मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — धर्मारण्यखण्डः, अध्याय १०

3
ब्रह्मखण्डः · धर्मारण्यखण्डः · 10

वणिक्परिग्रहवर्णनम्

व्यास उवाच

शृणु राजन्यथावृत्तं धर्म्मारण्ये शुभं मतम् ॥

यदिदं कथयिष्यामि अशेषाघौघनाशनम्

॥१॥

अजेशेन तदा राजन्प्रेरितेन स्वयंभुवा ॥

कामधेनुः समाहूता कथयामास तां प्रति

॥२॥

विप्रेभ्योऽनुचरान्देहि एकैकस्मै द्विजातये ॥

द्वौ द्वौ शुद्धात्मकौ चैवं देहि मातः प्रसीद मे

॥३॥

तथेत्युक्त्वा महाधेनुः क्षीरेणोल्लेखयद्धराम् ॥

हुंकारात्तस्य निष्क्रांताः शिखासूत्रधरा नराः

॥४॥

षट्त्रिंशच्च सहस्राणि वणिजश्च महाबलाः ॥

सोपवीता महादक्षाः सर्वशास्त्रविशारदाः

॥५॥

द्विजभक्तिसमायुक्ता ब्रह्मण्यास्ते तपोन्विताः ॥

पुराणज्ञाः सदाचारा धार्मिका बह्मभोजकाः

॥६॥

स्वर्गे देवाः प्रशंसंति धर्मारण्यनिवासिनः ॥

तपोऽध्ययनदानेषु सर्वकालेप्यतींद्रियाः

॥७॥

एकैकस्मै द्विजायैव दत्तं जातु चरद्वयम् ॥

वाडवस्य च यद्गोत्रं पुरा प्रोक्तं महीपते

॥८॥

परस्परं च तद्गोत्रं तस्य चानुचरस्य च ॥

इति कृत्वा व्यवस्थां च न्यवसंस्तत्र भूमिषु

॥९॥

ततश्च शिष्यता देवैर्दत्ता चानुचरान्भुवि ॥

ब्रह्मणा कथितं सर्वं तेषामनुहिताय वै

॥१०॥

कुरुध्वं वचनं चैषां ददध्वं च यदिच्छितम् ॥

समित्पुष्पकुशादीनि आनयध्वं दिनेदिने

॥११॥

अनुज्ञयैषां वर्तध्वं मावज्ञां कुरुत क्वचित् ॥

जातकं नामकरणं तथान्नप्राशनं शुभम्

॥१२॥

क्षौरं चैवोपनयनं महानाम्न्यादिकं तथा ॥

क्रियाकर्मादिकं यच्च व्रतं दानोपवासकम्

॥१३॥

अनुज्ञयैषां कर्तव्यं काजेशा इदमबुवन् ॥

अनुज्ञया विनैषां यः कार्यमारभते यदि

॥१४॥

दर्शं वा श्राद्धकार्यं वा शुभं वा यदि वाऽशुभम् ॥

दारिद्र्यं पुत्रशोकं च कीर्तिनाशं तथैव च

॥१५॥

रोगैर्निपीड्यते नित्यं न क्वचित्सुखमाप्नुयुः ॥

तथेति च ततो देवाः शक्राद्याः सुरसत्तमाः

॥१६॥

स्तुतिं कुर्वंति ते सर्वे काम धेनोः पुरः स्थिताः ॥

कृतकृत्यास्तदा देवा ब्रह्मविष्णुमहेश्वराः

॥१७॥

त्वं माता सर्वदेवानां त्वं च यज्ञस्य कारणम् ॥

त्वं तीर्थं सर्वतीर्थानां नमस्तेऽस्तु सदानघे

॥१८॥

शशिसूर्यारुणा यस्या ललाटे वृषभध्वजः ॥

सरस्वती च हुंकारे सर्वे नागाश्च कंबले

॥१९॥

क्षुरपृष्ठे च गन्धर्वा वेदाश्चत्वार एव च ॥

