अतः परं किमभवद्ब्रवीतु द्विजसत्तम
युधिष्ठिर उवाच
अतः परं किमभवद्ब्रवीतु द्विजसत्तम ॥
त्वद्वचनामृतं पीत्वा तृप्तिर्नास्ति मम प्रभो
॥१॥व्यास उवाच
अथ किंचिद्गते काले युगांतसमये सति ॥
त्रेतादौ लोलजिह्वाक्ष अभवद्राक्षसेश्वरः
॥२॥तेन विद्रावितं सर्वं त्रैलोक्यं सचराचरम् ॥
जित्वा स सकलाँल्लोकान्धर्मारण्ये समागतः
॥३॥तद्दृष्ट्वा सकलं पुण्यं रम्यं द्विजनिषे वितम् ॥
ब्रह्मद्वेषाच्च तेनैव दाहितं च पुरं शुभम्
॥४॥दह्यमानं पुरं दृष्ट्वा प्रणष्टा द्विजसत्तमाः ॥
यथागतं प्रजग्मुस्ते धर्मारण्यनिवासिनः
॥५॥श्रीमाताद्यास्तदा देव्यः कोपिता राक्षसेन वै ॥
घातयंत्येव शब्देन तर्जयित्वा च राक्षसम्
॥६॥समुच्छ्रितास्तदा देव्यः शतशोऽथ सह स्रशः ॥
त्रिशूलवरधारिण्यः शंखचक्रगदाधराः
॥७॥कमंडलुधराः काश्चित्कशाखङ्गधराः पराः ॥
पाशांकुशधरा काचित्खड्गखेटकधारिणी
॥८॥काचित्परशुहस्ता च दिव्यायुधधरा परा ॥
नानाभरणभूषाढ्या नानारत्नाभिशोभिता
॥९॥राक्षसानां विनाशाय ब्राह्मणानां हिताय च ॥
आजग्मुस्तत्र यत्रास्ते लोलजिह्वो हि राक्षसः
॥१०॥महादंष्ट्रो महाकायो विद्युज्जिह्वो भयंकरः ॥
दृष्ट्वा ता राक्षसो घोरं सिंहनादमथाकरोत्
॥११॥तेन नादेन महता त्रासितं भुवनत्रयम् ॥
आपूरिता दिशः सर्वाः क्षुभितानेकसागराः
॥१२॥कोलाहलो महानासीद्धर्मारण्ये तदा नृप ॥
तच्छ्रुत्वा वासवेनाथ प्रेषितो नलकूबरः
॥१३॥किमिदं पश्य गत्वा त्वं दृष्ट्वा मह्यं निवेदय ॥
तत्तस्य वचनं श्रुत्वा गतो वै नलकूबरः
॥१४॥दृष्ट्वा तत्र महायुद्धं श्रीमातालोलजिह्वयोः ॥
यथादृष्टं यथाजातं शक्राग्रे स न्यवेदयत्
॥१५॥उद्वेजयति लोकांस्त्रीन्धर्मारण्यमितो गतः ॥
तच्छ्रुत्वा वासवो विष्णुं निवेद्य क्षितिमागमत्
॥१६॥दाहितं तत्पुरं रम्यं देवानामपि दुर्लभम् ॥
न दृष्टा वाडवास्तत्र गताः सर्वे दिशो दश
॥१७॥श्रीमाता योगिनी तत्र कुरुते युद्धमुत्तमम् ॥
हाहाभूता प्रजा सर्वा इतश्चेतश्च धावति
॥१८॥तच्छ्रुत्वा वासुदेवो हि गृहीत्वा च सुदर्शनम् ॥
सत्यलोकात्तदा राजन्समागच्छन्महीतले
॥१९॥धर्मारण्यं ततो गत्वा तच्चक्रं प्रमुमोच ह ॥
लोलजिह्वस्तदा रक्षो मूर्च्छितो निपपात ह
॥२०॥त्रिशूलेन ततो भिन्नः शक्तिभिः क्रोधमूर्च्छितः ॥
हन्यमानस्तदा रक्षः प्राणांस्त्यक्त्वा दिवं गतः
॥२१॥ततो देवाः सगंधर्वा हर्षनिर्भरमानसाः ॥
तुष्टुवुस्तं जगन्नाथं सत्यलोकात्समागताः
॥२२॥उद्वसं तत्समालोक्य विष्णुर्वचनमब्रवीत् ॥
क्व च ते ब्राह्मणाः सर्वे ऋषीणामाश्रमे पुनः
॥२३॥ततो देवाः सगं धर्वा इतस्ततः पलायितान् ॥
संशोध्य तरसा राजन्ब्राह्मणानिदमब्रुवन्
॥२४॥श्रूयतां नो वचो विप्रा निहतो राक्षसाधमः ॥
वासुदेवेन देवेन चक्रेण निरकृंतत
॥२५॥तच्छ्रुत्वा वाडवाः सर्वे प्रहर्षोत्फुल्ललोचनाः ॥
समाजग्मुस्तदा राजन्स्वस्वस्थाने समाविशन्
॥२६॥श्रीकांताय तदा राजन्वाक्यमुक्तं मनोरमम् ॥
यस्मात्त्वं सत्यलोकाच्च आगतोऽसि जगत्प्रभुः ॥
स्थापितं च पुरं चेदं हिताय च द्विजात्मनाम्
॥२७॥सत्यमंदिरमिति ख्यातं तदा लोके भविष्यति ॥
कृते युगे धर्मारण्यं त्रेतायां सत्यमंदिरम्
॥२८॥तच्छ्रुत्वा वासुदेवेन तथेति प्रतिपद्य च ॥
ततस्ते वाडवाः सर्वे पुत्रपौत्रसमन्विताः
॥२९॥सपत्नीकाः सानुचरा यथापूर्वं न्यवात्सिषुः ॥
तपोयज्ञक्रियाद्येषु वर्तंतेऽध्ययनादिषु
॥३०॥एवं ते सर्वमाख्यातं धर्म वै सत्यमंदिरे
॥३१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे धर्मारण्यमाहात्म्ये लोलजिह्वासुरवधपूर्वकं सत्यमंदिरसंस्थापनवर्णनंनामैकादशोऽध्यायः ॥ ११ ॥