शृणु स्कन्द महाप्राज्ञ ह्यद्भुतं यत्कृतं मया
रुद्र उवाच
शृणु स्कन्द महाप्राज्ञ ह्यद्भुतं यत्कृतं मया ॥
धर्मारण्ये महादुष्टो दैत्यः कर्णाटकाभिधः
॥१॥निभृतं हि समागत्य दंपत्योर्विघ्नमाचरत् ॥
तं दृष्ट्वा तद्भयाल्लोकः प्रदुद्राव निरन्तरम्
॥२॥त्यक्त्वा स्थानं गताः सर्वे वणिजो वाडवादयः ॥
मातंगीरूपमास्थाय श्रीमात्रा त्वनया सुत
॥३॥हतः कर्णाटको नाम राक्षसो द्विजघातकः ॥
तदा सर्वेऽपि वै विप्रा हृष्टास्ते तेन कर्मणा
॥४॥स्तुवंति पूजयंति स्म वणिजो भक्तितत्पराः ॥
वर्षेवर्षे प्रकुर्वंति श्रीमातापूजनं शुभम्
॥५॥शुभकार्येषु सर्वेषु प्रथमं पूजयेत्तु ताम् ॥
न स विघ्नं प्रपश्येत तदाप्रभृति पुत्रक
॥६॥युधिष्ठिर उवाच
कोऽसौ दुष्टो महादैत्यः कस्मिन्वंशे समुद्भवः ॥
किं किं तेन कृतं तात सर्वंं कथय सुव्रत
॥७॥व्यास उवाच
शृणु राजन्प्रवक्ष्यामि कर्णाटकविचेष्टितम् ॥
देवानां दानवानां यो दुःसहो वीर्यदर्पितः
॥८॥दुष्टकर्मा दुराचारो महाराष्ट्रो महाभुजः ॥
जित्वा च सकलाँल्लोकांस्त्रैलोक्ये च गतागतः
॥९॥यत्र देवाश्च ऋषयस्तत्र गत्वा महासुरः ॥
छद्मना वा बलेनैव विघ्नं प्रकुरुते नृप ॥
न वेदाध्ययनं लोके भवेत्तस्य भयेन च ॥
कुर्वते वाडवा देवा न च संध्याद्युपासनम्
॥११॥न क्रतुर्वर्तते तत्र न चैव सुरपूजनम् ॥
देशेदेशे च सर्वत्र ग्रामेग्रामे पुरेपुरे
॥१२॥तीर्थेतीर्थे च सर्वत्र विघ्नं प्रकुरुतेऽसुरः ॥
परंतु शक्यते नैव धर्मारण्ये प्रवेशितुम्
॥१३॥भयाच्छक्त्याश्च श्रीमातुर्दानवो विक्लवस्तदा ॥
केनोपायेन तत्रैव गम्यते त्विति चिंतयन्
॥१४॥विघ्नं करिष्ये हि कथं ब्राह्मणानां महात्मनाम् ॥
वेदाध्ययनकर्तॄणां यज्ञे कर्माधितिष्ठताम्
॥१५॥वेदाध्ययनजं शब्दं श्रुत्वा दूरात्स दानवः ॥
विव्यथे स यथा राजन्वज्राहत इव द्विपः
॥१६॥निःश्वासान्मुमुचे रोषाद्दंतैर्दंतांश्च घर्षयन् ॥
दशमानो निजावोष्ठौ पेषयंश्च करावुभौ
॥१७॥उन्मत्तवद्विचरत इतश्चेतश्च मारिष ॥
सन्निपातस्य दोषेण यथा भवति मानवः
॥१८॥तथैव दानवो घोरो धर्मारण्यसमीपगः ॥
भ्रमते दहते चैव दूरादेव भयान्वितः
॥१९॥विवाहकाले विप्राणां रूपं कृत्वा द्विजन्मनः ॥
तत्रागत्य दुराधर्षो नीत्वा दांपत्यमुत्तमम्
॥२०॥उत्पपात महीपृष्ठाद्गगने सोऽसुराधमः ॥
स्वयं च रमते पापो द्वेषाज्जातिस्वभावतः
॥२१॥एवं च बहुशः सोऽथ धर्मारण्याच्च दंपती ॥
गृहीत्वा कुरुते पापं देवानामपि दुःसहम्
॥२२॥विघ्नं करोति दुष्टोऽसौ दंपत्योः सततं भुवि ॥
