मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — धर्मारण्यखण्डः, अध्याय ९

3
ब्रह्मखण्डः · धर्मारण्यखण्डः · 9

गोत्रप्रवरगोत्रदेवीकथनम्

व्यास उवाच

श्रूयतां राजशार्दूल पुण्यमाख्यानमुत्तमम् ॥

स्तूयमानो जगन्नाथ इदं वचनमब्रवीत्

॥१॥

विष्णुरुवाच

किमर्थमागताः सर्वे ब्रह्माद्याः सुरसत्तमाः ॥

पृथिव्यां कुशलं कच्चित्कुतो वो भयमागतम्

॥२॥

ततः प्रोवाच वै हृष्टो ब्रह्मा तं केशवं वचः ॥

न भयं विद्यतेऽस्माकं त्रैलोक्ये सचराचरे

॥३॥

एकविज्ञापनार्थाय आगतोऽहं तवांतिके ॥

तदहं संप्रवक्ष्यामि तदेतच्छृणु मे वचः

॥४॥

परं तु पूर्वं धर्मेण स्थापितं तीर्थमुत्तमम् ॥

तद्द्रष्टुकामोऽहं देव त्वत्प्रसादाज्जनार्दन

॥५॥

तत्र त्वं देवदेवेश गमने कुरु मानसम् ॥

यथा सत्तीर्थतां याति धर्मारण्यमनुत्तमम्

॥६॥

विष्णुरुवाच

साधुसाधु महाभाग त्वर्यतां तत्र मा चिरम् ॥

ममापि चित्तं तत्रैव तद्दर्शनेस्ति लालसम्

॥७॥

व्यास उवाच

तार्क्ष्यमारुह्य गोविंद स्तत्रागाच्छीघ्रमेव हि ॥

ततो धर्मेण ते देवाः सेंद्राः सर्षिगणास्तथा

॥८॥

ब्रह्मविष्णुमहेशाद्या दृष्टा दूरान्मुमोद च ॥

धर्मराजोपि तान्दृष्ट्वा देवा न्विष्णुपुरोगमान्

॥९॥

आगतः स्वाश्रमात्तत्र पूजां प्रगृह्य तत्पुरः ॥

आसनादुत्थितः शीघ्रं सपर्याद्यं प्रगृह्य च ॥

एकैकस्य चकाराथ पूजां चैव पृथक्पृथक्

॥१०॥

चकार पूजां विधिवत्तेषां तत्रार्कनंदनः ॥

आसनेषूपवेश्याथ पूजां कृत्वा गरीयसीम्

॥११॥

यम उवाच

तीर्थरूपमिदं क्षेत्रं प्रसादाद्देवकीसुत ॥

त्वत्तोषविधिना चाद्य कृपया च शिवस्य च

॥१२॥

अद्य मे सफलं जन्म अद्य मे सफलं तपः ॥

अद्य मे सफलं स्थानं काजेशानां समागमात्

॥१३॥

व्यास उवाच

एवं स्तुतस्तदा विष्णुः प्रोवाच मधुरं वचः ॥

तुष्टोऽस्मि धर्म राजेंद्र अहं स्तोत्रेण ते विभो

॥१४॥

किंचित्प्रार्थय मत्तोऽहं करोमि तव वांछितम् ॥

यत्तेऽस्त्यभीप्सितं तुभ्यं तद्ददामि न संशयः

॥१५॥

यम उवाच

यदि तुष्टोऽसि देवेश वांछितं कुरुषे यदि ॥

धर्मारण्ये महापुण्ये ऋषीणामाश्रमान्कुरु

॥१६॥

वसंति वाडवा यत्र यजंति चैव याज्ञिकाः ॥

वेदनिर्घोषसंयुक्तं भाति तत्तीर्थमुत्तमम्

॥१७॥

अब्राह्मणमिदं तीर्थं पीडयिष्यंति जन्तवः ॥

तस्मात्त्वं वाडवाञ्छौरे समानय ऋषी न्बहून् ॥

धर्मारण्यं यथा भाति त्रैलोक्ये सचराचरे

॥१८॥

