मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — धर्मारण्यखण्डः, अध्याय ३८

3
ब्रह्मखण्डः · धर्मारण्यखण्डः · 38

ततः प्रभाते विमले कृतपूर्वाह्निकक्रियाः

व्यास उवाच

ततः प्रभाते विमले कृतपूर्वाह्निकक्रियाः ॥

शुभवस्त्रपरीधानाः फल हस्ताः पृथक्पृथक्

॥१॥

रत्नांगदाढ्यदोर्दंडा अंगुलीयकभूषिताः ॥

कर्णाभरणसंयुक्ताः समाजग्मुः प्रहर्षिताः

॥२॥

राजद्वारं तु संप्राप्य संत स्थुर्ब्रह्मवादिनः ॥

तान्दृष्ट्वा राजपुत्रस्तु ईषत्प्रहसितो बली

॥३॥

रामं च हनुमंतं च गत्वा विप्राः समागताः ॥

श्रूयतां मंत्रिणः सर्वे दृश्यंतो द्विज सत्तमान् ॥

एतदुक्त्वा तु वचनं तूष्णीं भूत्वा स्थितो नृपः ॥

ततो द्वित्रा द्विजाः सर्वे उपविष्टाः क्रमात्ततः

॥५॥

क्षेमं पप्रच्छुर्नृपतिं हस्तिरथपदातिषु ॥

ततः प्रोवाच नृपतिर्विप्रान्प्रति महामनाः

॥६॥

अरिहंतप्रसादेन सर्वत्र कुशलं मम ॥

सा जिह्वा या जिनं स्तौ ति तौ करौ यौ जिनार्चनौ

॥७॥

सा दृष्टिर्या जिने लीना तन्मनो यज्जिने रतम् ॥

दया सर्वत्र कर्तव्या जीवात्मा पूज्यते सदा

॥८॥

योगशाला हि गंतव्या कर्त्तव्यं गुरुवंदनम् ॥

न चकारं महामंत्रं जपितव्यमहर्निशम्

॥९॥

पंचूषणं हि कर्त्तव्यं दातव्यं श्रमणे सदा ॥

श्रुत्वा वाक्यं ततो विप्रास्तस्य दंतानपीडयन्

॥१०॥

विमुच्य दीर्घनिश्वासमूचुस्ते नृपतिं प्रति ॥

रामेण कथितं राजन्धीमता च हनूमता

॥११॥

दीयतां विप्रवृत्तिं च धर्मिष्ठोऽसि धरातले ॥

ज्ञायते तव द्दत्ता स्यान्मदत्ता नैव नैव च

॥१२॥

रक्षस्व रामवाक्यं त्वं यत्कृत्वा त्वं सुखी भव

॥१३॥

राजोवाच

यत्र रामहनूमंतौ यांतु सर्वेऽपि तत्र वै ॥

रामो दास्यति सर्वस्वं किं प्राप्ता इह वै द्विजाः

॥१४॥

न दास्यामि न दास्यामि एकां चैव वराटिकाम् ॥

न ग्रामं नैव वृत्तिं च गच्छध्वं यत्र रोचते

॥१५॥

तच्छ्रुत्वा दारुणं वाक्यं द्विजाः कोपाकुलास्तदा ॥

सहस्व रामकोपं हि साम्प्रतञ्च हनूमतः

॥१६॥

इत्युक्त्वा हनुमद्दत्ता वामकक्षोद्भवा पुटी ॥

प्रक्षिप्ता चास्य निलये व्यावृत्ता द्विजसत्तमाः

॥१७॥

गते तदा विप्रसंघे ज्वालामालाकुलं त्वभूत् ॥

अग्निज्वालाकुलं सर्वं संजातं चैव तत्र हि

॥१८॥

दह्यंते राजवस्तूनिच्छत्राणि चामराणि च ॥

कोशागाराणि सर्वाणि आयुधागारमेव च

॥१९॥

महिष्यो राजपुत्राश्च गजा अश्वा ह्यनेकशः ॥

विमानानि च दह्यंते दह्यंते वाहनानि च

॥२०॥

शिबिकाश्च विचित्रा वै रथाश्चैव सहस्रशः ॥

सर्वत्र दह्यमानं च दृष्ट्वा राजापि विव्यथे

॥२१॥

न कोपि त्राता तस्यास्ति मानवा भयविक्लवाः ॥

न मंत्रयंत्रैर्वह्निः स साध्यते न च मूलिकैः

॥२२॥

कौटिल्यकोटिनाशी च यत्र रामः प्रकुप्यते ॥

