मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — धर्मारण्यखण्डः, अध्याय २३

3
ब्रह्मखण्डः · धर्मारण्यखण्डः · 23

ज्ञातिभेदवर्णनम्

व्यास उवाच

अतः परं प्रवक्ष्यामि ब्रह्मणा यत्कृतं पुरा ॥

तत्सर्वं कथयाम्यद्य शृणुष्वैकाग्रमानसः

॥१॥

देवानां दानवानां च वैराद्युद्धं बभूव ह ॥

तस्मिन्युद्धे महादुष्टे देवाः संक्लिष्टमानसाः

॥२॥

बभूवुस्तत्र सोद्वेगा ब्रह्माणं शरणं ययुः

॥३॥

देवा ऊचुः

ब्रह्मन्केन प्रकारेण दैत्यानां वधमेव च ॥

करोम्यद्य उपायं हि कथ्यतां शीघ्रमेव मे

॥४॥

ब्रह्मोवाच

मया हि शंकरेणैव विष्णुना हि तथा पुरा ॥

यमस्य तपसा तुष्टैर्धर्मारण्यं विनिर्मितम्

॥५॥

तत्र यद्दीयते दानं यज्ञं वा तप उत्तमम् ॥

तत्सर्वं कोटिगुणितं भवेदिति न संशयः

॥६॥

पापं वा यदि वा पुण्यं सर्वं कोटि गुणं भवेत् ॥

तस्माद्दैत्यैर्न धर्षितं कदाचिदपि भोः सुराः

॥७॥

श्रुत्वा तु ब्रह्मणो वाक्यं देवाः सर्वे सविस्मयाः ॥

ब्रह्माणं त्वग्रतः कृत्वा धर्मार ण्यमुपाययुः

॥८॥

सत्रं तत्र समारभ्य सहस्राब्दमनुत्तमम् ॥

वृत्वाऽऽचार्यं चांगिरसं मार्कंण्डेयं तथैव च

॥९॥

अत्रिं च कश्यपं चैव होता कृत्वा महामतिः ॥

जमदग्निं गौतमं च अध्वर्युत्वं न्यवेदयन्

॥१०॥

भरद्वाजं वसिष्ठं तु प्रत्यध्वर्युत्वमादिशन् ॥

नारदं चैव वाल्मीकिं नोदना याकरोत्तदा

॥११॥

ब्रह्मासने च ब्रह्माणं स्थापयामासुरादरात् ॥

क्रोशचतुष्कमात्रां च वेदिं कृत्वा सुरैस्ततः

॥१२॥

द्विजाः सर्वे समाहूता यज्ञस्यार्थे हि जापकाः ॥

ऋग्यजुःसामाथर्वान्वै वेदानुद्गिरयंति ये

॥१३॥

गणनाथं शंभुसुतं कार्त्तिकेयं तथैव च ॥

इन्द्रं वज्रधरं चैव जयंतं चन्द्रसूनुकम्

॥१४॥

चत्वारो द्वारपालाश्च देवाः शूरा विनिर्मिताः ॥

ततो राक्षोघ्नमंत्रेण हूयते हव्यवाहनः

॥१५॥

तिलांश्च यवमिश्रांश्च मध्वाज्येन च मिश्रितान् ॥

जुहुवुस्ते तदा देवा वेदमंत्रैर्नरेश्वर

॥१६॥

आघारावाज्यभागौ च हुत्वा चैव ततः परम् ॥

द्राक्षेक्षुपूगनारिंग जंबीरं बीजपूरकम्

॥१७॥

उत्तरतो नालिकेरं दाडिमं च यथाक्रमम् ॥

मध्वाज्यं पयसा युक्तं कृशरशर्करायुतम्

॥१८॥

तंडुलैः शतपत्रैश्च यज्ञे वाचं नियम्य च ॥

विचिंत्य च महाभागाः कृत्वा यज्ञं सदक्षिणम्

॥१९॥

उत्तमं च शुभं स्तोमं कृत्वा हर्षमुपाययुः ॥

अवारितान्नमददन्दीनांधकृपणेष्वपि

॥२०॥

ब्राह्मणेभ्यो विशेषेण दत्तमन्नं यथेप्सितम् ॥

पायसं शर्करायुक्तं साज्यशाकसमन्वितम्

॥२१॥

मंडका वटकाः पूपास्तथा वै वेष्टिकाः शुभाः ॥

सहस्रमोदकाश्चापि फेणिका घुर्घुरादयः

॥२२॥

ओदनश्च तथा दाली आढकीसंभवा शुभा ॥

तथा वै मुद्गदाली च पर्पटा वटिका तथा

॥२३॥

प्रलेह्यानि विचित्राणि युक्तास्त्र्यूषणसंचयैः ॥

कुल्माषा वेल्लकाश्चैव कोमला वालकाः शुभाः

॥२४॥

कर्कटिकाश्चार्द्रयुता मरिचेन समन्विताः ॥

एवंविधानि चान्नानि शाकानि विविधानि च

॥२५॥

भोजयित्वा द्विजान्सर्वान्धर्मारण्य निवासिनः ॥