ततो विष्णुः सहस्राक्षः सहस्रशीर्षः सहस्रपात् ॥

सहस्रशस्तदा रूपं कृतवान्धर्मवत्सलः ॥

यस्मिन्स्थाने च ये विप्राः सदाचाराः शुभव्रताः

॥१९॥

अशेषधर्मकुशलाः सर्वशास्त्रविशारदाः ॥

तपोज्ञाने महाख्याता ब्रह्मयज्ञपरायणाः ॥

स्थापिता ऋषयः सर्वे सहस्राण्यष्टादशैव तु

॥२०॥

नानादेशात्समानीय स्थापितास्तत्र तैः सुरैः ॥

आश्रमांश्च बहूंस्तत्र काजेशैरपि निर्मितान्

॥२१॥

धर्मोपदेशात्कृष्णेन ब्रह्मणा च शिवेन च ॥

स्वेस्वे स्थाने यथायोग्ये स्थापयामास केशवः

॥२२॥

युधिष्ठिर उवाच

कस्मिन्वंशे समुत्पन्ना ब्राह्मणा वेदपारगाः ॥

स्थापिताः सपरीवाराः पुत्रपौत्रसमावृताः ॥

शिष्यैश्च बहुभिर्युक्ता अग्निहोत्रपरायणाः ॥

तेषां स्थानानि नामानि यथावच्च वदस्व मे

॥२३॥

व्यास उवाच

श्रूयतां नृपशार्दूल धर्म्मारण्यनिवासिनाम्

॥२४॥

महात्मनां ब्राह्मणानामृषीणामूर्ध्वरेतसाम् ॥

तेषां वै पुत्रपौत्राणां नामानि च वदाम्यहम्

॥२५॥

चतुर्विशतिगोत्राणि द्विजानां पांडवर्षभ ॥

तेषां शाखाः प्रशाखाश्च पुत्रपौत्रादयस्तथा

॥२६॥

जज्ञिरे बहवः पुत्राः शतशोऽथ सहस्रशः ॥

चतुर्विशतिमुख्यानां नामानि प्रवदामि ते ॥

द्विजानामृषयः प्रोक्ताः प्रवराणि तथा शृणु

॥२७॥

भारद्वाजस्तथा वत्सः कौशिकः कुश एव च ॥

शांडिल्यः काश्यपश्चैव गौतमश्छांधनस्तथा

॥२८॥

जातूकर्ण्यस्तथा वत्सो वसिष्ठो धारणस्तथा ॥

आत्रेयो भांडिलश्चैव लौकिकाश्च इतः परम्

॥२९॥

कृष्णायनोपमन्युश्च गार्ग्यमुद्गलमौषकाः ॥

पुण्यासनः पराशरः कौंडिन्यश्च ततः परम्

॥३०॥

तथा गान्यासनश्चैव प्रवराणि चतुर्विंशतिः ॥

जामदग्न्यस्य गोत्रस्य प्रवराः पंच एव हि

॥३१॥

भार्गवश्च्यवनाप्नुवानौर्वश्च जमदग्निकः ॥

पंचैते प्रवरा राजन्विख्याता लोकविश्रुताः

॥३२॥

एवं गोत्रसमुत्पन्ना वाडवा वेदपारगाः ॥

द्विजपूजाक्रियायुक्ता नानाक्रतुक्रियापराः

॥३३॥

गुणेन संहिता आसन् षट्कर्मनिरताश्च ये ॥

एवंविधा महाभागा नानादेशभवा द्विजाः

॥३४॥

भामेवसं तृतीयं च प्रवराः पंच एव हि ॥

भार्गवच्यावनाप्नुवानौर्वजामदग्न्यसंयुताः ॥

आत्रेयोऽर्चनानसश्च श्यावास्येति तृतीयकः

॥३५॥

अस्मिन्गोत्रे भवा विप्रा दुष्टाः कुटिलगामिनः ॥

धनिनो धर्मनिष्ठाश्च वेदवेदांगपारगाः

॥३६॥

दानभोगरताः सर्वे श्रौतस्मार्तेषु संमताः ॥

मांडव्यगोत्रे विज्ञेयाः प्रवरैः पंचभिर्युताः

॥३७॥

