भगवन्यानि तीर्थानि सेवितानि त्वया विभो
श्रीराम उवाच
भगवन्यानि तीर्थानि सेवितानि त्वया विभो ॥
एतेषां परमं तीर्थं तन्ममाचक्ष्व मानद
॥१॥मया तु सीताहरणे निहता ब्रह्मराक्षसाः ॥
तत्पापस्य विशुदयर्थं वद तीर्थोत्तमोत्तमम्
॥२॥वसिष्ठ उवाच
गंगा च नर्मदा तापी यमुना च सरस्वती ॥
गंडकी गोमती पूर्णा एता नद्यः सुपावनाः
॥३॥एतासां नर्मदा श्रेष्ठा गंगा त्रिपथगामिनी ॥
दहते किल्बिषं सर्वं दर्शनादेव राघव
॥४॥दृष्ट्वा जन्मशतं पापं गत्वा जन्मशतत्रयम् ॥
स्नात्वा जन्मसहस्रं च हंति रेवा कलौ युगे
॥५॥नर्मदातीरमाश्रित्य शाकमूलफलैरपि ॥
एकस्मिन्भोजिते विप्रे कोटि भोजफलं लभेत
॥६॥गंगा गंगेति यो ब्रूयाद्योजनानां शतैरपि ॥
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति
॥७॥फाल्गुनांते कुहूं प्राप्य तथा प्रौष्ठपदेऽसिते ॥
पक्षे गंगामधि प्राप्य स्नानं च पितृतर्पणम्
॥८॥कुरुते पिंडदानानि सोऽक्षयं फलमश्नुते ॥
शुचौ मासे च संप्राप्ते स्नानं वाप्यां करोति यः
॥९॥चतुरशीतिनरकान्न पश्यति नरो नृप ॥
तपत्याः स्मरणे राम महापातकिनामपि
॥१०॥उद्धरेत्सप्तगोत्राणि कुलमेकोत्तरं शतम् ॥
यमुनायां नरः स्नात्वा सर्वपापैः प्रमुच्यते
॥११॥महापातकयुक्तोऽपि स गच्छेत्परमां गतिम् ॥
कार्त्तिक्यां कृत्तिकायोगे सरस्वत्यां निमज्जयेत्
॥१२॥गच्छेत्स गरुडारूढः स्तूयमानः सुरोत्तमैः ॥
स्नात्वा यः कार्तिके मासि यत्र प्राची सरस्वती
॥१३॥प्राचीं माधवमास्तूय स गच्छेत्परमां गतिम् ॥
गंडकीपुण्यतीर्थे हि स्नानं यः कुरुते नरः
॥१४॥शालग्रामशिलामर्च्य न भूयः स्तनपो भवेत् ॥
गोमतीजलकल्लोलैर्मज्जयेत्कृष्णसन्निधौ
॥१५॥चतुर्भुजो नरो भूत्वा वैकुण्ठे मोदते चिरम् ॥
चर्मण्वतीं नमस्कृत्य अपः स्पृशति यो नरः
॥१६॥स तारयति पूर्वजान्दश पूर्वान्दशापरान् ॥
द्वयोश्च संगमं दृष्ट्वा श्रुत्वा वा सागरध्वनिम्
॥१७॥ब्रह्महत्यायुतो वापि पूतो गच्छेत्परां गतिम् ॥
माघमासे प्रयागे तु मज्जनं कुरुते नरः
॥१८॥इह लोके सुखं भुक्त्वा अन्ते विष्णुपदं व्रजेत् ॥
प्रभासे ये नरा राम त्रिरात्रं ब्रह्मचारिणः
॥१९॥यमलोकं न पश्येयुः कुंभीपाकादिकं तथा ॥
नैमिषारण्यवासी यो नरो देवत्वमाप्नुयात्
॥२०॥देवानामालयं यस्मात्तदेव भुवि दुर्लभम् ॥
कुरुक्षेत्रे नरो राम ग्रहणे चन्द्रसूर्ययोः
