त्रयीमयी ॥

अस्यां प्रतिष्ठितं विश्वं विश्वहेतुश्च या मता

॥५॥

ऋक्पृष्ठासौ यजुःसंध्या सामकुक्षिपयोधरा ॥

इष्टापूर्तविषाणा च साधुसूक्ततनूरुहा

॥६॥

शांति पुष्टिशकृन्मूत्रा वर्णपादप्रतिष्ठिता ॥

उपजीव्यमाना जगतां पदक्रमजटाघनैः

॥७॥

स्वाहाकारस्वधाकारौ वषट्कारश्च पुत्रक ॥

हन्तकारस्तथै वान्यस्तस्याः स्तनचतुष्टयम्

॥८॥

स्वाहाकारस्तनं देवाः पितरश्च स्वधामयम् ॥

मुनयश्च वषट्कारं देवभूतसुरेश्वराः

॥९॥

हन्तकारं मनुष्याश्च पिबंति सततं स्तनम् ॥

एवमध्यापयेदेव वेदानां प्रत्यहं त्रयीम्

॥१०॥

तेषामुच्छेदकर्त्ता यः पुरुषोऽनंतपापकृत् ॥

स तमस्यंधतामिस्रे नरके हि निमज्जति

॥११॥

यस्त्वेनां मानवो धेनुं स्वर्वत्सैरमरादिभिः ॥

पूजयत्युचिते काले स स्वर्गायोपपद्यते

॥१२॥

तस्मात्पुत्र मनुष्येण देवर्षि पितृमानवाः ॥

भूतानि चानुदिवसं पोष्याणि स्वतनुर्यथा

॥१३॥

तस्मात्स्नातः शुचिर्भूत्वा देवर्षिपितृतर्पणम् ॥

यज्ञस्यांते तथैवाद्भिः काले कुर्यात्समाहितः

॥१४॥

सुमनोगन्धपुष्पैश्च देवानभ्यर्च्य मानवः ॥

ततोग्नेस्तर्पणं कुर्याद्द्याच्चापि बलींस्तथा

॥१५॥

नक्तंचरेभ्यो भूतेभ्यो बलिमाकाशतो हरेत् ॥

पितॄणां निर्वपेत्तद्वद्दक्षिणाभिमुखस्ततः

॥१६॥

गृहस्थस्तत्परो भूत्वा समाहितमानसः ॥

ततस्तोयमुपादाय तेष्वेवार्पण सत्क्रियाम्

॥१७॥

स्थानेषु निक्षिपेत्प्राज्ञो नाम्ना तूदिश्य देवताः ॥

एवं बलिं गृहे दत्त्वा गृहे गृहपतिः शुचिः

॥१८॥

आचम्य च ततः कुर्यात्प्राज्ञो द्वारावलोकनम् ॥

मुहूर्तस्याष्टमं भागमुदीक्षेतातिथिं ततः

॥१९॥

अतिथिं तत्र संप्राप्तमर्घ्यपाद्योदकेन च ॥

बुभुक्षुमागतं श्रांतं याचमानमकिंचनम्

॥२०॥

ब्राह्मणं प्राहुरतिथिं संपूज्य शक्तितो बुधैः ॥

न पृछेत्तत्राचरणं स्वाध्यायं चापि पंडितः

॥२१॥

शोभनाशोभनाकारं तं मन्येत प्रजापतिम् ॥

अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते

॥२२॥

तस्मै दत्त्वा तु यो भुंक्ते स तु भुंक्तेऽमृतं नरः ॥

अतिथिर्यस्य भग्नाशो गृहात्प्रति निवर्तते

॥२३॥

स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥

अपि वा शाकदानेन यद्वा तोयप्रदानतः ॥

पूजयेत्तं नरः भक्त्या तेनैवातो विमुच्यते

॥२४॥

युधिष्ठिर उवाच

विवाहा ब्राह्मदैवार्षाः प्राजापत्यासुरौ तथा ॥