भार्गवश्च्यावनो ऽत्रिश्चाप्नुवानौर्वस्तथैव च ॥

अस्मिन्गोत्रे भवा विप्राः श्रुतिस्मृतिपरायणाः

॥३८॥

रोगिणो लोभिनो दुष्टा यजने याजने रताः ॥

ब्रह्मक्रिया पराः सर्वे मांडव्याः कुरुसत्तम

॥३९॥

गार्ग्यस्य गोत्रे ये जातास्तेषां तु प्रवरास्त्रयः ॥

अंगिराश्चांबरीषश्च यौवनाश्वस्तृतीयकः

॥४०॥

अस्मिन्गोत्रे समुत्पन्नाः सद्वृत्ताः सत्यभाषिणः ॥

शांताश्च भिन्नवर्णाश्च निर्द्धनाश्च कुचैलिनः

॥४१॥

संगवात्सल्ययुक्ताश्च वेदशास्त्रेषु निश्चलाः ॥

वत्सगोत्रे द्विजा भूप प्रवराः पंच एव हि

॥४२॥

भार्गवश्च्यवनाप्नुवानौर्वश्च जमदग्निकः ॥

एभिस्तु पंच विख्याता द्विजा ब्रह्मस्वरूपिणः

॥४३॥

शांता दांताः सुशीलाश्च धर्मपुत्रैः सुसंयुता ॥

वेदाध्ययनहीनाश्च कुशलाः सर्वकर्मसु

॥४४॥

सुरूपाश्च सदाचाराः सर्वधर्मेषु निष्ठिताः ॥

दानधर्म रताः सर्वे अन्नदा जलदा द्विजाः

॥४५॥

दयालवः सुशीलाश्च सर्वभूतहिते रताः ॥

काश्यपा ब्राह्मणा राजन्प्रवरत्रयसंयुताः

॥४६॥

काश्यपश्चापवत्सारो नैध्रुवश्च तृतीयकः ॥

वेदज्ञा गौरवर्णाश्च नैष्ठिका यज्ञकारकाः

॥४७॥

प्रियवासा महादक्षा गुरुभक्तिरताः सदा ॥

प्रतिष्ठामानव न्तश्च सर्वभूतहिते रताः

॥४८॥

यजंते च महायज्ञान्काश्यपेया द्विजातयः ॥

धारीणसगोत्रजाश्च प्रवरैस्त्रिभिरन्विताः

॥४९॥

अगस्तिदर्विश्वेताश्व दध्यवाहनसंज्ञकाः ॥

अस्मिन्गोत्रे च ये जाता धर्मकर्मसमाश्रिताः

॥५०॥

कर्मक्रूराश्च ते सर्वे तथैवोदरिणस्तु ते ॥

लंबकर्णा महादंष्ट्रा द्विजा धनपरायणाः

॥५१॥

क्रोधिनो द्वेषिणश्चैव सर्वसत्त्वभयंकराः ॥

लौगाक्षसोद्भवा ये वै वाडवाः सत्यसंश्रिताः

॥५२॥

प्रवराश्च त्रयस्तेषां तत्त्वज्ञानस्वरूपकाः ॥

कश्यपश्चैव वत्सश्च वसिष्ठश्च तृतीयकः

॥५३॥

सदाचारास्तु विख्याता वैष्णवा बहुवृ त्तयः ॥

रोमभिर्बहुभिर्व्याप्ताः कृष्णवर्णास्तु वाडवाः

॥५४॥

शांता दाताः सुशीलाश्च स्वदारनिरताः सदा ॥

कुशिकसगोत्रे ये जाताः प्रवरैस्त्रिभिरन्विताः

॥५५॥

विश्वामित्रो देवरात औदलश्च त्रयश्च ये ॥

अस्मिन्गोत्रे तु ये जाता दुर्बला दीनमानसाः

॥५६॥

असत्यभाषिणो विप्राः सुरूपा नृपसत्तमाः ॥

सर्व्वविद्याकुशलिनो ब्राह्मणा ब्रह्मसत्तमाः

॥५७॥

उपमन्युसगोत्रेयाः प्रवरत्रयसंयुताः ॥

वसिष्ठश्च भरद्वाजस्त्विंद्रप्रमद एव वा

॥५८॥

अस्मिन्गोत्रे तु ये विप्राः क्रूराः कुटिलगामिनः ॥