महाघोरतरं कर्म कुर्वंस्तस्मिन्पुरे वरे
॥२३॥तत्रोद्विग्ना द्विजाः सर्वे पलायंते दिशो दश ॥
गताः सर्वे भूमिदेवा स्त्यक्त्वा स्थानं मनोरमम्
॥२४॥यत्रयत्र महत्तीर्थं तत्रतत्र गता द्विजाः ॥
उद्वसं तत्पुरं जातं तस्मिन्काले नृपोत्तम
॥२५॥न वेदाध्ययनं तत्र न च यज्ञः प्रवर्तते ॥
मनुजास्तत्र तिष्ठंति न कर्णाटभयार्दिताः
॥२६॥द्विजाः सर्वे ततो राजन्वणिजश्च महायशाः ॥
एकत्र मिलिताः सर्वे वक्तुं मंत्रं यथोचितम्
॥२७॥कर्णाटस्य वधोपायं मंत्रयंति द्विजर्षभाः ॥
विचार्यमाणे तैर्दैवाद्वाग्जाता चाशरीरिणी
॥२८॥आराधयत श्रीमातां सर्वदुःखापहारिणीम् ॥
सर्वदैत्यक्षयकरीं सर्वोपद्रवनाशनीम्
॥२९॥तच्छ्रुत्वा वाडवाः सर्वे हर्षव्याकुललोचनाः ॥
श्रीमातां तु समागत्य गृहीत्वा बलिमुत्तमम्
॥३०॥मधु क्षीरं दधि घृतं शर्करा पञ्चधारया ॥
धूपं दीपं तथा चैव चंदनं कुसुमानि च
॥३१॥फलानि विविधान्येव गृहीत्वा वाडवा नृप ॥
धान्यं तु विविधं राजन्भक्तापूपा घृताचिताः
॥३२॥कुल्माषा वटकाश्चैव पायसं घृतमिश्रितम् ॥
सोहालिका दीपिकाश्च सार्द्राश्च वटकास्तथा
॥३३॥राजिकाभिश्च संलिप्ता नवच्छिद्रसमन्विताः ॥
चंद्रबिंबप्रतीकाशा मण्डकास्तत्र कल्पिताः
॥३४॥पञ्चामृतेन स्नपनं कृत्वा गन्धोदकेन च ॥
धूपैर्दीपैश्च नैवेद्यैस्तोषयामासुरीश्वरीम्
॥३५॥नीराजनैः सकपूरैः पुष्पैर्दीपैः सुचंदनैः ॥
श्रीमाता तोषिता राजन्सर्वोपद्रवनाशनी
॥३६॥श्रीमाता च जगन्माता ब्राह्मी सौम्या वरप्रदा ॥
रूपत्रयं समास्थाय पालयेत्सा जगत्त्रयम्
॥३७॥त्रयीरूपेण धर्मात्मन्रक्षते सत्यमंदिरम् ॥
जितेद्रिया जितात्मानो मिलितास्ते द्विजोत्तमाः
॥३८॥तैः सर्वेरर्चिता माता चंदनाद्येन तोषिता ॥
स्तुतिमारेभिरे तत्र वाङ्मनःकायकर्मभिः ॥
एकचित्तेन भावेन ब्रह्मपुत्र्याः पुरः स्थिताः
॥३९॥विप्रा ऊचुः
नमस्ते ब्रह्मपुत्र्यास्तु नमस्ते ब्रह्मचारिणि ॥
नमस्ते जगतां मातर्नमस्ते सर्वगे सदा
॥४०॥क्षुन्निद्रा त्वं तृषा त्वं च क्रोधतंद्रादयस्तथा ॥
त्वं शांतिस्त्वं रतिश्चैव त्वं जया विजया तथा
॥४१॥ब्रह्मविष्णुमहेशाद्यैस्त्वं प्रपन्ना सुरेश्वरि ॥
सावित्री श्रीरुमा चैव त्वं च माता व्यवस्थिता
॥४२॥ब्रह्मविष्णु सुरेशानास्त्वदाधारे व्यवस्थिताः ॥
नमस्तुभ्यं जगन्मातर्धृतिपुष्टिस्वरूपिणि
॥४३॥रतिः क्रोधा महामाया छाया ज्योतिःस्वरूपिणि ॥
सृष्टि स्थित्यंतकृद्देवि कार्यकारणदा सदा
॥४४॥धरा तेजस्तथा वायुः सलिलाकाशमेव च ॥