तत्र सर्वे प्रणश्यंति किं तत्कुमारपालकः

॥२३॥

सर्वं तज्जवलितं दृष्ट्वा नग्नक्षपणकास्तदा ॥

धृत्वा करेण पात्राणि नीत्वा दंडाञ्छुभानपि

॥२४॥

रक्तकंबलिका गृह्य वेपमाना मुहुर्मुहुः ॥

अनुपानहिकाश्चैव नष्टाः सर्वे दिशो दश

॥२६॥

कोलाहलं प्रकुर्वाणाः पलायध्वमिति ब्रुवन् ॥

दाहिता विप्रमुख्यैश्च वयं सर्वे न संशयः

॥२६॥

केचिच्च भग्नपात्रास्ते भग्नदं ण्डास्तथापरे ॥

प्रनष्टाश्च विवस्त्रास्ते वीतरागमिति ब्रुवन्

॥२७॥

अर्हतमेव केचिच्च पलायनपरायणाः ॥

ततो वायुः समभवद्वह्निमांदोलयन्निव

॥२८॥

प्रेषितो वै हनुमता विप्राणां प्रियकाम्यया ॥

धावन्स नृपतिः पश्चादितश्चेतश्च वै तदा

॥२९॥

पदातिरेकः प्ररुदन्क्व विप्रा इति जल्पकः ॥

लोकाच्छ्रुत्वा ततो राजा गतस्तत्र यतो द्विजाः

॥३०॥

गत्वा तु सहसा राजन्गृहीत्वा चरणौ तदा ॥

विप्राणां नृपतिर्भूमौ मूर्च्छितो न्यपत त्तदा

॥३१॥

उवाच वचनं राजा विप्रान्विनयतत्परः ॥

जपन्दाशरथिं रामं रामरामेति वै पुनः

॥३२॥

तस्य दासस्य दासोहं रामस्य च द्विज स्य च ॥

अज्ञानतिमिरांधेन जातोस्म्यंधो हि संप्रति

॥३३॥

अंजनं च मया लब्धं रामनाममहौषधम् ॥

रामं मुक्त्वा हि ये मर्त्या ह्यन्यं देव मुपासते ॥

दह्यंते तेऽग्निना स्वामिन्यथाहं मूढचेतनः

॥३४॥

हरिर्भागीरथी विप्रा विप्रा भागीरथी हरिः ॥

भागीरथी हरिर्विप्राः सारमेकं जगत्त्रये

॥३५॥

स्वर्गस्य चैत्र सोपानं विप्रा भागीरथी हरिः ॥

रामनाममहारज्ज्वा वैकुंठे येन नीयते

॥३६॥

इत्येवं प्रणमन्राजा प्रांजलिर्वाक्यमब्रवीत् ॥

वह्निः प्रशाम्यतां विप्राः शासनं वो ददाम्यहम्

॥३७॥

दासोऽस्मि सांप्रतं विप्रा न मे वागन्यथा भवेत् ॥

यत्पापं ब्रह्महत्यायाः पर दाराभिगामिनाम्

॥३८॥

यत्पापं मद्यपानां च सुवर्णस्तेयिनां तथा ॥

यत्पापं गुरुघातानां तत्पापं वा भवेन्मम

॥३९॥

यंयं चिंतयते कामं तं तं दास्याम्यहं पुनः ॥

विप्रभक्तिः सदा कार्या रामभक्तिस्तथैव च

॥४०॥

अन्यथा करणीयं मे न कदाचि द्द्विजोत्तमाः

॥४१॥

व्यास उवाच

तस्मिन्नवसरे विप्रा जाता भूप दयालवः ॥

अन्या या पुटिका चासीत्सा दत्ता शापशांतये

॥४२॥

जीवितं चैव तत्सैन्यं जातं क्षिप्तेषु रोमसु ॥

दिशः प्रसन्नाः संजाताः शांता दिग्जनितस्वनाः

॥४३॥

प्रजा स्वस्था ऽभवत्तत्र हर्षनिर्भरमानसा ॥

अवतस्थे यथापूर्वं पुत्रपौत्रादिकं तथा

॥४४॥

विप्राज्ञाकारिणो लोकाः संजाताश्च यथा पुरा ॥

विष्णुधर्मं परित्यज्य नान्यं जानंति ते वृषम्

॥४५॥

नवीनं शासनं कृत्वा पूर्ववद्विधिपूर्वकम् ॥

निष्कासितास्तु पाषंडाः कृतशास्त्रप्रयोजकाः

॥४६॥

वेदबाह्याः प्रनष्टास्ते उत्तमाधममध्यमाः ॥

षट्त्रिंशच्च सहस्राणि येऽभूवन्गोभुजाः पुरा

॥४७॥