॥२१॥हेमदानाच्च राजेंद्र न भूयः स्तनपो भवेत् ॥
श्रीस्थले दर्शनं कृत्वा नरः पापात्प्रमुच्यते
॥२२॥सर्वदुःखविनाशे च विष्णुलोके महीयते ॥
काश्यपीं स्पर्शयेद्यो गां मानवो भुवि राघव
॥२३॥सर्वकामदुघावासमृषिलोकं स गच्छति ॥
उज्जयिन्यां तु वैशाखे शिप्रायां स्नानमाचरेत्
॥२४॥मोचयेद्रौरवाद्घोरात्पूर्वजांश्च सहस्रशः ॥
सिंधुस्नानं नरो राम प्रकरोति दिनत्रयम्
॥२५॥सर्वपापविशुद्धात्मा कैलासे मोदते नरः ॥
कोटितीर्थे नरः स्नात्वा दृष्ट्वा कोटीश्वरं शिवम्
॥२६॥ब्रह्महत्यादिभिः पापैर्लिप्यते न च स क्वचित् ॥
अज्ञानामपि जंतूनां महाऽमेध्ये तु गच्छताम्
॥२७॥पादोद्भूतं पयः पीत्वा सर्वपापं प्रणश्यति ॥
वेदवत्यां नरो यस्तु स्नाति सूर्योदये शुभे
॥२८॥सर्वरोगात्प्रमुच्येत परं सुखमवाप्नुयात् ॥
तीर्थानि राम सर्वत्र स्नानपानावगाहनैः
॥२९॥नाशयंति मनुष्याणां सर्वपापानि लीलया ॥
तीर्थानां परमं तीर्थं धर्मारण्यं प्रचक्षते
॥३०॥ब्रह्मविष्णुशिवाद्यैर्यदादौ संस्थापितं पुरा ॥
अरण्यानां च सर्वेषां तीर्थानां च विशेषतः
॥३१॥धर्मारण्यात्परं नास्ति भुक्तिमुक्तिप्रदायकम् ॥
स्वर्गे देवाः प्रशंसंति धर्मारण्यनिवासिनः
॥३२॥ते पुण्यास्ते पुण्यकृतो ये वसंति कलौ नराः ॥
धर्मारण्ये रामदेव सर्वकिल्बिषनाशने
॥३३॥ब्रह्महत्यादिपापानि सर्वस्तेयकृतानि च ॥
परदारप्रसंगादि अभक्ष्यभक्षणादि वै
॥३४॥अगम्यागमना यानि अस्पर्शस्पर्शनादि च ॥
भस्मीभवंति लोकानां धर्मारण्यावगाहनात्
॥३५॥ब्रह्मघ्नश्च कृतघ्नश्च बालघ्नोऽनृतभाषणः ॥
स्त्रीगोघ्नश्चैव ग्रामघ्रो धर्मारण्ये विमुच्यते
॥३६॥नातः परं पावनं हि पापिनां प्राणिनां भुवि ॥
स्वर्ग्यं यशस्यमायुष्यं वांछितार्थप्रदं शुभम्
॥३७॥कामिनां कामदं क्षेत्रं यतीनां मुक्तिदायकम् ॥
सिद्धानां सिद्धिदं प्रोक्तं धर्मारण्यं युगेयुगे
॥३८॥ब्रह्मोवाच
वसिष्ठवचनं श्रुत्वा रामो धर्मभृतां वरः ॥
परं हर्षमनुप्राप्य हृदयानंदकारकम्
॥३९॥प्रोत्फुल्लहृदयो रामो रोमाचिंततनूरुहः ॥
गमनाय मतिं चक्रे धर्मारण्ये शुभव्रतः
॥४०॥यस्मिन्कीटपतंगादिमानुषाः पशवस्तथा ॥
त्रिरात्रसेवनेनैव मुच्यन्ते सर्वपातकैः
॥४१॥कुशस्थली यथा काशी शूलपाणिश्च भैरवः ॥
यथा वै मुक्तिदो राम धर्मारण्यं तथोत्तमम्
॥४२॥ततो रामो महेष्वासो मुदा परमया युतः ॥