नमस्तेऽस्तु महाविद्ये महाज्ञानमयेऽनघे
॥४५॥ह्रींकारी देवरूपा त्वं क्लींकारी त्वं महाद्युते ॥
आदिमध्यावसाना त्वं त्राहि चास्मान्महाभयात्
॥४६॥महापापो हि दुष्टात्मा दैत्योऽयं बाधतेऽधुना ॥
त्राणरूपा त्वमेका च अस्माकं कुलदेवता
॥४७॥त्राहित्राहि महादेवि रक्षरक्ष महेश्वरि ॥
हनहन दानवं दुष्टं द्विजातीनां विघ्नकारकम्
॥४८॥एवं स्तुता तदा देवी महामाया द्विजन्मभिः ॥
कर्णाटस्य वधार्थाय द्विजातीनां हिताय च ॥
प्रत्यक्षा साऽभवत्तत्र वरं ब्रूहीत्युवाच ह
॥४९॥श्रीमातोवाच
केन वै त्रासिता विप्राः केन वोद्वेजिताः पुनः ॥
तस्याहं कुपिता विप्रा नयिष्ये यमसादनम्
॥५०॥क्षीणायुषं नरं वित्त येन यूयं निपीडिताः ॥
ददामि वो द्विजातिभ्यो यथेष्टं वक्तुमर्हथ
॥५१॥भक्त्या हि भवतां विप्राः करिष्ये नात्र संशयः
॥५२॥द्विजा ऊचुः
कर्णाटाख्यो महारौद्रो दानवो मदगर्वितः ॥
विघ्नं प्रकुरुते नित्यं सत्यमंदिरवासिनाम्
॥५३॥ब्राह्मणान्सत्यशीलांश्च वेदाध्ययनतत्परान् ॥
द्वेषाद्द्वेष्टि द्वेषणस्तान्नित्यमेव महामते ॥
वेदविद्वेषणो दुष्टो घातयैनं महाद्युते
॥५४॥व्यास उवाच
तथेत्युक्त्वा तु सा देवी प्रहस्य कुलदेवता ॥
वधोपायं विचिंत्यास्य भक्तानां रक्षणाय वै
॥५५॥ततः कोपपरा जाता श्रीमाता नृपसत्तम ॥
कोपेन भृकुटीं कृत्वा रक्तनेत्रांतलोचनाम्
॥५६॥कोपेन महताऽऽविष्टा वसंती पावकं यथा ॥
महाज्वाला मुखान्नेत्रान्नासाकर्णाच्च भारत
॥५७॥तत्तेजसा समुद्भूता मातंगी कामरूपिणी ॥
काली करा लवदना दुर्दर्शवदनोज्ज्वला
॥५८॥रक्तमाल्यांबरधरा मदाघूर्णितलोचना ॥
न्यग्रोधस्य समीपे सा श्रीमाता संश्रिता तदा
॥५९॥अष्टादशभुजा सा तु शुभा माता सुशोभना ॥
धनुर्बाणधरा देवी खड्गखेटकधारिणी
॥६०॥कुठारं क्षुरिकां बिभ्रत्त्रिशूलं पानपात्रकम् ॥
गदां सर्पं च परिघं पिनाकं चैव पाशकम्
॥६१॥अक्षमालाधरा राजन्मद्यकुंभानुधारिणी ॥
शक्तिं च मुशलं चोग्रं कर्तरीं खर्परं तथा
॥६२॥कंटकाढ्यां च बदरीं बिभ्रती तु महानना ॥
तत्राभवन्महायुद्धं तुमुलं लोमहर्षणम्
॥६३॥मातंग्याः सह कर्णाटदानवेन नृपोत्तम
॥६४॥युधिष्ठिर उवाच
कथं युद्धं समभवत्कथं चैवापवर्तत ॥
जितं केनैव धर्मज्ञ तन्ममाचक्ष्व मारिष
॥६५॥व्यास उवाच
एकदा शृणु राजेंद्र यज्जातं दैत्यसंगरे ॥
तत्सर्वं कथयाम्याशु यथावृत्तं हि तत्पुरा
॥६६॥प्रणष्टयोषा ये विप्रा वणिजश्चैव भारत ॥
चैत्रमासे तु संप्राप्ते धर्मारण्ये नृपोत्तम
॥६७॥गौरीमुद्वाहयामासुर्विप्रास्ते संशितव्रताः ॥
