सरस्वतीमाहात्म्यवर्णनम्
सूत उवाच
अथान्यत्संप्रवक्ष्यामि तीर्थमाहात्म्यमुत्तमम् ॥
धर्मारण्ये यथाऽऽनीता सत्यलोकात्सरस्वती
॥१॥मार्कंडेयं सुखासीनं महामुनिनिषेवितम् ॥
तरुणादित्यसंकाशं सर्वशास्त्रविशारदम्
॥२॥सर्वतीर्थमयं दिव्यमृषीणां प्रवरं द्विजम् ॥
आसनस्थं समायुक्तं धन्यं पूज्यं दृढव्रतम्
॥३॥योगात्मानं परं शांतं कमडलुधरं विभुम् ॥
अक्षसूत्रधरं शांतं तथा कल्पां तवासिनम्
॥४॥अक्षोभ्यं ज्ञानिनं स्वस्थं पितामहसमुद्युतिम् ॥
एवं दृष्ट्वा समाधिस्थं प्रहर्षोत्फुल्ललोचनम्
॥५॥प्रणम्य स्तुतिभिर्युक्त्या मार्क्कंडं मुनयोऽब्रुवन् ॥
भगवन्नैमिषारण्ये सत्रे द्वादशवार्षिके
॥६॥त्वयावतारिता ब्रह्मन्नदी या ब्रह्मणः सुता ॥
तथा कृतं च तत्रैव गंगा वतरणं क्षितौ
॥७॥गीयमाने कुलपतेः शौनकस्य मुनेः पुरः ॥
सूतेन मुनिना ख्यातमन्येषामपि शृण्वताम्
॥८॥तच्छ्रुत्वा महदाख्यानम स्माकं हृदि संस्थितम् ॥
पापघ्नी पुण्यजननी प्राणिनां दर्शनादपि
॥९॥मार्कण्डेय उवाच
धर्मारण्ये मया विप्राः सत्यलोकात्सरस्वती ॥
समानीता सुरेखाद्रौ शरण्या शरणार्थिनाम्
॥१०॥भाद्रपदे सिते पक्षे द्वादशी पुण्यसंयुता ॥
तत्र द्वारावतीतीर्थे मुनिगंधर्वसेविते
॥११॥तस्मिन्दिने च तत्तीर्थे पिंडदानादि कारयेत् ॥
तत्फलं समवाप्नोति पितॄणां दत्तमक्षयम्
॥१२॥महदाख्यानमखिलं पापघ्नं पुण्यदं च यत् ॥
पवित्रं यत्पवित्राणां महापातकनाशनम्
॥१३॥सर्वमंगलमांगल्यं पुण्यं सारस्वतं जलम् ॥
ऊर्ध्वं किं दिवि यत्पुण्यं प्रभासांते व्यवस्थितम्
॥१४॥सारस्वतजलं नॄणां ब्रह्महत्यां व्यपोहति ॥
सरस्वत्यां नराः स्नात्वा संतर्प्य पितृदेवताः ॥
पश्चात्पिंडप्रदातारो न भवंति स्तनंधयाः
॥१५॥यथा कामदुघा गावो भवन्तीष्टफलप्रदाः ॥
तथा स्वर्गापवर्गैकहैतुभूता सरस्वती
॥१६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये सरस्वतीमाहात्म्यवर्णनंनाम पञ्चविंशोऽध्यायः ॥ २५ ॥