गांधर्वो राक्षसश्चापि पैशाचोष्टम उच्यते

॥२५॥

एतेषां च विधिं ब्रूहि तथा कार्यं च तत्त्वतः ॥

गृहस्थानां तथा धर्मान्ब्रूहि मे त्वं विशेषतः

॥२६॥

पराशर उवाच

स ब्राह्मो वरमाहूय यत्र कन्या स्वलंकृता ॥

दीयते तत्सुतः पूयात्पुरुषानेकविंशतिम्

॥२७॥

यज्ञस्थायर्त्विजे दैवस्तज्जः पाति चतुर्दश ॥

वरादादाय गोद्वन्द्वमार्षस्तज्जः पुनाति षट्

॥२८॥

सहोभौ चरतां धर्मं प्राजापत्यः स ईरितः ॥

वरवध्वोः स्वेच्छय्रा च गांधर्वोऽन्योन्यमैत्रतः ॥

प्रसह्य कन्याहरणाद्राक्षसो निन्दितः सताम्

॥२९॥

छलेन कन्याहरणात्पैशाचो गर्हितोऽष्टमः ॥

प्रायः क्षत्रविशोरुक्ता गांधर्वासुरराक्षसाः

॥३०॥

अष्टमस्त्वेष पापिष्ठः पापिष्ठानां च संभवः ॥

सवर्णया करो ग्राह्यो धार्यः क्षत्रियया शरः

॥३१॥

प्रतोदो वैश्यया धार्यो वासोंतः शूद्रया तथा ॥

असवर्णा स्वेष विधिः स्मृतौ दृष्टश्च वेदने

॥३२॥

सवर्णाभिस्तु सर्वाभिः पाणिर्ग्राह्यस्त्वयं विधिः ॥

धर्म्ये विवाहे जायंते धर्म्याः पुत्राः शतायुषः

॥३३॥

अधर्म्याद्धर्म्मरहिता मंदभाग्यधनायुषः ॥

कृतकालाभिगमने धर्मोयं गृहिणः परः

॥३४॥

स्त्रीणां वरमनुस्मृत्य यथाकाम्यथवा भवेत् ॥

दिवाभिगमनं पुंसामनायुष्यं परं मतम्

॥३५॥

श्राद्धार्हः सर्वपर्वाणि न गंतव्यानि धीमता ॥

तत्र गछन्स्त्रियं मोहार्द्धर्मात्प्रच्यवते परात्

॥३६॥

ऋतुकालाभिगामी यः स्वदारनिरतश्च यः ॥

स सदा ब्रह्मचारी हि विज्ञेयः स गृहाश्रमी

॥३७॥

आर्षे विवाहे गोद्वंद्वं यदुक्तं तत्र शस्यते ॥

शुल्कमण्वपि कन्यायाः कन्याविक्रयपापकृत्

॥३८॥

अपत्यविक्रयात्कल्पं वसेद्विट्कृमिभोजने ॥

अतो नाण्वपि कन्याया उपजीव्यं नरैर्धनम्

॥३९॥

तत्र तुष्टा महालक्ष्मीर्निवसेद्दानवारिणा ॥

वाणिज्यं नीचसेवा च वेदानध्ययनं तथा

॥४०॥

कुविवाहः क्रियालोपः कुले पतनहेतवः ॥

कुर्याद्वैवाहिके चाग्नौ गृह्यकर्म्मान्वहं गृही

॥४१॥

पञ्चयज्ञक्रियां चापि पक्तिं दैनंदिनीमपि ॥

गृहस्थाश्रमिणः पञ्चसूनाकर्म दिनेदिने

॥४२॥

कुण्डनी पेषणी चुल्ली ह्युदकुम्भी तु मार्जनी ॥

तासां च पंचसूनानां निराकरणहेतवः ॥

क्रतवः पंच निर्द्दिष्टा गृहिश्रेयोभिवर्द्धनाः

॥४३॥

पठनं ब्रह्मयज्ञः स्यात्तर्पणं च पितृक्रतुः ॥

होमो दैवो बलिर्भौत आतिथ्यं नृक्रतुः क्रमात्

॥४४॥

वैश्वदेवांतरे प्राप्तः सूर्योढो वातिथिः स्मृतः ॥