स्वस्थानं सुशुभं ज्ञात्वा तीर्थराजं तथोत्तमम्
॥६८॥विवाहं तत्र कुर्वंतो मिलितास्ते द्विजोत्तमाः ॥
कोटिकन्याकुलं तत्र एकत्रासीन्महोत्सवे ॥
धर्मारण्ये महाप्राज्ञ सत्यं सत्यं वदाम्यहम्
॥६९॥चतुर्थ्यामपररात्रेऽभ्यंतरतोऽग्निमादधुः ॥
आसनं ब्रह्मणे दत्त्वा अग्निं कृत्वा प्रदक्षिणम्
॥७०॥स्थालीपाकं च कृत्वाथ कृत्वा वेदीः शुभास्तदा ॥
चतुर्हस्ताः सकलशा नागपाश समन्विताः
॥७१॥वेदमंत्रेण शुभ्रेण मंत्रयंते ततो द्विजाः ॥
चरतां दंपतीनां हि परिवेश्य यथोचितम्
॥७२॥ब्रह्मणा सहितास्तत्र वाडवा स्ते सुहर्षिताः ॥
कुर्वते वेदनिर्घोषं तारस्वरनिनादितम्
॥७३॥तेन शब्देन महता कृत्स्नमापूरितं नभः ॥
तं श्रुत्वा दानवो घोरो वेदध्वनिं द्विजे रितम्
॥७४॥उत्पपातासनात्तूर्णं ससैन्यो गतचेतनः ॥
धावतः सर्वभृत्यास्तं ये चान्ये तानुवाच सः
॥७५॥श्रूयतां कुत्र शब्दोऽयं वाडवानां समुत्थितः ॥
तस्य तद्वचनं श्रुत्वा दैतेयाः सत्वरं ययुः
॥७६॥विभ्रांतचेतसः सर्वे इतश्चेतश्च धाविताः ॥
धर्मारण्ये गताः केचित्तत्र दृष्टा द्विजा तयः
॥७७॥उद्गिरंतो हि निगमान्विवाहसमये नृप ॥
सर्वं निवेदयामासुः कर्णाटाय दुरात्मने
॥७८॥तच्छ्रुत्वा रक्तताम्राक्षो द्विजद्विट् कोपपू रितः ॥
अभ्यधावन्महाभाग यत्र ते दंपती नृप
॥७९॥खमाश्रित्य तदा दैत्यमायां कुर्वन्स राक्षसः ॥
अहरद्दंपती राजन्सर्वालंकारसंयुतान्
॥८०॥ततस्ते वाडवाः सर्वे संगता भुवनेश्वरीम् ॥
बुंबारवं प्रकुर्वाणास्त्राहित्राहीति चोचिरे
॥८१॥तच्छ्रुत्वा विश्वजननी मातंगी भुवनेश्वरी ॥
सिंहनादं प्रकुर्वाणा त्रिशूलवरधारिणी
॥८२॥ततः प्रववृते युद्धं देवीकर्णाटयोस्तथा ॥
ऋषीणां पश्यतां तत्र वणिजां च द्विजन्मनाम्
॥८३॥पश्यतामभवयुद्धं तुमुलं लोमहर्षणम् ॥
अस्त्रैश्चिच्छेद मातगी मदविह्वलितं रिपुम्
॥८४॥सोऽपि दैत्यस्ततस्तस्या बाणेनैकेन वक्षसि ॥
असावपि त्रिशूलेन घातितः कश्मलं गतः
॥८५॥मुष्टिभिश्चैव तां देवीं सोऽपि ताडयतेऽसुरः ॥
सोऽपि देव्या ततः शीघ्रं नागपाशेन यंत्रितः
॥८६॥ततस्तेनैव दैत्येन गरुडास्त्रं समादधे ॥
तया नारायणास्त्रं तु संदधे शरपातनम्
॥८७॥एवमन्योन्यमाकृष्य युध्यमानौ जयेच्छया ॥
ततः परिघमादाय आयसं दैत्यपुंगवः
॥८८॥मातंगीं प्रति संकुद्धो जघान परवीरहा ॥
देवी क्रुद्धा मुष्टिपातैश्चूर्णयामास दानवम्
॥८९॥तेन मुष्टिप्रहारेण मूर्च्छितो निपपात ह ॥
ततस्तु सहसोत्थाय शक्तिं धृत्वा करे मुदा
