मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — धर्मारण्यखण्डः, अध्याय १९

3
ब्रह्मखण्डः · धर्मारण्यखण्डः · 19

इन्द्रसरे नरः स्नात्वा दृष्ट्वा चेंद्रेश्वरं शिवम्

व्यास उवाच

इन्द्रसरे नरः स्नात्वा दृष्ट्वा चेंद्रेश्वरं शिवम् ॥

सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः

॥१॥

युधिष्ठिर उवाच

केन चादौ निर्मितं तत्तीर्थं सर्वोत्तमोत्तमम् ॥

यथावद्वर्णय त्वं मे भगवन्द्विजसत्तम

॥२॥

व्यास उवाच

इन्द्रेणैव महाराज तपस्तप्तं सुदुष्करम् ॥

ग्रामादुत्तरदिग्भागे शतवर्षाणि तत्र वै

॥३॥

शिवोद्देशं महाघोरमेकांगुष्ठेन भारत ॥

उर्द्ध्वबाहुर्महातेजाः सूर्यस्याभिमुखोऽभवत्

॥४॥

वृत्रस्य वधतो ज्ञातं यत्पापं तस्य नुत्तये ॥

एकाग्रः प्रयतो भूत्वा शिवस्याराधने रतः

॥५॥

तपसा च तदा शंभुस्तोषितः शशिशे खरः ॥

तत्राजगाम जटिलो भस्मांगो वृषभध्वजः

॥६॥

खट्वांगी पंचवक्त्रश्च दशबाहुस्त्रिलोचनः ॥

गंगाधरो वृषारूढो भूतप्रेतादिवेष्टितः

॥७॥

सुप्रसन्नः सुरश्रेष्ठः कृपालुर्वरदायकः ॥

तदा हृष्टमना देवो देवेन्द्रमिदमूचिवान्

॥८॥

हर उवाच

यत्त्वं याचयसे देव तदहं प्रद दामि ते

॥९॥

इन्द्र उवाच

यदि तुष्टोसि देवेश कृपासिंधो महेश्वर ॥

ब्रह्महत्या हि मां देव उद्वेजयति नित्यशः

॥१०॥

वृत्रासुरस्य हनने जातं पापं सुरोत्तम ॥

तत्पापं नाशय विभो मम दुःखप्रदं सदा

॥११॥

हर उवाच

धर्मारण्ये सुरपते ब्रह्महत्या न पीडयेत् ॥

हत्या गवां द्विजातीनां बालस्य योषितामपि

॥१२॥

वचनान्मम देवेंद्र ब्रह्मणः केशवस्य च ॥

यमस्य वचनाज्जिष्णो हत्या नैवात्र तिष्ठति ॥

प्रविश्य त्वं महाराज अतोत्र स्नानमाचर

॥१३॥

इन्द्र उवाच

यदि त्वं मम तुष्टोऽसि कृपासिंधो महेश्वर ॥

मन्नाम्ना च महादेव स्थापितो भव शंकर

॥१४॥

तथेत्युक्त्वा महादेवः सुप्रसन्नो हरस्तदा ॥

दर्शयामास तत्रैव लिंगं पापप्रणाशनम्

॥१५॥

कूर्मपृष्ठात्समुत्पाद्य आत्मयोगेन शंभुना ॥

स्थितस्तत्रैव श्रीकण्ठः कालत्रयविदो विदुः

॥१६॥

वृत्रहत्यासमुत्त्रस्तदेवराजस्य सन्निधौ ॥

इन्द्रेश्वरस्तदा तत्र धर्मा रण्ये स्थितो नृप

॥१७॥

सर्वपापविशुद्ध्यर्थं लोकानां हितकाम्यया ॥

इन्द्रेश्वरं तु राजेंद्र पुष्पधूपादिकैः सदा

॥१८॥

पूजयेच्च नरो भक्त्या सर्वपापैः प्रमुच्यते ॥

अष्टम्यां च चतुर्दश्यां माघमासे विशेषतः