दूषणा द्वेषिणस्तुच्छाः सर्वसंग्रहतत्पराः

॥५९॥

कलहोत्पादने दक्षा धनिनो मानिनस्तथा ॥

सर्वदैव प्रदुष्टाश्च दुष्टसंगरतास्तथा

॥६०॥

रोगिणो दुर्बलाश्चैव वृत्त्युपकल्पवर्जिताः ॥

वात्स्यगोत्रे भवा विप्राः प्रवरैः पंचभिर्युताः

॥६१॥

भार्गवच्यावनाप्नुवानौर्वश्च जमदग्निकः ॥

अस्मिन्गोत्रे भवा विप्राः स्थूलाश्च बहुबुद्धयः

॥६२॥

सर्वकर्मरता श्चैव सर्वधर्मेषु निश्चलाः ॥

वेदशास्त्रार्थनिपुणा यजने याजने रताः

॥६३॥

सदाचाराः सुरूपाश्च बुद्धितो दीर्घदर्शिनः ॥

वात्स्यायनसगोत्रेयाः प्रवरैः पंचभिर्युताः

॥६४॥

भार्गवच्यावनाप्नुवानौर्वश्च जमदग्निकः ॥

पूर्वोक्ताः प्रवराश्चास्य कथितास्तव भारत

॥६५॥

अस्मिन्गोत्रे तु ये जाता पाकयज्ञरताः सदा ॥

लोभिनः क्रोधिनश्चैव प्रजायन्ते बहुप्रजाः

॥६६॥

स्नानदानादिनिरताः सर्वदाश्च जितेंद्रियाः ॥

वापीकूपतडागानां कर्तारश्च सहस्रशः ॥

व्रतशीला गुणज्ञाश्च मूर्खा वेदविवर्जिताः

॥६७॥

कौशिकवंशे ये जाताः प्रवरत्रयसंयुताः ॥

विश्वामित्रोऽघर्मषी च कौशिकश्च तृतीयकः

॥६८॥

अस्मिन्गोत्रे च ये जाता ब्राह्मणा ब्रह्मवेदिनः ॥

शांता दांताः सुशीलाश्च सर्वधर्मपरायणाः

॥६९॥

अपुत्रिण स्तथा रूक्षास्तेजोहीना द्विजोत्तमाः ॥

भारद्वाजसगोत्रेयाः प्रवरैः पंचभिर्युताः

॥७०॥

अंगिरसो बार्हस्पत्यो भारद्वाजस्तु सैन्यसः ॥

गार्ग्यश्चै वेति विज्ञेयाः प्रवराः पंच एव च

॥७१॥

अस्मिन्गोत्रे च ये जाता वाडवा धनिनः शुभाः ॥

वस्त्रालंकरणोपेता द्विजभक्तिपरायणाः

॥७२॥

ब्रह्मभोज्यपराः सर्वे सर्वधर्मपरायणाः ॥

काश्यपगोत्रे यै जाताः प्रवरत्रयसंयुताः

॥७३॥

काश्यपश्चापवत्सारो रैभ्येति विश्रुतास्त्रयः ॥

अस्मिन्गोत्रे भवा विप्रा रक्ताक्षाः क्रूरदृष्टयः

॥७४॥

जिह्वालौल्यरताः सर्वे सर्वे ते पारमार्थिनः ॥

निर्धना रोगिणश्चैते तस्करानृतभाषिणः

॥७५॥

शास्त्रार्थावेदिनः सर्वे वेदस्मृतिविवर्जिताः ॥

शुनकेषु च ये जाता विप्रा ध्यानपरायणाः

॥७६॥

तपस्विनो योगिनश्च वेदवेदांगपारगाः ॥

साधवश्च सदाचारा विष्णुभक्तिपरायणाः

॥७७॥

ह्रस्वकाया भिन्नवर्णा बहुरामा द्विजोत्तमाः ॥

दयालाः सरलाः शांता ब्रह्मभोज्यपरायणाः

॥७८॥

शौनकसेषु ये जाताः प्रवरत्रयसंयुताः ॥

भार्गवशौनहोत्रेति गार्त्स्यप्रमद इति त्रयः

॥७९॥

अस्मिन्देशे समुत्पन्ना वाडवा दुःसहा नृप ॥