अतिथेरादितोप्येते भोज्या नात्र विचारणा

॥४५॥

पितृदेवमनुष्येभ्यो दत्त्वाश्नात्यमृतं गृही ॥

अदत्त्वान्नं च यो भुंक्ते केवलं स्वोदरंभरिः

॥४६॥

वैश्वदेवेन ये हीना आतिथ्येन विवर्जिताः ॥

सर्वे ते वृषला ज्ञेयाः प्राप्तवेदा अपि द्विजाः

॥४७॥

अकृत्वा वैश्वदेवं तु भुञ्जते ये द्विजाधमाः ॥

इह लोकेन्नहीनाः स्युः काकयोनिं व्रजंत्यथो

॥४८॥

वेदोक्तं विदितं कर्म्म नित्यं कुर्यादतंद्रितः ॥

यदि कुर्याद्यथाशक्ति प्राप्नुयात्सद्गतिं पराम्

॥४९॥

षष्ठ्यष्टम्योर्वसेत्पापं तैले मांसे सदैव हि ॥

चतुर्दश्यां पञ्चदश्यां तथैव च क्षुरे भगे

॥५०॥

उदयन्तं न वीक्षेत नास्तं यंतं न मस्तके ॥

न राहुणोपस्पृष्टं च नांडस्थं वीक्षयेद्रविम्

॥५१॥

न वीक्षेतात्मनो रूपमप्सु धावेन्न कर्दमे ॥

न नग्नां स्त्रियमीक्षेत न नग्नो जलमाविशेत्

॥५२॥

देवतायतनं विप्रं धेनुं मधु मृदं तथा ॥

जातिवृद्धं वयोवृद्धं विद्यावृद्धं तथैव च

॥५३॥

अश्वत्थं चैत्यवृक्षं च गुरुं जलभृतं घटम् ॥

सिद्धान्नं दधिसिद्धार्थं गच्छन्कुर्यात्प्रदक्षिणम्

॥५४॥

रजस्वलां न सेवेत नाश्नीयात्सह भार्यया ॥

एकवासा न भुञ्जीत न भुञ्जीतोत्कटासने

॥५५॥

नाशुचिं स्त्रियमीक्षेत तेज स्कामो द्विजोत्तमः ॥

असंतर्प्य पितॄन्देवान्नाद्यादन्नं च कुत्रचित्

॥५६॥

पक्वान्नं चापि नो मांसं दीर्घकालं जिजीविषुः ॥

न मूत्रणं व्रजे कुर्यान्न वल्मी के न भस्मनि

॥५७॥

न गत्तेंषु ससत्त्वेषु न तिष्ठन्न व्रजन्नपि ॥

ब्राह्मणं सूर्यमग्निं च चंद्रऋक्षगुरूनपि

॥५८॥

अभिपश्यन्न कुर्वीत मलमूत्रविसर्ज नम् ॥

मुखेनोपधमेन्नाग्निं नग्नां नेक्षेत योषितम्

॥५९॥

नांघ्री प्रतापयेदग्नौ न वस्तु अशुचि क्षिपेत् ॥

प्राणिहिंसां न कुर्वीत नाश्नीयात्संध्य योर्द्वयोः

॥६०॥

न संविशेच्च संध्यायां प्रातः सायं क्वचिद्बुधः ॥

नाचक्षीत धयंतीं गां नेंद्रचापं प्रदर्शयेत्

॥६१॥

नैकः सुप्यात्क्वचिच्छून्ये न शयानं प्रबोधयेत् ॥

पंथानं नैकलो यायान्न वार्य्यंजलिना पिबेत्

॥६२॥

न दिवोद्धृतसारं च भक्षयेद्दधि नो निशि ॥

स्त्रीधर्मिणी नाभिवदेन्नाद्यादातृप्ति रात्रिषु

॥६३॥

तौर्यत्रिकप्रियो न स्यात्कांस्ये पादौ न धावयेत् ॥

श्राद्धं कृत्वा परश्राद्धे योऽश्नीयाज्ज्ञानवर्जितः

॥६४॥