अष्टादशसहस्राणि सपुत्रांश्च तदा नृप

॥२६॥

प्रतिदिनं तदा देवा भोजयंति स्म वाडवान् ॥

एवं वर्षसहस्रं वै कृत्वा यज्ञं तदामराः

॥२७॥

कृत्वा दैत्यवधं राजन्निर्भयत्वमवाप्नुयुः ॥

स्वर्गं जग्मुस्ते सहसा देवाः सर्वे मरुद्गणाः

॥२८॥

तथैवाप्सरसः सर्वा ब्रह्मवि ष्णुमहेश्वराः ॥

कैलासशिखरं रम्यं वैकुंठं विष्णुवल्लभम्

॥२९॥

ब्रह्मलोकं महापुण्यं प्राप्य सर्वे दिवौकसः ॥

परं हर्षमुपाजग्मुः प्राप्य नंदनमुत्तम्

॥३०॥

स्वेस्वे स्थाने स्थिरीभूत्वा तस्थुः सर्वे हि निर्भयाः

॥३१॥

ततः कालेन महता कृताख्ययुगपर्यये ॥

लोहासुरो मदोन्मत्तो ब्रह्मवेषधरः सदा

॥३२॥

आगत्य सर्वान्विप्रांश्च धर्षयेद्धर्मवित्तमान् ॥

शूद्रांश्च वणिजश्चैव दंडघातेन ताडयेत्

॥३३॥

विध्वंसयेच्च यज्ञादीन्होमद्रव्याणि भक्षयेत् ॥

वेदिका दीर्घिका दृष्ट्वा कश्मलेन प्रदूषयेत्

॥३४॥

मूत्रोत्सर्गपुरीषेण दूषयेत्पुण्यभूमिकाः ॥

गहनेन तथा राजन्स्त्रियो दूषयते हि सः

॥३५॥

ततस्ते वाडवाः सर्वे लोहासुरभयातुराः ॥

प्रनष्टाः सपरीवारा गतास्ते वै दिशो दश

॥३६॥

वणिजस्ते भयोद्विग्ना विप्राननुययुर्नृप ॥

महाभयेन संभीता दूरं गत्वा विमृश्य च

॥३७॥

सह शूद्रैद्विजैः सर्व एकीभूत्वा गतास्तदा ॥

मुक्तारण्यं पुण्यतमं निर्जनं हि ययुश्च ते

॥३८॥

निवासं कारयामासुर्नातिदूरे नरेश्वर ॥

वजिङ्नाम्ना हि तद्ग्रामं वासयामासुरेव ते

॥३९॥

लोहासुरभयाद्राजन्विप्र नाम्ना विनिर्मितम् ॥

शंभुना वणिजा यस्मात्तस्मात्तन्नामधारणम्

॥४०॥

शंभुग्राममिति ख्यातं लोके विख्यातिमागतम् ॥

अथ केचिद्भयान्नष्टा वणिजः प्रथमं तदा

॥४१॥

ते नातिदूरे गत्वा वै मंडलं चक्रुरुत्तमम् ॥

विप्रागमनकांक्षास्ते तत्र वासमकल्पयन्

॥४२॥

मंडलेति च नाम्ना वै ग्रामं कृत्वा न्यवीवसन् ॥

विप्रसार्थपरिभ्रष्टाः केचित्तु वणिजस्तदा

॥४३॥

अन्यमार्गे गता ये वै लोहासुरभयार्दिताः ॥

धर्मारण्यान्नाति दूरे गत्वा चिंतामुपाययुः

॥४४॥

कस्मिन्मार्गे वयं प्राप्ताः कस्मिन्प्राप्ता द्विजातयः ॥

इति चिंतां परं प्राप्ता वासं तत्र त्वकारयन्

॥४५॥

अन्यमार्गे गता यस्मात्तस्मात्तन्नामसंभवम् ॥

ग्रामं निवासयामासुरडालंजमिति क्षितौ

॥४६॥

यस्मिन्ग्रामे निवासी यो यत्संज्ञश्च वणिग्भवेत् ॥

तस्य ग्रामस्य तन्नाम ह्यभवत्पृथिवीपते

॥४७॥

वणिजश्च तथा विप्रा मोहं प्राप्ता भयार्दिताः ॥

तस्मान्मोहेतिसंज्ञास्ते राजन्सर्वे निरब्रुवन्

॥४८॥

एवं प्रनषणं नष्टास्ते गताश्च दिशो दिश ॥

धर्मारण्ये न तिष्ठंति वाडवा वणिजोऽपि वा

॥४९॥

उद्वसं हि तदा जातं धर्मारण्यं च दुर्लभम् ॥

भूषणं सर्वतीर्थानां कृतं लोहासुरेण तत्

॥५०॥

नष्टद्विजं नष्टतीर्थं स्थानं कृत्वा हि दानवः ॥

परां मुदमवाप्यैव जगाम स्वालयं ततः

॥५१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये ज्ञातिभेदवर्णनंनाम त्रयोविंशो ऽध्यायः ॥ २३ ॥