प्रस्थितस्तीर्थयात्रायां सीतया भ्रातृभिः सह
॥४३॥अनुजग्मुस्तदा रामं हनुमांश्च कपीश्वरः ॥
कौशल्या च सुमित्रा च कैकेयी च मुदान्विता
॥४४॥लक्ष्मणो लक्षणोपेतो भरतश्च महामतिः ॥
शत्रुघ्नः सैन्यसहितोप्ययोध्यावासिनस्तथा
॥४५॥प्रकृतयो नरव्याघ्र धर्मारण्ये विनिर्ययुः ॥
अनुजग्मुस्तदा रामं मुदा परमया युताः
॥४६॥तीर्थयात्राविधिं कर्तुं गृहात्प्रचलितो नृपः ॥
वसिष्ठं स्वकुलाचार्यमिदमाह महीपते
॥४७॥श्रीराम उवाच
एतदाश्चर्यमतुलं किमादि द्वारकाभवत् ॥
कियत्कालसमुत्पन्ना वसिष्ठेदं वदस्व मे
॥४८॥वसिष्ठ उवाच
न जानामि महाराज कियत्कालादभूदिदम् ॥
लोमशो जांबवांश्चैव जानातीति च कारणम्
॥४९॥शरीरे यत्कृतं पापं नानाजन्मांतरेष्वपि ॥
प्रायश्चितं हि सर्वेषामेतत्क्षेत्र परं स्मृतम्
॥५०॥श्रुत्वेति वचनं तस्य रामं ज्ञानवतां वरः ॥
गन्तुं कृतमतिस्तीर्थं यात्राविधिमथाचरत्
॥५१॥वसिष्ठं चाग्रतः कृत्वा महामांडलिकैर्नृपैः ॥
पुनश्चरविधिं कृत्वा प्रस्थितश्चोत्तरां दिशम्
॥५२॥वसिष्ठं चाग्रतः कृत्वा प्रतस्थे पश्चिमां दिशम् ॥
ग्रामाद्ग्राममतिक्रम्य देशाद्देशं वनाद्वनम्
॥५३॥विमुच्य निर्ययौ रामः ससैन्यः सपरिच्छदः ॥
गजवाजिसहस्रौघै रथैर्यानैश्च कोटिभिः
॥५४॥शिबिकाभिश्चासंख्याभिः प्रययौ राघवस्तदा ॥
गजारूढः प्रपश्यंश्च देशान्विविधसौहृदान्
॥५५॥श्वेतातपत्रं विधृत्य चामरेण शुभेन च ॥
वीजितश्च जनौघेन रामस्तत्र समभ्यगात्
॥५६॥वादित्राणां स्वनैघोरैर्नृत्यगीतपुरःसरैः ॥
स्तूयमानोपि सूतैश्च ययौ रामो मुदान्वितः
॥५७॥दशमेऽहनि संप्राप्तं धर्मारण्यमनुत्तमम् ॥
अदूरे हि ततो रामो दृष्ट्वा मांडलिकं पुरम्
॥५८॥तत्र स्थित्वा ससैन्यस्तु उवास निशि तां पुरीम् ॥
श्रुत्वा तु निर्जनं क्षेत्रमुद्वसं च भयानकम्
॥५९॥व्याघ्रसिंहाकुलं तत्र यक्षराक्षससेवितम् ॥
श्रुत्वा जनमुखाद्रामो धर्मारण्यमरण्यकम् ॥
तच्छ्रुत्वा रामदेवस्तु न चिंता क्रियतामिति
॥६०॥तत्रस्थान्वणिजः शूरान्दक्षान्स्वव्यवसायके
॥६१॥समर्थान्हि महाकायान्महाबलपराक्रमान् ॥
समाहूय तदा काले वाक्यमेतदथाब्रवीत्
॥६२॥शिबिकां सुसुवणां मे शीघ्रं वाहयताचिरम् ॥
यथा क्षणेन चैकेन धर्मरण्यं व्रजाम्यहम्
॥६३॥तत्र स्नात्वा च पीत्वा च सर्वपापात्प्रमुच्यते ॥
एवं ते वणिजः सर्वै रामेण प्रेरितास्तदा