तेषां मध्यात्तु संजाता अढवीजा वणिग्जनाः ॥

शुश्रूषार्थं ब्राह्मणानां राज्ञा सर्वे निरूपिताः

॥४८॥

सदाचाराः सुनिपुणा देवब्राह्मणपूजकाः ॥

त्यक्त्वा पाखण्डमार्गं तु विष्णुभक्तिपरास्तु ते

॥४९॥

जाह्नवीतीरमासाद्य त्रैविद्येभ्यो ददौ नृपः ॥

शासनं तु यदा दत्तं तेषां वै भक्तिपूर्वकम्

॥५०॥

स्थानधर्मात्प्रचलिता वाडवास्ते समागताः ॥

नृपो विज्ञापितो विप्रैस्तैरेवं क्लेशकारिभिः

॥५१॥

ये त्यक्तवाचो विप्रेंद्रास्तान्निःसारय भूपते ॥

परस्परं विवादास्तु संजाता दत्तवृत्तये

॥५२॥

न्याय प्रदशनार्थं च कारितास्तु सभासदः ॥

हस्ताक्षरेषु दृष्टेषु पृथक्पृथक्प्रपादितम्

॥५३॥

एतच्छ्रुत्वा ततो राजा तुलादानं चकार ह ॥

दीयमाने तदा दाने चातुर्विद्या बभाषिरे

॥५४॥

अस्माभिर्हारिता जातिः कथं कुर्मः प्रतिग्रहम् ॥

निवारितास्तु ते सर्वे स्थानान्मोहेरका द्विजाः

॥५५॥

दशपंच सहस्राणि वेदवेदांगपारगाः ॥

ततस्तेन तदा राजन्राज्ञा रामानुवर्तिना

॥५६॥

आहूता वाडवांस्तास्तु ज्ञातिभेदं चकार सः ॥

त्रयीविद्या वाडवा ये सेतुबंधं प्रति प्रभुम्

॥५७॥

गतास्ते वृत्तिभाजः स्युर्नान्ये वृत्त्यभिभागिनः ॥

तत्र नैव गता ये वै चातुर्विद्यत्वमागताः

॥५८॥

वणिग्भिर्न च संबंधो न विवाहश्च तैः सह ॥

ग्रामवृत्तौ न संबंधो ज्ञातिभेदे कृते सति

॥५९॥

द्विजभक्तिपराः शूद्राः ये पाखंडैर्न लोपिताः ॥

जैन धर्मात्परावृत्तास्ते गोभूजास्तथोत्तमाः

॥६०॥

ये च पाखंडनिरता रामशासनलोपकाः ॥

सर्वे विप्रास्तथा शूद्रा प्रतिबंधेन योजिताः

॥६१॥

सत्यप्रतिज्ञां कुर्वाणास्तत्रस्थाः सुखिनोऽभवन् ॥

चातुर्विद्या बहिर्ग्रामे राज्ञा तेन निवासिताः

॥६२॥

यथा रामो न कुप्येत तथा कार्यं मया ध्रुवम ॥

पराङ्मुखा ये रामस्य सन्मुखानुगताः किल

॥६३॥

चातुर्विद्यास्ते विज्ञेया वृत्तिबाह्याः कृतास्तदा ॥

कृतकृत्यस्तदा जातो राजा कुमारपालकः

॥६४॥

विप्राणां पुरतः प्राह प्रश्रयेण वचस्तदा ॥

ग्रामवृत्तिर्न मे लुप्ता एतद्वै देवनिर्मितम्

॥६५॥

स्वयं कृतापराधानां दोषो कस्य न दीयते ॥

यथा वने काष्ठवर्षाद्वह्निः स्याद्दैवयोगतः

॥६६॥

भवद्भिस्तु पणः प्रोक्तो ह्यभिज्ञानस्य हेतवे ॥

रामस्य शासनं कृत्वा वायुपुत्रस्य हेतवे

॥६७॥

व्यावृत्ता वाडवा यूयं स दोषः कस्य दीयते ॥

अवसाने हरिं स्मृत्वा महापापयुतोऽपि वा

॥६८॥

विष्णुलोकं व्रजत्याशु संशयस्तु कथं भवेत् ॥

महत्पुण्योदये नॄणां बुद्धिः श्रेयसि जायते

॥६९॥

पापस्योदयकाले च विपरीता हि सा भवेत् ॥

सकृत्पालयते यस्तु धर्मेणैतज्जगत्त्रयम्

॥७०॥

योंतरात्मा च भूतानां संशयस्तत्र नो हितः ॥

इंद्रादयोऽमराः सर्वे सनकाद्यास्तपोधनाः

॥७१॥

