मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — धर्मारण्यखण्डः, अध्याय ३३

3
ब्रह्मखण्डः · धर्मारण्यखण्डः · 33

पुरप्रत्यागमनवर्णनम्

राम उवाच

जीर्णोद्धारं करिष्यामि श्रीमातुर्वचनादहम् ॥

आज्ञा प्रदीयतां मह्यं यथादानं ददामि वः

॥१॥

पात्रे दानं प्रदातव्यं कृत्वा यज्ञवरं द्विजाः ॥

नापात्रे दीयते किंचिद्दत्तं न तु सुखावहम्

॥२॥

सुपात्रं नौरिव सदा तारयेदुभयोरपि ॥

लोहपिंडोपमं ज्ञेयं कुपात्रं भञ्जनात्मकम्

॥३॥

जातिमात्रेण विप्रत्वं जायते न हि भो द्विजाः ॥

क्रिया बलवती लोके क्रियाहीने कुतः फलम्

॥४॥

पूज्यास्तस्मात्पूज्यतमा ब्राह्मणाः सत्यवादिनः ॥

यज्ञकार्ये समुत्पन्ने कृपां कुर्वंतु सर्वदा

॥५॥

ब्रह्मोवाच

ततस्तु मिलिताः सर्वे विमृश्य च परस्परम् ॥

केचिदूचुस्तदा रामं वयं शिलोंछजीविकाः

॥६॥

संतोषं परमास्थाय स्थिता धर्मपरायणाः ॥

प्रतिग्रहप्रयोगेण न चास्माकं प्रयोजनम्

॥७॥

दशसूनासमश्चक्री दशचक्रिसमो ध्वजः ॥

दशध्वजसमा वेश्या दशवेश्यासमो नृपः

॥८॥

राजप्रतिग्रहो घोरो राम सत्यं न संशयः ॥

तस्माद्वयं न चेच्छामः प्रतिग्रहं भया वहम्

॥९॥

एकाहिका द्विजाः केचित्केचित्स्वामृतवृत्तयः ॥

कुम्भीधान्या द्विजाः केचित्केचित्षट्कर्मतत्पराः

॥१०॥

त्रिमूर्तिस्थापिताः सर्वे पृथग्भावाः पृथग्गुणाः ॥

केचिदेवं वदंति स्म त्रिमूर्त्याज्ञां विना वयम्

॥११॥

प्रतिग्रहस्य स्वीकारं कथं कुर्याम ह द्विजाः ॥

न तांबूलं स्त्रीकृतं नो ह्यद्मो दानेन भषितम्

॥१२॥

विमृश्य स तदा रामो वसिष्ठेन महात्मना ॥

ब्रह्मविष्णुशिवादीनां सस्मार गुरुणा सह ॥

स्मृतमात्रास्ततो देवास्तं देशं समुपागमन् ॥

सूर्यकोटिप्रतीकाशीवमानावलिसंवृताः

॥१४॥

रामेण ते यथान्यायं पूजिताः परया मुदा

॥१३॥

निवेदितं तु तत्सर्वं रामेणातिसुबुद्धिना

॥१५॥

अधिदेव्या वचनतो जीर्णोद्धारं करोम्यहम् ॥

धर्मारण्ये हरिक्षेत्रे धर्मकूपसमीपतः

॥१६॥

ततस्ते वाडवाः सर्वे त्रिमूर्त्तीः प्रणिपत्य च ॥

महता हर्षवृंदेन पूर्णाः प्राप्तमनोरथाः

॥१७॥

अर्घ्यपाद्यादिविधिना श्रद्धया तानपूजयन् ॥

क्षणं विश्रम्य ते देवा ब्रह्मविष्णुशिवादयः

॥१८॥

ऊचू रामं महाशक्तिं विनयात्कृतसंपुटम्

॥१९॥

देवा ऊचुः

देवद्रुहस्त्वया राम ये हता रावणादयः ॥

तेन तुष्टा वयं सर्वे भानुवंशविभूषण

॥२०॥

उद्धरस्व महास्थानं महतीं कीर्तिमाप्नुहि

॥२१॥

लब्ध्वा स तेषामाज्ञां तु प्रीतो दशरथात्मजः ॥

जीर्णोद्धारेऽनंतगुणं फलमिच्छन्निलापतिः

॥२२॥

देवानां संनिधौ तेषां कार्यारंभमथाकरोत् ॥

स्थंडिलं पूर्वतः कृत्वा महागिरि समं शुभम्

॥२३॥

तस्योपरि बहिःशाला गृहशाला ह्यनेकशः ॥

ब्रह्मशालाश्च बहुशो निर्ममे शोभनाकृतीः

॥२४॥

निधानैश्च समायुक्ता गृहोपकरणै र्वृताः ॥

सुवर्णकोटिसंपूर्णा रसवस्त्रादिपूरिताः

॥२५॥

धनधान्यसमृद्धाश्च सर्वधातुयुतास्तथा ॥

एतत्सर्वं कारयित्वा ब्राह्मणेभ्यस्तदा ददौ

॥२६॥

एकैकशो दशदश ददौ धेनूः पयस्विनीः ॥

चत्वारिंशच्छतं प्रादाद्ग्रामाणां चतुराधिकम्

॥२७॥

त्रैविद्यद्विजविप्रेभ्यो रामो दशरथात्मजः ॥

काजेशेन त्रयेणैव स्थापिता द्विजसत्तमाः

॥२८॥

तस्मात्त्रयीविद्य इति ख्यातिर्लोके बभूव ह ॥

एवंविधं द्विजेभ्यः स दत्त्वा दानं महाद्भुतम्

॥२९॥

आत्मानं चापि मेने स कृतकृत्यं नरेश्वरः ॥