दातुः श्राद्धफलं नास्ति भोक्ता किल्बिषभुग्भवेत् ॥

न धारयेदन्यभुक्तं वासश्चोपानहावपि

॥६५॥

न भिन्नभाजनेऽश्नीयान्नासीताग्न्यादिदूषिते ॥

आरोहणं गवां पृष्ठे प्रेतधूमं सरित्तटम्

॥६६॥

बालातपं दिवास्वापं त्यजेद्दीर्घं जिजीविषुः ॥

स्नात्वा न मार्जयेद्गात्रं विसृजेन्न शिखां पथि

॥६७॥

हस्तौ शिरो न धुनुयान्नाकर्षेदासनं पदा ॥

करेण नो मृजेद्गात्रं स्नानवस्त्रेण वा पुनः

॥६८॥

शुनोच्छिष्टं भवेद्गात्रं पुनः स्नानेन शुध्यति ॥

नोत्पाटयेल्लोमनखं दशनेन कदाचन

॥६९॥

करजैः करजच्छेदं विवर्जयेच्छुभाय तु ॥

यदायत्यां त्यजेत्तन्न कुर्यात्कर्म प्रयत्नतः

॥७०॥

अद्वारेण न गन्तव्यं स्ववेश्मापि कदाचन ॥

क्रीडेन्नाज्ञैः सहासीत न धर्म्मघ्नैर्न रोगिभिः

॥७१॥

न शयीत क्वचिन्नग्नः पाणौ भुंजीत नैव च ॥

आर्द्रपादकरास्योऽश्नन्दीर्घकालं न जीवति

॥७२॥

संविशेन्नार्द्रचरणो नोच्छिष्टः क्वचिदाव्रजेत् ॥

शयनस्थो न चाश्नीयान्न पिबेच्च जलं द्विजः

॥७३॥

सोपानत्को नोपविशेन्न जलं चोत्थितः पिबेत् ॥

सर्व्वमम्लमयं नाद्यादारोग्यस्याभिलाषुकः

॥७४॥

न निरीक्षेत विण्मूत्रे नोच्छिष्टः संस्पृशेच्छिरः ॥

नाधितिष्ठेत्तुषांगार भस्मकेशकपालिकाः

॥७५॥

पतितैः सह संवासः पतनायैव जायते ॥

दद्यादासनं मंचं न शूद्राय कदाचन

॥७६॥

ब्राह्मण्याद्धीयते विप्रः शूद्रो धर्माच्च हीयते ॥

धर्मोपदेशः शूद्राणां स्वश्रेयः प्रतिघातयेत्

॥७७॥

द्विजशुश्रूषणं धर्म्मः शूद्राणां हि परो मतः ॥

कण्डूयनं हि शिरसः पाणिभ्यां न शुभं मतम्

॥७८॥

आदिशेद्वैदिकं मंत्रं न शूद्राय कदाचन ॥

ब्राह्मण्या दीयते विप्रः शूद्रो धर्म्माच्च हीयते

॥७९॥

आताडनं कराभ्यां च क्रोशनं केशलुंचनम् ॥

अशास्त्रवर्तनं भूयो लुब्धात्कृत्वा प्रतिग्रहम्

॥८०॥

ब्राह्मणः स च वै याति नरकानेकविंशतिम् ॥

अकालमेघस्तनिते वर्षर्तौ पांसुवर्षणे

॥८१॥

महाबालध्वनौ रात्रावनध्यायाः प्रकीर्तिताः ॥

उल्कापाते च भूकंपे दिग्दाहे मध्यरात्रिषु

॥८२॥

मध्ययोर्वृषलोपान्ते राज्यहारे च सूतके ॥

दशाष्टकासु भूतायां श्राद्धाहे प्रतिपद्यपि

॥८३॥

पूर्णिमायां तथाष्टम्यां विड्वरे राष्ट्रविप्लवे ॥

उपाकर्मणि चोत्सर्गे कल्पादिषु युगादिषु

॥८४॥

आरण्यकमधीत्यापि बाणसाम्नोरपि ध्वनौ ॥

अनध्यायेषु चैतेषु चाधीयीत न वै क्वचित्

॥८५॥