मुखाग्रे सर्वतीर्थानि स्थावराणि चराणि च

॥२०॥

एवंविधैश्च बहुशो वचनैस्तोषिता च सा ॥

सुप्रसन्ना तदा धेनुः किं करोमीति चाब्रवीत्

॥२१॥

देवा ऊचुः

सृष्टाः सर्वे त्वया मातर्देव्यैतेऽनुचराः शुभाः ॥

त्वत्प्रसादान्महाभागे ब्राह्मणाः सुखिनोऽ भवन्

॥२२॥

ततोऽसौ सुरभी राजन्गता नाकं यशस्विनी ॥

ब्रह्मविष्णुमहेशाद्यास्तत्रैवांतरधुस्ततः

॥२३॥

युधिष्ठिर उवाच

अभार्यास्ते महातेजा गोजा अनुचरास्तथा ॥

उद्वाहिता कथं ब्रह्मन्त्सुतास्तेषां कदाऽभवन्

॥२४॥

व्यास उवाच

परिग्रहार्थं वे तेषां रुद्रेण च यमेन च ॥

गन्धर्वकन्या आहृत्य दारास्तत्रोपकल्पिताः

॥२५॥

युधिष्ठिर उवाच

को वा गन्धर्वराजासौ किंनामा कुत्र वा स्थितः ॥

कियन्मात्रास्तस्य कन्याः किमाचारा ब्रवीहि मे

॥२६॥

व्यास उवाच

विश्वावसुरिति ख्यातो गन्धर्वाधिपतिर्नृप ॥

षष्टिकन्यासहस्राणि आसते तस्य वेश्मनि

॥२७॥

अंतरिक्षे गृहं तस्य गधर्वनगरं शुभम् ॥

यौवनस्थाः सुरूपाश्च कन्या गन्धर्वजाः शुभाः

॥२८॥

रुद्रस्यानुचरौ राजन्नंदी भृंगी शुभाननौ ॥

पूर्वदृष्टाश्च ताः कन्याः कथयामासतुः शिवम्

॥२९॥

दृष्टाः पुरा महादेव गन्धर्वनगरे विभो ॥

विश्वावसुगृहे कन्या असंख्याताः सहस्रशः

॥३०॥

ता आनीय वलादेव गोभुजेभ्यः प्रयच्छ भो ॥

एवं श्रुत्वा ततो देवस्त्रिपुरघ्नः सदाशिवः

॥३१॥

प्रेषयामास दूतं तु विजयं नाम भारत ॥

स तत्र गत्वा यत्रास्ते विश्वावसुररिंदमः

॥३२॥

उवाच वचनं चैव पथ्यं चैव शिवेरितम् ॥

धर्मारण्ये महाभाग काजेशेन विनिर्मिताः

॥३३॥

स्थापिता वाडवास्तत्र वेदवेदांगपारगाः ॥

तेषां वै परिचर्यार्थं कामधेनुश्च प्रार्थिता

॥३४॥

तया कृताः शुभाचारा वणिजस्ते त्वयोनिजा ॥

षट्त्रिंशच्च सहस्राणि कुमारास्ते महाबलाः

॥३५॥

शिवेन प्रेषितोऽहं वै त्वत्समीपमुपागतः ॥

कन्यार्थं हि महाभाग देहिदेहीत्युवाच ह

॥३६॥

गन्धर्व उवाच

देवानां चैव सर्वेषां गन्धर्वाणां महामते ॥

परित्यज्य कथं लोके मानुषाणां ददामि वै

॥३७॥

श्रुत्वा तु वचनं तस्य निवृत्तो विजयस्तदा ॥

कथयामास तत्सर्वं गन्धर्व चरितं महत्

॥३८॥

व्यास उवाच

ततः कोपसमाविष्टो भगवाँल्लोकशंकरः ॥

वृषभे च समारूढः शूलहस्तः सदाशिवः

॥३९॥

भूतप्रेतपिशाचाद्यैः सहस्रैरावृतः प्रभुः ॥

ततो देवास्तथा नागा भूतवेतालखेचराः