॥६४॥तथेत्युक्त्वा च ते सर्वे ऊहुस्तच्छिबिकां तदा ॥
क्षेत्रमध्ये यदा रामः प्रविष्टः सहसैनिकः
॥६५॥तद्यानस्य गतिर्मंदा संजाता किल भारत ॥
मंदशब्दानि वाद्यानि मातंगा मंदगामिनः
॥६६॥हयाश्च तादृशा जाता रामो विस्मय मागतः ॥
गुरुं पप्रच्छ विनयाद्वशिष्ठं मुनिपुंगवम्
॥६७॥किमेतन्मंदगतयश्चित्रं हृदि मुनीश्वर ॥
त्रिकालज्ञो मुनिः प्राह धर्मक्षेत्रमुपागतम्
॥६८॥तीर्थे पुरातने राम पादचारेण गम्यते ॥
एवं कृते ततः पश्चात्सैन्यसौख्यं भविष्यति
॥६९॥पादचारी ततौ रामः सैन्येन सह संयुतः ॥
मधुवासनके ग्रामे प्राप्तः परमभावनः
॥७०॥गुरुणा चोक्तमार्गेण मातॄणां पूजनं कृतम् ॥
नानोपहारैर्विविधैः प्रतिष्ठाविधिपूर्वकम्
॥७३॥ततो रामो हरिक्षेत्रं सुवर्णादक्षिणे तटे ॥
निरीक्ष्य यज्ञयोग्याश्च भूमीर्वै बहुशस्तथा
॥७२॥कृतकृत्यं तदात्मानं मेने रामो रघूद्वहः ॥
धर्मस्थानं निरीक्ष्याथ सुवर्णाक्षोत्तरे तटे
॥७३॥सैन्यसंघं समुत्तीर्य्य बभ्राम क्षेत्रमध्यतः ॥
तत्र तीर्थेषु सर्वेषु देवतायतनेषु च
॥७४॥यथोक्तानि च कर्माणि रामश्चक्रे विधानतः ॥
श्राद्धानि विधिवच्चक्रे श्रद्धया परया युतः
॥७५॥स्थापयामास रामेशं तथा कामेश्वरं पुनः ॥
स्थानाद्वायुप्रदेशे तु सुवर्णो भयतस्तटे
॥७६॥कृत्वैवं कृतकृत्योऽभूद्रामो दशरथात्मजः ॥
कृत्वा सर्वविधिं चैव सभायां समुपाविशत्
॥७७॥तां निशां स नदीतीरे सुष्वाप रघुनंदनः ॥
ततोऽर्द्धरात्रे संजाते रामो राजीवलोचनः
॥७८॥जागृतस्तु तदा काल एकाकी धर्मवत्सलः ॥
अश्रौषीच्च क्षणे तस्मिन्रामो नारीविरोदनम्
॥७९॥निशायां करुणैर्वाक्यै रुदंतीं कुररीमिव ॥
चारैर्विलोकयामास रामस्तामतिसंभ्रमात्
॥८०॥दृष्ट्वातिविह्वलां नारीं क्रंदन्तीं करुणैः स्वरैः ॥
पृष्टा सा दुःखिता नारी रामदूतैस्तदानघ
॥८१॥दूता ऊचुः
कासि त्वं सुभगे नारि देवी वा दानवी नु किम् ॥
केन वा त्रासितासि त्वं मुष्टं केन धनं तव
॥८२॥विकला दारुणाञ्छब्दानुद्गिरंती मुहुर्मुहुः ॥
कथयस्व यथातथ्यं रामो राजाभिपृच्छति
॥८३॥तयोक्तं स्वामिनं दूताः प्रेषयध्वं ममांतिकम् ॥
यथाहं मानसं दुःखं शांत्यै तस्मै निवेदये
॥८४॥तथेत्युक्त्वा ततो दूता राममागत्य चाब्रुवन्
॥८५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये दूतागमनंनामैकत्रिंशो ऽध्यायः ॥ ३१ ॥