मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — धर्मारण्यखण्डः, अध्याय ३

3
ब्रह्मखण्डः · धर्मारण्यखण्डः · 3

इन्द्रभयकथनम्

व्यास उवाच

श्रूयतां नृपशार्दूल कथां पौराणिकीं शुभाम् ॥

यां श्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः

॥१॥

एकदा धर्मराजो वै तपस्तेपे सुदुष्करम् ॥

ब्रह्मविष्णुमहेशाद्यैर्जलवर्षांतपादिषाट्

॥२॥

आदौ त्रेतायुगे राजन्वर्षाणामयुतत्रयम् ॥

मध्येवनं तपस्यंतमशोकतरुमूलगम्

॥३॥

शुष्कस्नायुपिनद्धास्थिसंचयं निश्चलाकृतिम् ॥

वल्मीककीटिकाकोटिशोषिताशेषशोणितम्

॥४॥

निर्मांसकीकसचयं स्फटिकोपलनिश्चलम् ॥

शंखकुदेंदुतहिनमहाशंखलसच्छ्रियम्

॥५॥

सत्त्वावलंबितप्राणमायुःशेषेण रक्षितम् ॥

निश्वासोच्छ्वास पवनवृत्तिसूचितजीवितम्

॥६॥

निमेषोन्मेषसंचारपशुनीकृतजन्तुकम् ॥

पिशंगितस्फुरद्रश्मिनेत्रदीपितदिङ्मुखम्

॥७॥

तत्तपोग्निशिखादाव चुंबितम्लानकाननम् ॥

तच्छांत्युदसुधावर्षसंसिक्ताखिलभूरुहम

॥८॥

साक्षात्तपस्यंतमिव तपो धृत्वा नराकृतिम् ॥

निराकृतिं निराकाशं कृत्वा भक्तिं च कांचनम्

॥९॥

कुरंगशावैर्गणशो भ्रमद्भिः परिवारितम् ॥

निनादभीषणास्यैश्च वनजैः परिरक्षितम्

॥१०॥

एतादृशं महाभीमं दृष्ट्वा देवाः सवासवाः ॥

ध्यायंतं च महादेवं सर्वेषां चाभयप्रदम्

॥११॥

ब्रह्माद्या दैवता सर्वे कैलासं प्रति जग्मिरे ॥

पारिजाततरुच्छायामासीनं च सहोमया

॥१२॥

नदिर्भृंगिर्महाकालस्तथान्ये च महागणाः ॥

स्कन्दस्वामी च भगवान्गणपश्च तथैव च ॥

तत्र देवाः सब्रह्माद्याः स्वस्वस्थानेषु तस्थिरे

॥१३॥

ब्रह्मोवाच

नमोस्त्वनंतरूपाय नीलश्च नमोऽस्तु ते ॥

अविज्ञातस्वरूपाय कैवल्यायामृताय च

॥१४॥

नांतं देवा विजानंति यस्य तस्मै नमोनमः ॥

यं न वाचः प्रशंसंति नमस्तस्मै चिदात्मने

॥१५॥

योगिनो यं हृदः कोशे प्रणिधानेन निश्चलाः ॥

ज्योतीरूपं प्रपश्यति तस्मै श्रीब्रह्मणे नमः

॥१६॥

कालात्पराय कालाय स्वेच्छया पुरुषाय च ॥

गुणत्रयस्वरूपाय नमः प्रकृतिरूपिणे

॥१७॥

विष्णवे सत्त्वरूपाय रजोरूपाय वेधसे ॥

तमोरूपाय रुद्राय स्थितिसर्गांतकारिणे

॥१८॥

नमो बुद्धिस्वरूपाय त्रिधाहंकाररूपिणे ॥

पंचतन्मात्ररूपाय नमः प्रकृतिरूपिणे

॥१९॥

नमो नमः स्वरूपाय पंचबुद्धींद्रियात्मने ॥

क्षित्यादिपंचरूपाय नमस्ते विषयात्मने

॥२०॥

नमो ब्रह्मांडरूपाय तदंतर्वर्तिने नमः ॥

अर्वाचीनपराचीनविश्वरूपाय ते नमः

॥२१॥

अनित्यनित्यरूपाय सदसत्पतये नमः ॥

नमस्ते भक्तकृपया स्वेच्छावि ष्कृतविग्रह