॥९०॥शतघ्नीं पातयामास तस्या उपरि दानवः ॥
शक्तिं चिच्छेद सा देवी मातंगी च शुभानना
॥९१॥जहासोच्चैस्तु सा सुभ्रः शतघ्नीं वज्रसन्निभा ॥
एव मन्योन्यशस्त्रौघैरर्दयंतौ परस्परम्
॥९२॥ततस्त्रिशूलेन हतो हृदये निपपात ह ॥
मूर्छां विहाय दैत्योऽसौ मायां कृत्वा च राक्षसीम्
॥९३॥पश्यतां तत्र तेषां तु अदृश्योऽभून्महासुरः ॥
पपौ पानं ततो देवी जहासारुणलोचना
॥९४॥सर्वत्रगं तं सा देवी त्रैलोक्ये सचराचरे
॥९५॥क्व पास्यस्तीति ब्रूते सा ब्रूहि त्वं सांप्रतं हि मे ॥
कर्णाटक महादुष्ट एहि शीघ्रं हि युध्यताम्
॥९६॥ततोऽभवन्महायुद्धं दारुणं च भयानकम् ॥
पपौ देवी तु मैरेयं वधार्थं सुमहाबला
॥९७॥मातंगी च ततः क्रुद्धा वक्त्रे चिक्षेप दानवम् ॥
ततोऽपि दानवो रौद्रो नासारंध्रेण निर्गतः
॥९८॥युध्यते स पुनर्दैत्यः कर्णाटो मदपूरितः ॥
ततो देवी प्रकुपिता मातंगी मदपूरिता
॥९९॥दशनैर्मथयित्वा च चर्वयित्वा पुनःपुनः ॥
शवास्थि मे दसा युक्तं मज्जामांसादिपूरितम्
॥१००॥नखरोमाभिसंयुक्तं प्रक्षिप्य चोदरेऽसुरम् ॥
करेकेण मुखं रुद्धं करेणैकेन नासिकाम्
॥१॥ततो महाबलो दैत्यः कर्णरंध्रेण निर्गतः ॥
ततस्तया महादेव्या नाम चक्रे तदा भुवि
॥२॥कर्णरंध्रप्रसूतोऽयं कर्णाटेति विदुर्बुधाः ॥
पुनर्युद्धार्थमायातो दैत्यो हि बलदर्पितः
॥३॥गर्जमानोसुरस्तत्र सायुधो युधि संस्थितः ॥
तं दृष्ट्वा दुःसहं दैत्यं विमृश्य च पुनः पुनः
॥४॥वधोपायं हि मातंगी चिंतयामास भारत ॥
यदा चिंतयते देवी मातंगी मदपूरिता
॥५॥मायारूपं समास्थाय कर्णाटः कुसुमायुधः ॥
गौरश्चांबुजपत्राक्षं स्तथा षोडशवार्षिकम्
॥६॥अभ्येत्य देवीं ब्रूते स्म मां त्वं वरय शोभने
॥७॥श्रीमातोवाच
साधु चेदं त्वया प्रोक्तं दैत्यराज सुनिश्चितम् ॥
रूपेण सदृशो नान्यो विद्यते भुवनत्रये
॥८॥प्रतिज्ञा मे कृता पूर्वं श्रुता किमसुरोत्तमं ॥
ममानुजा शुभा श्यामा विवाहे विप्र कांक्षिणी
॥९॥पित्रा मे स्थापिता दैत्य रक्षार्थं हि द्विजन्मनाम् ॥
केवलं श्यामलांगी सा सर्वलोकहितावहा
॥११०॥न कश्चिद्वरयेत्क न्यामित्युक्त्वा स्थापिता तु सा ॥
कथयाशु तव शुभं श्रुत्वोपायं कथं शुभम्
॥११॥भगिनी मेऽस्ति दैत्येंद्र श्यामलाह्यपरिग्रहा ॥
तवार्थं रक्षिता शूर तां च पूर्वेण चोद्वह
॥१२॥स पिता तां महावीर दास्यते वै शुभामिमाम् ॥
गच्छ त्वं व्रियतां ह्येव श्यामला कोपसंयुता
॥१३॥ततः कर्णाटकः क्रुद्धो गृहीत्वा शक्तिमूर्जिताम् ॥
अभ्यधावत दुष्टात्मा श्यामलानिधनेच्छया