महोत्कटा महाकायाः प्रलंबाश्च मदोद्धताः

॥८०॥

क्लेशरूपाः कृष्णवर्णाः सर्वशास्त्रविशारदाः ॥

बहुभुजो मानिनो दक्षा राग द्वेषोपवर्जिताः

॥८१॥

सुवस्त्रभूषारूपा वै ब्राह्मणा ब्रह्मवादिनः ॥

वसिष्ठगोत्रे ये जाताः प्रवरत्रयसंयुताः

॥८२॥

वसिष्ठो भारद्वाजश्च इन्द्रप्रमद एव च ॥

अस्मिन्गोत्रे भवा विप्रा वेदवेदांगपारगाः

॥८३॥

याज्ञिका यज्ञशीलाश्च सुस्वराः सुखिनस्तथा ॥

द्वेषिणो धनवंतश्च पुत्रिणो गुणिनस्तथा

॥८४॥

विशालहृदया राजञ्छूराः शत्रुनिबर्हणाः ॥

गौतमसगोत्रे ये जाताः प्रवराः पंच एव हि

॥८५॥

कौत्सगार्ग्योमवाहाश्च असितो देवलस्तथा ॥

अस्मिन्गोत्रे च ये जाता विप्राः परमपावनाः

॥८६॥

परोपकारिणः सर्वे श्रुतिस्मृति परायणाः ॥

बकासनाश्च कुटिलाश्छद्मवृत्तिपरास्तथा

॥८७॥

नानाशास्त्रार्थनिपुणा नानाभरणभूषिताः ॥

वृक्षादिकर्मकुशला दीर्घरोषाश्च रोगिणः

॥८८॥

आंगिरसगोत्रे ये जाताः प्रवरत्रयसंयुताः ॥

आंगिरसोंबरीषश्च यौवनाश्वस्तृतीयकः

॥८९॥

अस्मिन्गोत्रे च ये जाताः सत्य संभाषिणस्तथा ॥

जितेंद्रियाः सुरूपाश्च अल्पाहाराः शुभाननाः

॥९०॥

महाव्रताः पुराणज्ञा महादानपरायणाः ॥

निर्द्वेषिणो लोभयुता वेदाध्य यनतत्पराः

॥९१॥

दीर्घदर्शिमहातेजो महामायाविमोहिताः ॥

शांडिलसगोत्रेये प्रवरत्रयसंयुताः

॥९२॥

असितो देवलश्चैव शांडिलस्तु तृतीयकः ॥

अस्मिन्गोत्रे महाभागाः कुब्जाश्च द्विजसत्तमाः

॥९३॥

नेत्ररोगी महादुष्टा महात्यागा अनायुषः ॥

कलहोत्पादने दक्षाः सर्वसंग्रह तत्पराः

॥९४॥

मलिना मानिनश्चैव ज्योतिःशास्त्रविशारदाः ॥

आत्रेयसगोत्रे ये जाताः पंचप्रवरसंयुताः

॥९५॥

आत्रेयोऽर्चनानसश्यावाश्वोंगिर सोऽत्रिश्च ॥

अस्मिन्वंशे च ये जाता द्विजास्ते सूर्यवर्चसः

॥९६॥

चंद्रवच्छीतलाः सर्वे धर्मारण्ये व्यवस्थिताः ॥

सदाचारा महादक्षाः श्रुतिशास्त्र परायणाः

॥९७॥

याज्ञिकाश्च शुभाचाराः सत्यशौचपरायणाः ॥

धर्मज्ञा दानशीलाश्च निर्मलाश्च महोत्सुकाः

॥९८॥

तपःस्वाध्यायनिरता न्यायधर्मपरायणाः

॥९९॥

युधिष्ठिर उवाच

कथयस्व महाबाहो धर्मारण्यकथामृतम् ॥

यच्छ्रुत्वा मुच्यते पापाद्घोराद्ब्रह्मवधादपि

॥१००॥

व्यास उवाच

शृणु राजन्प्रवक्ष्यामि कथामेतां सुदुर्लभाम्

॥१॥

यक्षरक्षःपिशाचाद्या उद्वेजयंति वाडवान् ॥

जृंभकोनाम यक्षोऽभूद्धर्म्मारण्यसमीपतः