॥२२॥

तव निश्वसितं वेदास्तव वेदोऽखिलं जगत् ॥

विश्वाभूतानि ते पादः शिरो द्यौः समवर्तत

॥२३॥

नाभ्या आसीदंतरिक्षं लोमानि च वनस्पतिः ॥

चंद्रमा मनसो जातश्चक्षोः सूर्यस्तव प्रभो

॥२४॥

त्वमेव सर्वं त्वयि देव सर्वं सर्वस्तुति स्तव्य इह त्वमेव ॥

ईश त्वया वास्यमिदं हि सर्वं नमोऽस्तु भूयोऽपि नमो नमस्ते

॥२५॥

इति स्तुत्वा महादेवं निपेतुर्दंडवत्क्षितौ ॥

प्रत्युवाच तदा शंभुर्वरदोऽस्मि किमिच्छति

॥२६॥

महादेव उवाच

कथं व्यग्राः सुराः सर्वे बृहस्पतिपुरोगमाः ॥

तत्समाचक्ष्व मां ब्रह्मन्भवतां दुःखकारणम्

॥२७॥

ब्रह्मोवाच

नीलकंठ महादेव दुःखनाशाभयप्रद ॥

शृणु त्वं दुःखमस्माकं भवतो यद्वदाम्यहम्

॥२८॥

धर्मराजोऽपि धर्मात्मा तपस्तेपे सुदुःसहम् ॥

न जानेऽसौ किमिच्छति देवानां पदमुत्तमम्

॥२९॥

तेन त्रस्तास्तत्तपसा सर्व इंद्रपुरोगमाः ॥

भवतोंघ्रौ चिरेणैव मनस्तेन समर्पितम् ॥

तमुत्थापय देवेश किमिच्छति स धर्मराट्

॥३०॥

ईश्वर उवाच

भवतां नास्ति नु भयं धर्मात्सत्यं ब्रवीम्यहम्

॥३१॥

तत उत्थाय ते सर्वे देवाः सह दिवौकसः ॥

रुद्रं प्रदक्षिणीकृत्य नमस्कृत्वा पुनःपुनः

॥३२॥

इन्द्रेण सहिताः सर्वे कैलात्पुनरागताः ॥

स्वस्वस्थाने तदा शीघ्रं गताः सर्वे दिवौकसः

॥३३॥

इन्द्रोऽपि वै सुधर्मायां गतवान्प्रभुरीश्वरः ॥

न निद्रां लब्धवांस्तत्र न सुखं न च निर्वृतिम्

॥३४॥

मनसा चिंतयामास विघ्नं मे समुपस्थितम् ॥

अवाप महतीं चितां तदा देवः शचीपतिः

॥३५॥

मम स्थानं पराहर्तुं स्तपस्तेपे सुदुश्चरम् ॥

सर्वान्देवान्समाहूय इदं वचनमब्रवीत्

॥३६॥

इन्द्र उवाच

शृण्वंतु देवताः सर्वा मम दुःखस्य कारणम् ॥

दुःखेन मम यल्लब्धं तत्किं वा प्रार्थयेद्यमः ॥

बृहस्पतिः समालोक्य सर्वान्दे वानथाब्रवीत्

॥३७॥

बृहस्पतिरुवाच

तपसे नास्ति सामर्थ्यं विघ्नं कर्तुं दिवौकसः ॥

उर्वश्याद्या समाहूय संप्रेष्यंतां च तत्र वै

॥३८॥

तासामाकारणार्थाय प्रतिद्वारं प्रतस्थिवान् ॥

स गत्वा ताः समादाय सभायां शीघ्रमाययौ

॥३९॥

आगतास्ता हरिः प्राह महत्कार्यमुपस्थितम् ॥

गच्छन्तु त्वरिताः सर्वा धर्मारण्यं प्रति द्रुतम्

॥४०॥

यत्र वै धर्मराजोसौ तपश्चक्रे सुदुष्करम् ॥

हास्यभावकटाक्षैश्च गीतनृत्यादिभिस्तथा

॥४१॥

तं लोभयध्वं यमिनं तपःस्थानाच्च्युतिर्भवेत् ॥

देवस्य वचनं श्रुत्वा तथा अप्सरसां गणाः

॥४२॥

मिथः संरेभिरे कर्तुं विचार्य च परस्परम् ॥

धर्मारण्यं प्रतस्थेसावुर्वशी स्वर्वरांगना

॥४३॥