॥१९॥

सर्वपापविशुद्ध्यर्थं शिवलोके महीयते ॥

नीलोत्सर्गं तु यो मर्त्यः करोति च तदग्रतः

॥२०॥

उद्धरेत्सप्त गोत्राणि कुलमेकोत्तरं शतम् ॥

सांगरुद्रजपं यस्तु चतुर्द्दश्यां करोति वै

॥२१॥

सर्वपाविशुद्धात्मा लभते परमं पदम्

॥२२॥

सौवर्णनयनं कृत्वा मध्ये रत्नसमन्वितम् ॥

यो ददाति द्विजातिभ्य इन्द्रतीर्थे तथोत्तमे

॥२३॥

अन्धता न भवे त्तस्य जन्मानि षष्टिसंख्यया ॥

निर्मलत्वं सदा तेषां नयनेषु प्रजायते ॥

महारोगास्तथा चान्ये स्नात्वा यांति तदग्रतः

॥२४॥

पूजिते चैकचित्ते न सर्वरोगात्प्रमुच्यते ॥

स्नात्वा कुण्डे नरो यस्तु संतर्पयति यः पितॄन्

॥२५॥

तस्य तृप्ताः सदा भूप पितरश्च पितामहाः ॥

ये वै ग्रस्ता महारोगैः कुष्ठाद्यैश्चैव देहिनः

॥२६॥

स्नानमात्रेण संशुद्धा दिव्यदेहा भवंति ते ॥

ज्वरादिकष्टमापन्ना नराः स्वात्महिताय वै

॥२७॥

स्नान मात्रेण संशुद्धा दिव्यदेहा भवंति ते ॥

स्नात्वा च पूजयेद्देवं मुच्यते ज्वरबन्धनात्

॥२८॥

एकाहिकं द्व्याहिकं च चातुर्थं वा तृतीयकम् ॥

विषमज्वरपीडा च मासपक्षादिकं ज्वरम्

॥२९॥

इन्द्रेश्वरप्रसादाच्च नश्यते नात्र संशयः ॥

विज्वरो जायते नूनं सत्यंसत्यं च भूपते

॥३०॥

वन्ध्या च दुर्भगा नारी काकवन्ध्या मृतप्रजा ॥

मृतवत्सा महादुष्टा स्नात्वा कुण्डे शिवाग्रतः ॥

पूजयेदेकचित्तेन स्नानमात्रेण शुद्ध्यति

॥३१॥

एवंविधाश्च बहुशो वरान्दत्त्वा पिनाकधृक् ॥

गतोऽसौ स्वपुरं पार्थ सेव्यमानः सुरासुरैः

॥३२॥

ततः शक्रो महातेजा गतो वै स्वपुरं प्रति ॥

जयंतेनापि तत्रैव स्थापितं लिंगमुत्तमम्

॥३३॥

जयंतस्य हरस्तुष्टस्तस्मिल्लिंगे स्तुतः सदा ॥

त्रिकालं पुत्रसंयुक्तः पूजनार्थं सुरेश्वरः

॥३४॥

आयाति च महाबाहो त्यक्त्वा स्थानं स्वकं हि वै ॥

एतत्सर्वं समाख्यातं सर्वसौख्यप्रदायकम्

॥३५॥

इन्द्रेश्वरं तु यत्पुण्यं जयंतेशस्य पूज नात् ॥

तदेवाप्नोति राजेन्द्र सत्यंसत्यं न संशयः

॥३६॥

स्नात्वा कुण्डे महाराज संपूज्यैकाग्रमानसः ॥

सर्वपापविशुद्धात्मा इन्द्रलोके महीयते

॥३७॥

यः शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते ॥

सर्वान्कामानवाप्नोति जयंतेशप्रमादतः

॥३८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये इन्द्रेश्वरजयंतेश्वरमहिमवर्णनोनामैकोनविंशोऽध्यायः ॥ १९ ॥