ब्रह्मणा स्थापिताः पूर्वं विष्णुना शंकरेण ये

॥३०॥

ते पूजिता राघवेण जीर्णोद्धारे कृते सति ॥

षट्त्रिंशच्च सहस्राणि गोभुजा ये वणिग्वराः

॥३१॥

शुश्रूषार्थं प्रदत्ता वै देवैर्हरिहरादिभिः ॥

संतुष्टेन तु शर्वेण तेभ्यो दत्तं तु चेत नम्

॥३२॥

श्वेताश्वचामरौ दत्तौ खङ्गं दत्तं सुनिर्मलम् ॥

तदा प्रबोधितास्ते च द्विजशुश्रूषणाय वै

॥३३॥

विवाहादौ सदा भाव्यं चामरै मंगलं वरम् ॥

खङ्गं शुभं तदा धार्य्यं मम चिह्नं करे स्थितम्

॥३४॥

गुरुपूजा सदा कार्या कुलदेव्याः पुनःपुनः ॥

वृद्ध्यागमेषु प्राप्तेषु वृद्धि दायकदक्षिणा

॥३५॥

एकादश्यां शनेर्वारे दानं देयं द्विजन्मने ॥

प्रदेयं बालवृद्धेभ्यो मम रामस्य शासनात्

॥३६॥

मंडलेषु च ये शुद्धा वणिग्वृत्तिरताः पराः ॥

सपादलक्षास्ते दत्ता रामशासनपालकाः

॥३७॥

मांडलीकास्तु ते ज्ञेया राजानो मंडलेश्वराः ॥

द्विज शुश्रूषणे दत्ता रामेण वणिजां वराः

॥३८॥

चामरद्वितयं रामो दत्तवान्खड्गमेव च ॥

कुलस्य स्वामिनं सूर्यं प्रतिष्ठाविधिपूर्वकम्

॥३९॥

ब्रह्माणं स्थापयामास चतुर्वेदसमन्वितम् ॥

श्रीमातरं महाशक्तिं शून्यस्वामिहरिं तथा

॥४०॥

विघ्नापध्वंसनार्थाय दक्षिणद्वारसंस्थितम् ॥

गणं संस्थापयामास तथान्याश्चैव देवताः

॥४१॥

कारितास्तेन वीरेण प्रासादाः सप्तभूमिकाः ॥

यत्किं चित्कुरुते कार्यं शुभं मांगल्यरूपकम्

॥४२॥

पुत्रे जाते जातके वान्नाशने मुंडनेऽपि वा ॥

लक्षहोमे कोटिहोमे तथा यज्ञक्रियासु च

॥४३॥

वास्तुपूजाग्रहशांत्योः प्राप्ते चैव महोत्सवे ॥

यत्किंचित्कुरुते दानं द्रव्यं वा धान्यमुत्तमम्

॥४४॥

वस्त्रं वा धेनवो नाथ हेम रूप्यं तथैव च ॥

विप्राणामथ शूद्राणां दीनानाथांधकेषु च

॥४५॥

प्रथमं बकुलार्कस्य श्रीमातुश्चैव मानवः ॥

भागं दद्याच्च निर्विघ्नकार्यसिद्ध्यै निरन्तरम्

॥४६॥

वचनं मे समुल्लंघ्य कुरुते योऽन्यथा नरः ॥

तस्य तत्कर्मणो विघ्नं भविष्यति न संशयः

॥४७॥

एवमुक्त्वा ततो रामः प्रहृष्टेनांतरात्मना ॥

देवानामथ वापीश्च प्राकारांस्तु सुशोभनान्

॥४८॥

दुर्गोपकरणैर्युक्तान्प्रतोलीश्च सुविस्तृताः ॥

निर्ममे चैव कुंडानि सरांसि सरसीस्तथा

॥४९॥

धर्मवापीश्च कूपांश्च तथान्यान्देवनिर्मितान् ॥

एतत्सर्वं च विस्तार्य धर्मारण्ये मनोरमे

॥५०॥

ददौ त्रैविद्यमुख्येभ्यः श्रद्धया परया पुनः ॥

ताम्रपट्टस्थितं रामशासनं लोपयेत्तु यः

॥५१॥

पूर्वजास्तस्य नरके पतंत्यग्रे न संततिः ॥

वायुपुत्रं समाहूय ततो रामोऽब्रवीद्वचः

॥५२॥

वायुपुत्र महावीर तव पूजा भविष्यति ॥

अस्य क्षेत्रस्य रक्षायै त्वमत्र स्थितिमाचर

॥५३॥

आंजनेयस्तु तद्वाक्यं प्रणम्य शिरसादधौ ॥

जीर्णोद्धारं तदा कृत्वा कृतकृत्यो बभूव ह

॥५४॥

श्रीमातरं तदाभ्यर्च्य प्रसन्नेनांतरात्मना ॥

श्रीमातरं नमस्कृत्य तीर्थान्यन्यानि राघवः

॥५५॥

तेऽपि देवाः स्वकं स्थानं ययुर्बह्मपुरोगमाः

॥५६॥

दत्त्वाशिषं तु रामाय वांछितं ते भविष्यति ॥

रम्यं कृतं त्वया राम विप्राणां स्थापनादिकम्

॥५७॥

अस्माकमपि वात्सल्यं कृतं पुण्यवता त्वया ॥

इति स्तुवंतस्ते देवाः स्वानि स्थानानि भेजिरे

॥५८॥

इति श्रीस्कान्दे महापुराण एका शीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वार्धे धर्मारण्यमाहात्म्ये श्रीरामचन्द्रस्य पुरप्रत्यागमनवर्णनंनाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