॥२॥

उद्वेजयति नित्यं स धर्मारण्यनिवासिनः ॥

ततस्तैश्च द्विजाग्र्यैस्तु देवेभ्यो विनिवेदितम्

॥३॥

यक्षरक्षादिना चैव परिभूता वयं सुराः ॥

त्यक्ष्यामोऽद्य वरं स्थानं तद्भयान्नात्र संशयः

॥४॥

ततो देवैः संगधर्वैः स्थापितास्तत्र भूमिषु ॥

सिद्धाश्च वरयोगिन्यः श्रीमातृप्रभृतयस्तथा

॥५॥

रक्षणार्थं हि विप्राणां लोकानां हितकाम्यया ॥

गोत्रान्प्रति तथैकैका स्थापिता योगिनी तदा

॥६॥

यस्य गोत्रस्य या शक्ती रक्षणे पालने क्षमा ॥

सा तस्य कुलदेवीति साक्षात्तत्र बभूव ह

॥७॥

श्रीमाता तारणी देवी आशापूरी च गोत्रपा ॥

इच्छाऽऽर्तिनाशिनी चैव पिप्पली विकारवशा

॥८॥

जगन्माता महामाता सिद्धा भट्टारिका तथा ॥

कदंबा विकरा मीठा सुपर्णा वसुजा तथा

॥९॥

मातंगी च महादेवी वाणी च मुकुटेश्वरी ॥

भद्री चैव महाशक्तिः संहारी च महाबला

॥११०॥

चामुंडा च महादेवी इत्येता गोत्रमातरः ॥

ब्रह्मविष्णुमहेशाद्यैः स्थापितास्तत्र रक्षणे

॥११॥

ताः पूजयंति विप्रेंद्राः स्वधर्मनिरताः सदा ॥

ततः प्रभृति योगिन्यः स्वेस्वे काले सुरक्षिताः

॥१२॥

वाडवाः स्वस्थतां जग्मुः पुत्रपौत्रैः समावृताः ॥

ततो देवाः सगंधर्वा हर्षनिर्भरमानसाः ॥

विमानवरमारूढा जग्मुर्नाकेऽमृताशनाः

॥१३॥

गते वर्षशते राजन्ब्रह्मविष्णुमहेश्वराः ॥

स्मृत्वा तु धर्मारण्यस्य प्रेक्षणार्थं कुतूहलात्

॥१४॥

समाजग्मुस्तदा राजन्प्रभाते उदिते रवौ ॥

विमानवरमारुह्य अप्सरोगणसेविताः

॥१५॥

गंधर्वैर् गीयमानास्ते स्तूयमानाः प्रबोधकैः ॥

तत्र स्थाने द्विजा राजन्समित्पुष्पकुशान्बहून्

॥१६॥

आश्रमांस्तान्परित्यज्य गताः सर्वे दिशो दश ॥

तमाश्रमपदं दृष्ट्वा शून्यं चैव महेश्वरः

॥१७॥

उवाच वाक्यं धर्मज्ञो वाडवान्क्लिशते विभो ॥

शुशूषार्थं हि शुश्रूषन्कल्पयेदिति मे मतिः

॥१८॥

श्रुत्वा तु वचनं शंभोर्देवदेवो जनार्दनः ॥

सत्यंसत्यमिति प्रोच्य ब्रह्माणमिदमब्रवीत्

॥१९॥

भोभो ब्रह्मन्द्विजातीनां शुश्रूषार्थं प्रकल्पय ॥

सृष्टिर्हि शाश्वतीवाद्य द्विजोघोपि सुखी भवेत् ॥

विष्णोर्वाक्यमभिश्रुत्य ब्रह्मा लोकपितामहः

॥१२०॥

संस्मरन्कामधेनुं वै स्मरणेनैव तत्क्षणे ॥

आगता तत्र सा धेनुर्धर्मारण्ये पवित्रके

॥१२१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वार्धे धर्मारण्यमाहात्म्ये गोत्रप्रवरगोत्रदेवीकथनंनाम नवमोऽध्यायः ॥ ९ ॥