॥४०॥

क्रोधेन महताविष्टाः समाजग्मुः सहस्रशः ॥

हाहाकारो महानासीत्तस्मिन्सैन्ये विसर्पति

॥४१॥

प्रकंपिता धरादेवी दिशापाला भयातुराः ॥

घोरा वातास्तदाऽशांताः शब्दं कुर्वंति दिग्गजाः

॥४२॥

व्यास उवाच

तदागतं महासैन्यं दृष्ट्वा भयविलोलितम् ॥

गन्धर्वनगरात्सर्वे विनेशुस्ते दिशो दश

॥४३॥

गन्धर्वराजो नगरं त्यक्त्वा मेरुं गतो नृप ॥

ताः कन्या यौवनोपेता रूपौदार्यसमन्विताः

॥४४॥

गृहीत्वा प्रददौ सर्वा वणिग्भ्यश्च तदा नृप ॥

वेदोक्तेन विधानेन तथा वै देवसन्निधौ

॥४५॥

आज्यभागं तदा दत्त्वा गन्धर्वाय गवात्मजाः ॥

देवानां पूर्वजानां च सूर्याचंद्रमसोस्तथा

॥४६॥

यमाय मृत्यवे चैव आज्यभागं तदा ददुः ॥

दत्त्वाज्यभागान्विधिवद्वव्रिरे ते शुभव्रताः

॥४७॥

ततः प्रभृति गान्धर्वविवाहे समुपस्थिते ॥

आज्यभागं प्रगृह्णन्ति अद्यापि सर्वतो भृशम्

॥४८॥

षट्त्रिंशच्च सहस्राणि कुमारा यन्न्यवेदयन् ॥

तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥

अत एव हि ताः सर्वा दासत्वे हि विनिर्मिताः ॥

३ क्षत्रियाश्च महावीरा किंकरत्वे हि निर्मिताः

॥५०॥

ततो देवाऽस्तदा राजञ्जग्मुः सर्वे यथातथा ॥

गते देवे द्विजाः सर्वे स्थानेऽस्मिन्निवसंति ते

॥५१॥

पुत्रपौत्रयुता राजन्निवसंत्यकुतोभयाः ॥

पठंति वेदान्वेदज्ञाः क्वचिच्छास्त्रार्थमुद्गिरन्

॥५२॥

केचिद्विष्णुं जपंतीह शिवं केचिज्जपंति हि ॥

ब्रह्माणं च जपंत्येके यमसूक्तं हि केचन ॥

यजंति याजकाश्चैव अग्निहोत्रमुपासते ॥

स्वाहाकारस्वधाकारवषट्कारैश्च सुव्रत

॥५४॥

शब्दैरापूयते सर्वं त्रैलोक्यं सचराचरम् ॥

वणिजश्च महादक्षा द्विजशुश्रूणोत्सुकाः

॥५५॥

धर्मारण्ये शुभे दिव्ये ते वसंति सुनिष्ठिताः ॥

अन्नपानादिकं सर्वं समित्कुशफलादिकम्

॥५६॥

आपूरयन्द्विजातीनां वणिजस्ते गवात्मजाः

॥५७॥

पुष्पोपहारनिचयं स्नानवस्त्रादिधावनम् ॥

उपलादिकनिर्माणं मार्जनादिशुभक्रियाः

॥५८॥

वणिक्स्त्रियः प्रकुर्वंति कंडनं पेषणादिकम् ॥

शुश्रूषंति च तान्विप्रान्काजेशवचनेन हि

॥५९॥

स्वस्था जातास्तदा सर्वे द्विजा हर्षपरायणाः ॥

काजेशादीनुपासंते दिवारात्रौ हि संध्ययोः

॥६०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मार ण्यमाहात्म्ये वणिक्परिग्रहवर्णनंनाम दशमोऽध्यायः ॥ १० ॥