तुष्टुवुः पुष्पवर्षाश्च ससृजुस्तच्छिरस्यमी ॥

ततस्तु देवैर्विप्रैश्च स्तूयमानः समंततः

॥४४॥

निर्ययौ परमप्रीत्या वनं परमपावनम् ॥

बिल्वार्कखदिराकीर्णं कपित्थधवसंकुलम्

॥४५॥

न सूर्यो भाति तत्रैव महांधकार संयुतम् ॥

निर्जनं निर्मनुष्यं च बहुयोजनमायतम्

॥४६॥

मृगैः सिंहैर्वृतं घोरेरन्यैश्चापि वनेचरैः ॥

पुष्पितैः पादपैः कीर्णं सुमनोहरशाद्वलम्

॥४७॥

विपुलं मधुरानादैर्नादितं विहगैस्तथा ॥

पुंस्कोकिलनिनादाढ्यं झिल्लीकगणनादितम्

॥४८॥

प्रवृद्धविकटैर्वृक्षैः सुखच्छायैः समावृतम् ॥

वृक्षैराच्छादिततलं लक्ष्म्या परमया युतम्

॥४९॥

नापुष्पः पादपः कश्चिन्नाफलो नापि कंटकी ॥

षट्पदैरप्यनाकीर्णं नास्मिन्वै काननेभवेत्

॥५०॥

विहंगैर्नादितं पुष्पैरलंकृतमतीव हि ॥

सर्वर्तुकुसमैर्वृक्षैः सुखच्छायैः समावृतम्

॥५१॥

मारुताकलितास्तत्र द्रुमाः कुसुमशाखिनः ॥

पुष्पवृष्टिं विचित्रां तु विसृजंति च पादपाः

॥५२॥

दिवस्पृशोऽथ संपुष्टाः पक्षिभिर्मधुरस्वनैः ॥

विरेजुः पादपास्तत्र सुगन्धकुसुमैर्वृताः

॥५३॥

तिष्ठंति च प्रवालेषु पुष्पभारावनादिषु ॥

रुवंति मधुरालापाः षट्पदा मधुलिप्सवः

॥५४॥

तत्र प्रदेशांश्च बहूनामोदांकुरमंडितान् ॥

लतागृह परिक्षिप्तान्मनसः प्रीतिवर्द्धनान्

॥५५॥

संपश्यंती महातेजा बभूव मुदिता तदा ॥

परस्पराश्लिष्टशाखैः पादपैः कुसमाचितैः

॥५६॥

अशोभत वनं तत्तु महेंद्रध्वजसन्निभैः ॥

सुखशीतसुगन्धी च पुष्परेणुवहोऽनिलः

॥५७॥

एवंगुणसमायुक्तं ददर्श सा वनं तदा ॥

तदा सूर्योद्भवां तत्र पवित्रां परिशोभिताम्

॥५८॥

आश्रमप्रवरं तत्र ददर्श च मनोरमम् ॥

पतिभिर्वालखिल्यैश्च वृतं मुनिगणा वृतम्

॥५९॥

अग्न्यगारैश्च बहुभिर्वृक्षशाखावलंबितैः ॥

धूगम्रपानकणैस्तत्र दिग्वासोयतिभिस्तथा

॥६०॥

पाल्या वन्या मृगास्तत्र सौम्या भूयो बभूविरे ॥

मार्जारा मूषकैस्तत्र सर्पैश्च नकुलास्तथा

॥६१॥

मृगशावैस्तथा सिंहाः सत्त्वरूपा बभूविरे ॥

परस्परं चिक्रीडुस्ते यथा चैव सहोदराः ॥

दूराद्ददर्श च वनं तत्र देवोऽब्रवीत्तदा

॥६२॥

इन्द्र उवाच

अयं च खलु धर्मराड् तपस्तुग्रेवतिष्ठते ॥

मम राज्याभिकांक्षोऽसावतोर्थे यत्यतामिह

॥६३॥

तपोविघ्नं प्रकुर्वंतु ममाज्ञा तत्र गम्यताम् ॥

इन्द्रस्य वचनं श्रुत्वा उर्वशी च तिलोत्तमा

॥६४॥

सुकेशी मंजुघोषा च घृताची मेनका तथा ॥

विश्वाची चैव रंभा च प्रम्लोचा चारुभाषिणी

॥६५॥

पूर्वचित्तिः सुरूपा च अनुम्लोचा यशस्विनी ॥

एताश्चान्याश्च बहुशस्तत्र संस्था व्यचिंतयन्

॥६६॥