॥१४॥आगतं चासुरं दृष्ट्वा श्यामला सुमहामनाः ॥
विवाहार्थं परं ज्ञात्वाऽभिप्रायं दुष्टचेतसः
॥१५॥महायुद्धमभूत्तत्र श्यामलाऽसुरवर्ययोः ॥
मासत्रयं ततो राजंश्चाभवत्तुमुलं क्षितौ
॥१६॥माघे कृष्णतृतीयायां धर्मारण्ये महारणे ॥
मध्याह्नसमये भूप कर्णाटाख्यो निपातितः
॥१७॥कार्णाटिः पतितस्तत्र यत्र देव्या निपातितः ॥
तच्छैल शृंगप्रतिमं पपात शिर उत्तमम्
॥१८॥चचाल सकला पृथ्वी साब्धिद्वीपा सपर्वता ॥
ततो विप्राः प्रहृष्टास्ते जय मातरुदैरयन्
॥१९॥जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥
ततोत्सवं प्रकुर्वन्तो गीतं नृत्यं शुभप्रदम्
॥१२०॥पायसैर्वटकैश्चैव नैवेद्यैर्मोदकैस्तथा ॥
तुष्टवुः शुभवाण्या ते स्थाने मोटेरके वरे
॥२१॥श्रीमती पूजिता सा च सुतसौख्यधनप्रदा ॥
महोत्सवे च संप्राप्ते मातंगीपूजनं हितम्
॥२२॥ये ऽर्चयंति स्थापयित्वा धनपुत्रार्थसिद्धये ॥
सुखं कीर्तिं तथायुष्यं यशः पुण्यं समाप्नुयुः
॥२३॥व्याधयो नाशमायांति चादित्याद्या ग्रहाः शुभाः ॥
भूतवेतालशाकिन्यो जंभाद्याः पीडयन्ति न
॥२४॥न जायते तथा क्वापि प्रेतादीनां प्रपीडनम् ॥
ततो विप्राः प्रहृष्टाश्च स्तुतिं कर्तुं समुद्यताः
॥२५॥श्रीमाता चैव शक्तीश्च मातंगीमस्तुवंस्तदा ॥
श्यामलां च महादेवीं हर्षेण महतायुता
॥२६॥विप्रा ऊचुः
मातस्त्वमेवमस्माकं रक्षिका स्थानके भव ॥
दंपतीनां हितार्थाय यथा नोद्विजते द्विजाः
॥२७॥मातंग्युवाच
तुष्टाहं वो महाभागाः स्तवेनानेन वो द्विजाः ॥
वरयध्वं वरं यद्वो मनसा समभीप्सितम्
॥२८॥ब्राह्मणा ऊचुः
दास्यामहे बलिं देवि यस्ते मनसि वर्तते ॥
अस्माकं चैव दम्पत्यो रक्षार्थं त्वं स्थिरा भव
॥२९॥देव्युवाच
स्वस्थाः संतु द्विजाः सर्वे न च पीडा भविष्यति ॥
मयि स्थितायां दुर्धर्षा दैत्या येऽन्ये च राक्षसाः
॥१३०॥शाकिनीभूतप्रेताश्च जंभाद्याश्च ग्रहास्तथा ॥
शाकिन्यादिग्रहाश्चैव सर्पा व्याघ्रादयस्तथा
॥१३१॥पीडयिष्यंति न क्वापि स्थितायां मयि शासने ॥
महोत्सवं यः कुरुते विवाहे समुपस्थिते
॥३२॥दंपत्योश्च हितार्थं हि पूजयेन्मां सदा नरः ॥
तस्याहं सकला बाधां नाशयिष्याम्यसंशयम्
॥३३॥नाधयो व्याधयश्चैव न क्लेशो न च संभ्रमः ॥
प्राप्यते परमं सौख्यं यशः पुण्यं धनं सदा ॥
नाकाले मरणं तस्य वातपित्तादिकं नहि
॥३४॥विप्रा ऊचुः
केन वा विधिना पूजा नैवेद्यं कीदृशं भवेत् ॥
धूपं च कीदृशं मातः कथं पूजां प्रकल्पयेत्
॥३५॥श्रीदेव्युवाच
श्रूयतां मे वचो विप्रा पत्रे चैव हिरण्मये ॥