मुक्त्यर्थमर्चयंतीह संशयस्तत्र नो हितः ॥

सहस्रनाम तत्तुल्यं रामनामेति गीयते

॥७२॥

तस्मिन्ननिश्चयं कृत्वा कथं सिद्धिर्भवेदिह ॥

मम जन्मकृतात्पुण्यादभिज्ञानं ददौ हरिः

॥७३॥

पाखंडाद्यत्कृतं पापं मृष्टं तद्वः प्रणामतः ॥

प्रसीदंतु भवंतश्च त्यक्त्वा क्रोधं ममाधुना

॥७४॥

ब्राह्मणा ऊचुः

राजन्धर्मो विलुप्तस्ते प्रापितानां तथा पुनः ॥

अवश्यं भाविनो भावा भवंति महतामपि

॥७५॥

नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ॥

एतद्दैवकृतं सर्वं प्रभुर्यः सुखदुःखयोः

॥७६॥

सत्यप्रतिज्ञास्त्रैविद्या भजंतु रामशासनम् ॥

अस्माकं तु परं देहि स्थानं यत्र वसामहे

॥७७॥

तेषां तु वचनं श्रुत्वा सुखमिच्छुर्द्विजन्मनाम् ॥

तेषां स्थानं तु दत्तं वै सुखवासं तु नामतः

॥७८॥

हिरण्यं पुष्पवासांसि गावः कामदुघा नृप ॥

स्वर्णालंकरणं सर्वं नानावस्तुचयं तथा

॥७९॥

श्रद्धया परया दत्त्वा मुदं लेभे नराधिपः ॥

त्रयीविद्यास्तु ते ज्ञेयाः स्थापिता ये त्रिमूर्तिभिः

॥८०॥

चतुर्थेनैव भूपेन स्थापिताः सुखवासने ॥

ते बभूबुर्द्विजश्रेष्ठाश्चातुर्विद्याः कलौ युगे

॥८१॥

चातुर्विद्याश्च ते सर्वे धर्मारण्ये प्रतिष्ठिताः ॥

वेदोक्ता आशिषो दत्त्वा तस्मै राज्ञे महात्मने

॥८२॥

रथैरश्वैरुह्यमानाः कृतकृत्या द्विजातयः ॥

महत्प्रमोदयुक्तास्ते प्रापुर्मोहेरकं महत्

॥८३॥

पौषशुक्लत्रयोदश्यां लब्धं शासनकं द्विजैः ॥

बलिप्रदानं तु कृतमुद्दिश्य कुलदेवताम्

॥८४॥

वर्षेवर्षे प्रकर्त्तव्यं बलिदानं यथाविधि ॥

कार्यं च मंगलस्नानं पुरुषेण महात्मना

॥८५॥

गीतं नृत्यं तथा वाद्यं कुर्वीत तद्दिने धुवम् ॥

तन्मासे तद्दिने नैव वृत्तिनाशो भवेद्यथा

॥८६॥

दैवादतीतकाले चेत्वृद्धिरापद्यते यदा ॥

तदा प्रथमतः कृत्वा पश्चाद्वृद्धिर्विधीयते

॥८७॥

ये च भिन्नप्रपाप्रायास्त्रैविद्या मोढवंशजाः ॥

तथा चातुर्वेदिनश्च कुर्वंति गोत्रपूजनम्

॥८८॥

वर्षमध्ये प्रकुर्वीत तथा सुप्ते जनार्द्दने ॥

पौषे च लुप्तं कृत्वा च श्रौतं स्मार्त्तं करोति यः

॥८९॥

तत्र क्रोधसमाविष्टा निघ्नंति कुलदेवताः ॥

विवाहोत्सवकाले च मौंजीबंधादिकर्मणि

॥९०॥

मुहूर्तं गणनाथस्य ततः प्रभृति शोभनम्

॥९१॥

निर्वासितास्तु ये विप्रा आमराज्ञा स्वशासनात् ॥

पंचदशसहस्राणि ययुस्ते सुखवासकन्

॥९२॥

पंचपञ्चाशतो ग्रामान्ददौ रामः पुरा स्वयम् ॥

तत्रस्था वणिजश्चैव तेषां वृत्तिमकल्पयन्

॥९३॥

अडालजा माण्डलीया गोभूजाश्च पवित्रकाः ॥

ब्राह्मणानां वृत्तिदास्ते ब्रह्मसेवासु तत्पराः

॥९४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये ब्राह्मणानां शासनवृत्तिप्राप्तिवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