भूताष्टम्योः पञ्चदश्योर्ब्रह्मचारी सदा भवेत् ॥

अनायुष्यकरं चेह परदारोपसर्पणम् ॥

तस्मात्तद्दूरतस्त्याज्य वैरिणां चोपसेवनम्

॥८६॥

पूर्वर्द्धिभिः परित्यक्तमात्मानं नावमानयेत् ॥

सदोद्यमवतां यस्माच्छ्रियो विद्या न दुर्लभाः

॥८७॥

सत्यं ब्रूयात्प्रियं बूयान्न ब्रूयात्सत्यमप्रियम् ॥

प्रियं च नानृतं ब्रूयादेष धर्मो विधीयते

॥८८॥

वाचोवेगं मनावेगं जिह्वावेगं च वर्ज येत् ॥

गुह्यजान्यपि लोमानि तत्स्पर्शादशुचिर्भवेत

॥८९॥

पादधौतोदकं मूत्रमुच्छिष्टान्युदकानि च ॥

निष्ठीवनं च श्लेष्माणं दूराद्दूरं विनिः क्षिपेत

॥९०॥

अहर्न्निशं श्रुतेर्जाप्याच्छौचाचारनिषेवणात ॥

अद्रोहवत्या बुद्ध्या च पूर्वजन्म म्मरेद्द्विजः

॥९१॥

वृद्धान्प्रयत्नाद्वंदेत दद्यात्तेषां स्वमासनम ॥

विनम्रकन्धरो भूयादनुयायात्ततश्च तान्

॥९२॥

श्रुतिभूदेवदेवानां नृपसाधुतपस्विनाम् ॥

पतिव्रतानां नारीणां निन्दां कुर्यान्न कर्हि चित

॥९३॥

उद्धृत्य पञ्चमृत्पिंडान्स्नायात्परजलाशये ॥

श्रद्धया पात्रमासाद्य यत्किंचिद्दीयते वसु

॥९४॥

देशे काले च विधिना तदानंत्याय कल्पते ॥

भूप्रदो मण्डलाधीशः सर्वत्र सुखितोऽन्नदः

॥९५॥

तोयदाता सुरूपः स्यात्पुष्टश्चान्नप्रदो भवेत ॥

प्रदीपदो निर्मलाक्षो गोदातार्यमलोक भाक्

॥९६॥

स्वर्णदाता च दीर्घायुस्तिलदः स्याच्च सुप्रजः ॥

वेश्मदोऽत्युच्चसौधेशो वस्त्रदश्चन्द्रलोकभाक्

॥९७॥

हयप्रदो दिव्यदेहो लक्ष्मीवान्वृषभ प्रदः ॥

सुभार्यः शिबिकादाता सुपर्यंकप्रदोऽपि च

॥९८॥

श्रद्धया प्रतिगृह्णाति श्रद्धया यः प्रयच्छति ॥

स्वर्गिणौ तावुभौ स्यातां पततोऽश्रद्रया त्वधः

॥९९॥

अनृतेन क्षरेद्यज्ञस्तपो विस्मयतः क्षरेत् ॥

क्षरेत्कीर्तिर्विनादानमायुर्विप्रापमानतः

॥१००॥

गंधं पुष्पं कुशा गावः शाकं मांसं पयो दधि ॥

मणिमत्स्यगहं धान्यं ग्राह्यमेतदुपस्थितम्

॥१०१॥

मधूदकं फलं मूलमेधांस्यभयदक्षिणा ॥

अभ्युद्यतानि ग्राह्याणि त्वेतान्यपि निकृष्टतः

॥१०२॥

दासनापितगोपालकुलमित्रार्द्धसीरिणः ॥

भोज्यान्नाः शूद्रवर्गेमी तथात्मविनिवेदकः

॥१०३॥

इत्थमाचारधर्मोयं धर्मारण्यनिवासिनाम् ॥

श्रुतिस्मृत्युक्तधर्मोऽयं युधिष्ठिर निवेदितः

॥१०४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये सदाचारलक्षणवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