लिखित्वा पूजयेद्यस्तु चिरायुर्दंपती भवेत्
॥३६॥अथवा राजते पत्रे कांसपत्रेऽथवा पुनः ॥
अष्टादशभुजा देवी चंदनेन विचर्चिता
॥३७॥शूर्पं शरैः करे श्वानं पद्मं तु परमं पुनः ॥
कर्त्तरीं कारयेदेकां तूणीरं च धनूंषि च
॥३८॥चर्म पाशं मुद्गरं च कांसालं तोमरं तथा ॥
शंखं चक्रं गदां शुभ्रां मुशलं परिघं शुभम्
॥३९॥खट्वांगं बदरीं चैव अंकुशं च मनोरमम् ॥
अष्टादशायुधैरेभिः संयुता भुवनेश्वरी
॥१४०॥लिखेत्सकुंडलां देवीं बाहुनूपुरभूषिताम् ॥
केयूरमुक्तापद्मैश्च मुंडमालाभिरन्विताम्
॥४१॥मातृकाक्षरपरिवृतामंगुलीय कसंयुताम् ॥
नानाभरणशोभाढ्यां लिखित्वा भुवनेश्वरीम्
॥४२॥मातंगीमिति विख्यातां प्रतिष्ठार्थं द्विजोत्तमाः ॥
चन्दनेन च हृद्येन पुष्पैश्चैव प्रपूजयेत्
॥४३॥यक्षकर्दममानीय मातंगीं पूजयेत्सुधीः ॥
घृतेन बोधयेद्दीपं सप्तवर्तियुतं शुभम्
॥४४॥धूपयेद्गुग्गुलेनाथ साज्येनाति सुगंधिना ॥
नालिकेरेण शुभ्रेण दद्यादर्घं च दंपती
॥४५॥प्रदक्षिणाः प्रकुर्वीत चतुरः सुमनोरमम् ॥
वस्त्रांशुकं गुंठयित्वा अग्रे कृत्वा च दंपती
॥४६॥प्रोक्षिणीकृत्य मातंग्याः प्राश्य माध्वीकमुत्तमम् ॥
गीतवादित्रनिर्घोषैर्मातंगीं पूजयेत्सुधीः
॥४७॥सुवासिनीस्तु तद्रूपा मातंगीसंभवा इति ॥
नृत्यंती दम्पती चाग्रे सर्वोपद्रवशांतये
॥४८॥नैवेद्यं विविधान्नेन अष्टादशविधं शुभम् ॥
वटकापूपिकाः शुभ्राः क्षीरं शर्करया युतम्
॥४९॥बल्लाकरं वरं यूपा क्षिप्तकुल्माषकं तथा ॥
सोहालिका भिन्नवटा लाप्सिका पद्मचूर्णकम्
॥१५०॥शैवेया विमलास्तत्र पर्पटाः शालकादयः ॥
पूरणं तस्य मासस्य कुर्याच्छुभ्रं मनोरमम्
॥५१॥राजमाषाः सूपचिताः कल्पयेत्तत्र दंपती ॥
फेणिका रोपिकास्तत्र कुर्याच्चैव मनोरमाः
॥५२॥एतान्यष्टादशान्यानि पक्वान्नानि प्रकल्पयेत् ॥
आज्यशर्करायुक्तानि युक्तानि शाकसंचयैः
॥५३॥रात्रौ जागरणं कार्यं सुवासिनीं च पूजयेत् ॥
मुखावलोकनं चाज्ये कुर्वीयातां च दम्पती
॥५४॥परस्परं हि कुर्वीत उत्पातपरिशांतये ॥
एवं विधं मयाख्यातं मातंगीपूजनं शुभम्
॥५५॥न पूजयति यो मूढस्तस्य विप्रं करोति सा ॥
दंपत्योर्मरणं चाथ धननाशं महाभयम्
॥५६॥क्लेशं रोगं तथा वह्नेः प्रादुर्भावं प्रपश्यति ॥
एतस्मात्कारणाद्विप्रा मातंगीं पूजयेत्सुधीः
॥५७॥दंपतीनां च सर्वेषां द्विजातीनां च शासने ॥
वणिजां च महादेवी निर्विघ्नं कुरुते सदा
॥५८॥तथेति चैव तैरुक्ते पुनर्वचनमब्रवीत् ॥
श्रूयतां ब्राह्मणाः सर्वे विवाहादिमहोत्सवम्
