श्रीमातामाहात्म्यवर्णनम्
व्यास उवाच
दक्षिणे स्थापिता राजञ्छाँता देवी महाबला ॥
सा विविधाम्बरधरा वनमालाविभूषिता
॥१॥तामसी सा महाराज मधुकैटभनाशिनी ॥
विष्णुना तत्र वै न्यस्ता शिवपत्नी नृपोत्तम
॥२॥सा चैवाष्टभुजा रम्या मेघश्यामा मनोरमा ॥
कृष्णांबरधरा देवी व्याघ्रवाहनसंस्थिता
॥३॥द्वीपिचर्मपरीधाना दिव्याभरणभूषिता ॥
घंटात्रिशूलाक्षमालाकमंडलुधरा शुभा
॥४॥अलंकृतभुजा देवी सर्वदेवनमस्कृता ॥
धनं धान्यं सुतान्भोगान्स्वभक्तेभ्यः प्रयच्छति
॥५॥पूजयेत्कमलै र्दिव्यैः कर्पूरागरुचंदनैः ॥
तदुद्देशेन तत्रैव पूजयेद्द्विजसत्तमान्
॥६॥कुमारीर्भोजयेदन्नैर्विविधैर्भक्तिभावतः ॥
धूपैर्दीपैः फलैः रम्यैः पूजयेच्च सुरादिभिः
॥७॥मांसैस्तु विविधैर्दिव्यैरथवा धान्यपिष्टजैः ॥
अन्यैश्च विविधैर्धान्यैः पायसैर्वटकैस्तथा
॥८॥ओदनैः कृशरापूपैः पूजयेत्सुसमाहितः ॥
स्तुतिपाठेन तत्रैव शक्तिस्तोत्रैर्मनोहरैः
॥९॥रिपवस्तस्य नश्यंति सर्वत्र विजयी भवेत् ॥
रणे राजकुले द्यूते लभते जयमंगलम्
॥१०॥सौम्या शांता महाराज स्थापिता कुलमातृका ॥
श्रीमाता सा प्रसिद्धा च माहात्म्यं शृणु भूपते
॥११॥कुलमाता महाशक्तिस्तत्रास्ते नृपसत्तम ॥
कुमारी ब्रह्मपुत्री सा रक्षार्थं विधिना कृता
॥१२॥स्थानमाता च सा देवी श्रीमाता साभिधानतः ॥
त्रिरूपा सा द्विजातीनां निर्मिता रक्षणाय च
॥१३॥कमण्डलुधरा देवी घण्टाभरणभूषिता ॥
अक्षमालायुता राजञ्छुभा सा शुभरूपिणी
॥१४॥कुमारी चादिमाता च स्थानत्राणकरापि च ॥
दैत्यघ्नी कामदा चैव महामोहविनाशिनी
॥१५॥भक्तिगम्या च सा देवी कुमारी ब्रह्मणः सुता ॥
रक्तांबरधरा साधुरक्तचंदनचर्चिता
॥१६॥रक्तमाल्या दशभुजा पंचवक्त्रा सुरेश्वरी ॥
चंद्रावतंसिका माता सुरा सुरनमस्कृता
॥१७॥साक्षात्सरस्वतीरूपा रक्षार्थं विधिना कृता ॥
ॐकारा सा महापुण्या काजेशेन विनिर्मिता
॥१८॥ऋषिभिः सिद्धयक्षा दिसुरपन्नगमानवैः ॥
प्रणम्यांघ्रियुगा तेभ्यो ददाति मनसेप्सितम्
॥१९॥पालयन्ती च संस्थानं द्विजातीनां हिताय वै ॥
यथौरसान्सुतान्माता पालयन्तीह सद्गुणैः
॥२०॥अथ पालयती देवी श्रीमाता कुलदेवता ॥
उपद्रवाणि सर्वाणि नाशयेत्सततं स्तुता
॥२१॥सर्वविघ्नोपशमनी श्रीमाता स्मरणेन हि ॥
विवाहे चोपवीते च सीमंते शुभकर्मणि
॥२२॥सर्वेषु भक्तकार्येषु श्रीमाता पूज्यते सदा ॥
यथा लंबोदरं देवं पूज यित्वा समारभेत्
॥२३॥कार्यं शुभं सर्वमपि श्रीमातरं तथा नृप ॥
यत्किंचिद्भोजनं त्वत्र ब्राह्मणेभ्यः प्रयच्छति
॥२४॥अथवा विनिवेद्यं च क्रियते यत्परस्परम् ॥
अनिवेद्य च तां राजन्कुर्वाणो विघ्नमेष्यति
॥२५॥तस्मात्तस्यै निवेद्याथ ततः कर्म समारभेत् ॥
तद्वरेणाखिलं कर्म अविघ्नेन हि सिद्धति ॥
हेमंते शिशिरे प्राप्ते पूजयेद्धर्मपुत्रिकाम्
॥२६॥हेमपत्रे समालिख्य राजते वाथ कारयेत् ॥
पादुकां चोत्तमां राजञ्छ्रीमातायै निवेदयेत्
॥२७॥स्नात्वा चैव शुचिर्भूत्वा तिलामलकमिश्रितैः ॥
वासोभिः सुमनोभिश्च दुकूलैः सुमनोहरैः
॥२८॥लेपयेच्चंदनैः शुभ्रैः कुकुमैः सिंदुरासकैः ॥
कर्पूरागुरुकस्तूरीमिश्रितैः कर्द्दमैस्तथा
॥२९॥कर्णिकारैश्च कह्लारैः करवीरैः सितारुणैः ॥
चंपकैः केतकीभिश्च जपा कुसुमकैस्तथा
॥३०॥यक्षकर्द्दमकैश्चैव विल्वपत्रैरखंडितैः ॥
पालाशजातिपुष्पैश्च वटकैर्माषसंभवैः ॥
पूपभक्तादिदालीभिस्तोषयेच्छाकसंचयैः
॥३१॥धूपदीपादिपूर्वं तु पूजयेज्जगदंबिकाम् ॥
तद्धियैव कुमारीर्वै विप्रानपि च भोजयेत् ॥
पायसैर्घृतयुक्तैश्च शर्करामिश्रितैर्नृप
॥३२॥पक्वान्नैर्मोदकाद्यैश्च तर्पयेद्भक्तिभावतः ॥
तर्प्यमाणे द्विजैकस्मिन्सहस्रफलमश्नुते
॥३३॥दैत्यानां घातकं स्तोत्रं वाचयेच्च पुनः पुनः ॥
एकाग्रमानसो भूत्वा श्रीमातरं स्तुवीय यः
॥३४॥तस्य तुष्टा वरं दद्यात्स्नापिता पूजिता स्तुता ॥
अनिष्टानि च सर्वाणि नाशयेद्धर्मपुत्रिका
॥३५॥अपुत्रो लभते पुत्रान्नि र्धनो धनवान्भवेत् ॥
राज्यार्थी लभते राज्यं विद्यार्थी लभते च ताम्
॥३६॥श्रियोर्थी लभते लक्ष्मीं भार्यार्थी लभते च ताम् ॥
प्रसादाच्च सरस्वत्या लभते नात्र संशयः
॥३७॥अन्ते च परमं स्थानं यत्सुरैरपि दुर्लभम् ॥
प्राप्नोति पुरुषो नित्यं सरस्वत्याः प्रसादतः
॥३८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये श्रीमातामाहात्म्यवर्णनंनाम सप्तदशोऽध्यायः ॥ १७ ॥