परस्परं विलोक्यैव शंकमाना भयेन हि ॥

यमश्चैव तथा शक्र उभौ वायतनं हि वः

॥६७॥

एवं विचार्य बहुधा वर्द्धनी नाम भारत ॥

सर्वासामप्सरसां श्रेष्ठा सर्वाभरणभूषिता

॥६८॥

उवाचैवोर्वशी तत्र किं खिद्यसि शुभानने ॥

देवानां कार्यसिद्ध्यर्थं मायारूपबलेन च ॥

वर्णधर्मो यथा भूयात्करिष्ये पाकशासन

॥६९॥

इन्द्र उवाच

साधुसाधु महाभागे वर्द्धनी नाम सुव्रता ॥

शीघ्रं गच्छ स्वयं भद्रे कुरु कार्यं कृशोदरि

॥७०॥

धीराणामवने शक्ता नान्या सुभ्रु त्वया विना ॥

वर्द्धनी च तथेत्युक्त्वा गता यत्र स धर्मराट्

॥७१॥

महता भूषणेनैव रूपं कृत्वा मनोरमम् ॥

कुंकुमैः कज्जलैर्वस्त्रैर्भूषणैश्चैव भूषिता

॥७२॥

कुसुमं च तथा वस्त्रं किंकिणीकटिराजिता ॥

झणत्कारैस्तथा कष्टैर्भूषिता च पदद्वये

॥७३॥

नानाभूषणभूषाढ्या नानाचंदनचर्चिता ॥

नानाकुसुम मालाढ्या दुकूलेनावृता शुभा

॥७४॥

प्रगृह्य वीणां संशुद्धां करे सर्वांगसुन्दरी ॥

नर्तनं त्रिविधं तत्र चक्रे लोकमनोरमम्

॥७५॥

तारस्वरेण मधुरैर्वंशनादेन मिश्रितम्

॥७६॥

मूर्च्छनातालसंयुक्तं तंत्रीलयसमन्वितम् ॥

क्षणेन सहसा देवो धर्मराजो जितात्मवान् ॥

विमनाः स तदा जातो धर्मराजो नृपात्मजः

॥७७॥

युधिष्ठिर उवाच

आश्चर्यं परमं ब्रह्मञ्जातं मे ब्रह्मसत्तम ॥

कथं ब्रह्मोपपन्नस्य तपश्छेदो बभूव ह

॥७८॥

धर्मे धरा च नाकश्च धर्मे पातालमेव च ॥

धर्मे चंद्रार्कमापश्च धर्मे च पवनोऽनलः

॥७९॥

धर्मे चैवाखिलं विश्वं स धर्मो व्यग्रतां कथम् ॥

गतः स्वामिंस्तद्वैयग्र्यं तथ्यं कथय सुव्रत

॥८०॥

व्यास उवाच

पतनं साहसानां च नरकस्यैव कारणम् ॥

योनिकुण्डमिदं सृष्टं कुंभीपाकसमं भुवि

॥८१॥

नेत्ररज्ज्वा दृढं बद्ध्वा धर्षयंति मनस्विनः ॥

कुचरूपैर्महादंडैस्ताड्यमानमचेतसम्

॥८२॥

कृत्वा वै पातयंत्याशु नरकं नृपसत्तम ॥

मोहनं सर्वभूतानां नारी चैवं विनिर्मिता

॥८३॥

तावद्धंत मनःस्थैर्यं श्रुतं सत्यमनाकुलम् ॥

यावन्मत्तांगनाग्रे न वागुरेव सुचेतसा म्

॥४॥

तावत्तपोभिवृद्धिस्तु तावद्दानं दया दमः ॥

तावत्स्वाध्यायवृत्तं च तावच्छौचं धृतं व्रतम्

॥८५॥

यावत्त्रस्तमृगीदृष्टिं चपलां न विलोकयेत् ॥

तावन्माता पिता तावद्धाता तावत्ससुहृज्जनः

॥८६॥

तावल्लज्जा भयं तावत्स्वाचारस्तावदेव हि ॥

ज्ञानमौदार्यमैश्वर्यं तावदेव हि भासते ॥

यावन्मत्तांगनापाशैः पातितो नैव बन्धनैः

॥८७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे धर्मारण्यमाहात्म्ये इन्द्रभ यकथनंनाम तृतीयोऽध्यायः ॥ ३ ॥