॥५९॥मदीयवचनं श्रुत्वा तथा कुरुत वै विधिम् ॥
विवाहकाले संप्राप्ते दंपत्योः सौख्यहेतवे
॥१६०॥निर्विघ्नार्थं तु कर्तव्यं निजैश्च सह सेवकैः ॥
अंजनं नयने कुर्यात्सं बंधिनां व सर्वशः
॥६१॥भ्रूमध्यात्तु प्रकर्त्तव्यमर्द्धचंद्रसमाकृति ॥
बिंदुं तु कारयेद्विप्रास्तस्योपरि मनोहरम्
॥६२॥एवं कृते तदा विप्राः शांतिर्भवति नान्यथा ॥
पुत्रवृद्धिकरं चैतत्तिलकं चार्द्धबिंबकम् ॥
सर्वविघ्नहरं सर्वदौःस्थ्यव्याधिविनाशनम्
॥६३॥व्यास उवाच
ततः शांताः प्रजाः सर्वा धर्मारण्ये नराधिप ॥
प्रसादाच्चैव मातङ्ग्या देव्या वै सत्यमंदिरे
॥६४॥ततो हृष्टहृदा विप्राः पुपूजुस्ते विधेः सुताम् ॥
मातंग्याश्च प्रकर्त्तव्यं वर्षेवर्षे च पूजनम्
॥६५॥माघासिते तृतीयायां भक्ष्यभोज्यादिभिस्तथा ॥
कर्णाटस्य तथोत्पत्तिः पुनर्जाता तु भूतले
॥६६॥भयाच्चैव हि तत्स्थानं त्यक्त्वा याम्यमगात्ततः ॥
गच्छमानस्तदा दैत्यो यक्ष्मरूपो ह्यभाषत
॥६७॥श्रूयतां भो द्विजाः सर्वे धर्मारण्यनिवासिनः ॥
वणिजश्च महच्चेदं मद्वाक्यं परिपाल्यताम्
॥६८॥माघमासे हि मत्प्रीत्या निर्विघ्नार्थं सदा भुवि ॥
त्रिदलेन च धान्येन मूलकेन विशेषतः
॥६९॥तिल तैलेन वा कुर्यात्पुरुषो नियतव्रतः ॥
एकाशनं हि कुरुते यक्ष्मप्रीत्यै निरंतरम्
॥१७०॥आबालयौवनेनैव वृद्धेनापीह सर्वदा ॥
वर्षेवर्षे प्रकर्त्तव्यं यक्ष्मणो व्रतमुत्तमम्
॥७१॥यस्मिन्गृहे हि यावच्च पुरुषाकाररूपिणः ॥
तस्याह्वयं प्रकुर्युस्त एकभक्तरताः सदा
॥७२॥बालस्यार्थे तु जननी कुरुते व्रतमुत्तमम् ॥
पिता वाप्यथवा भ्राता यन्निमित्तं व्रतं चरेत्
॥७३॥न च तस्य भयं क्वापि न व्याधिर्न च बंधनम् ॥
भर्तुर्निमित्ते स्त्री कुर्यादशक्ते त्वितरेण च
॥७४॥एवं समादिशन्दैत्यः सत्यमंदिरमुत्सृजन् ॥
गतोऽसौ याम्यदिग्भाग उदधेस्तीर उत्तमे
॥७५॥विपुलं देह मासाद्य कर्णाटः स नराधिप ॥
स्वनाम्ना चैव तं देशं स्थापयामास चोत्तमम्
॥७६॥यस्मिंश्च सर्ववस्तूनि धनधान्यानि भूरिशः ॥
कर्णाटदेशं तं राजन्परिवार्य चिरं स्थितः
॥७७॥धर्मारण्यकथां पुण्यां कथितां नरसत्तम ॥
श्रीमातुश्चैव माहात्म्यं शृण्वंति श्रावयंति ये
॥७८॥तेषां कुले कदा चित्तु अरिष्टं नैव जायते ॥
अपुत्रो लभते पुत्रान्धनहीनस्तु संपदः ॥
आयुरारोग्यमैश्वर्यं श्रीमातुश्च प्रसादतः
॥१७९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये मातंगीकर्णाटकोपाख्यानवर्णनंनामाष्टादशोऽध्यायः ॥ १८ ॥