मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — धर्मारण्यखण्डः, अध्याय १५

3
ब्रह्मखण्डः · धर्मारण्यखण्डः · 15

हयग्रीवस्याख्यानवर्णनम्

व्यास उवाच

न पश्यंति तदा शीर्षं ब्रह्माद्यास्तु सुरास्तदा ॥

किं कुर्म इति हेत्युक्त्वा ज्ञानिनस्ते व्यचिन्तयन्

॥१॥

उवाच विश्वकर्माणं तदा ब्रह्मा सुरान्वितः

॥२॥

ब्रह्मोवाच

विश्वकर्मस्त्वमेवासि कार्यकर्ता सदा विभो ॥

शीघ्रमेव कुरु त्वं वै वक्त्रं सांद्रं च धन्विनः

॥३॥

नमस्कृत्य तदा तस्मै स्तुतोऽसौ देववर्द्धकिः ॥

उवाच परया भक्त्या ब्रह्माणं कमलोद्भवम्

॥३॥

यज्ञकार्यं निवृत्याशु वदंति विविधाः सुराः

॥४॥

यज्ञभागविहीनं मां किं पुनर्वच्मि ते ऽग्रतः ॥

यज्ञभागमहं देव लभेयैवं सुरैः सह

॥५॥

ब्रह्मोवाच

दास्यामि सर्वयज्ञेषु विभागं सुरवर्द्धके ॥

सोमे त्वं प्रथमं वीर पूज्यसे श्रुतिकोविदैः

॥६॥

तद्विष्णोश्च शिरस्तावत्संधत्स्वामरवर्द्धक ॥

विश्वकर्माब्रवीद्देवानानयध्वं शिरस्त्विति

॥७॥

तन्नास्तीति सुराः सर्वे वदंति नृपसत्तम ॥

मध्याह्ने तु समुद्भूते रथस्थो दिवि चांशुमान्

॥८॥

दृष्टं तदा सुरैः सर्वै रथादश्वमथानयन् ॥

छित्त्वा शीर्षं महीपाल कबंधाद्वाजिनो हरेः

॥९॥

कबंधे योजयामास विश्वकर्मातिचातुरः ॥

दृष्ट्वा तं देवदेवेशं सुराः स्तुतिमकुर्वत

॥१०॥

देवा ऊचुः

नमस्तेऽस्तु जगद्बीज नमस्ते कमलापते ॥

नमस्तेऽस्तु सुरेशान नमस्ते कमलेक्षण

॥११॥

त्वं स्थितिः सर्वभूतानां त्वमेव शरणं सताम् ॥

त्वं हंता सर्वदुष्टानां हयग्रीव नमोऽस्तु ते

॥१२॥

त्वमोंकारो वषट्कारः स्वाहा स्वधा चतुर्विधा ॥

आद्यस्त्वं च सुरेशान त्वमेव शरणं सदा

॥१३॥

यज्ञो यज्ञपतिर्यज्वा द्रव्यं होता हुतस्तथा ॥

त्वदर्थं हूयते देव त्वमेव शरणं सखा

॥१४॥

कालः करालरूपस्त्वं त्वं वार्क्कः शीतदीधितिः ॥

त्वमग्निर्वरुणश्चैव त्वं च कालक्षयंकरः

॥१५॥

गुणत्रयं त्वमेवेह गुणहीनस्त्वमेव हि ॥

गुणानामालयस्त्वं च गोप्ता सर्वेषु जंतुषु

॥१६॥

स्त्रीपुंसोश्च द्विधा त्वं च पशुपक्ष्यादिमानवैः ॥

चतुर्विधं कुलं त्वं हि चतुराशीतिलक्षणः

॥१७॥

दिनांतश्चैव पक्षांतो मासांतो हायनं युगम् ॥

कल्पांतश्च महांतश्च कालांतस्त्वं च वै हरे

॥१८॥

एवंविधैर्महादिव्यैः स्तूयमानः सुरैर्नृप ॥

संतुष्टः प्राह सर्वेषां देवानां पुरतः प्रभुः

॥१९॥

श्रीभगवानुवाच

किमर्थमिह संप्राप्ताः सर्वे देवगणा भुवि ॥

किमेतत्कारणं देवाः कि नु दैत्यप्रपीडिताः

॥२०॥

देवा ऊचुः

न दैत्यस्य भयं जातं यज्ञ कर्मोत्सुका वयम् ॥

त्वद्दर्शनपराः सर्वे पश्यामो वै दिशो दश

॥२१॥

त्वन्मायामोहिताः सर्वे व्यग्रचित्ता भयातुराः ॥

योगारूढस्वरूपं च दृष्टं तेऽस्माभिरुत्तमम्

॥२२॥

वम्री च नोदितास्माभिर्जागराय तवेश्वर ॥

ततश्चापूर्वमभवच्छिरश्छिन्नं बभूव ते

॥२३॥

सूर्याश्वशीर्षमानीय विश्व कर्मातिचातुरः ॥

समधत्त शिरो विष्णो हयग्रीवोऽस्यतः प्रभो

॥२४॥

विष्णुरुवाच

तुष्टोऽहं नाकिनः सर्वे ददाम्रि वरमीप्सितम् ॥

हयग्रीवोऽस्म्यहं जातो देवदेवो जगत्पतिः

॥२५॥

न रौद्रं न विरूपं च सुरैरपि च सेवितम् ॥

जातोऽहं वरदो देवा हयाननेति तोषितः

॥२६॥

व्यास उवाच

कृते सत्रे ततो वेधा धीमान्सन्तुष्टचेतसा ॥

यज्ञभागं ततो दत्त्वा वम्रीभ्यो विश्वकर्मणे

॥२७॥

यज्ञांते च सुरश्रेष्ठं नमस्कृत्य दिवं ययौ ॥

एतच्च कारणं विद्धि हयाननो यतो हरिः

॥२८॥

युधिष्ठिर उवाच

येनाक्रांता मही सर्वा क्रमेणैकेन तत्त्वतः ॥

विवरे विवरे रोम्णां वर्तंते च पृथक्पृथक्

॥२९॥

ब्रह्मांडानि सहस्राणि दृश्यंते च महाद्युते ॥

न वेत्ति वेदो यत्पारं शीर्षघातो हि वै कथम्

॥३०॥

व्यास उवाच

शृणु त्वं पांडवश्रेष्ठ कथां पौराणिकीं शुभाम् ॥

ईश्वरस्य चरित्रं हि नैव वेत्ति चराचरे

॥३१॥

एकदा ब्रह्मसभायां गता देवाः सवासवाः ॥

भूर्लोकाद्याश्च सर्वे हि स्थावराणि चराणि च

॥३२॥

देवा ब्रह्मर्षयः सर्वे नमस्कर्तुं पितामहम् ॥

विष्णुरप्यागतस्तत्र सभायां मंत्रकारणात्

॥३३॥

ब्रह्मा चापि विगर्विष्ठ उवाचेदं वचस्तदा ॥

भोभो देवाः शृणुध्वं कस्त्रयाणां कारणं महत्

॥३४॥

सत्यं ब्रुवंतु वै देवा ब्रह्मेशविष्णुमध्यतः ॥

तां वाचं च समाकर्ण्य देवा विस्मयमागताः

॥३५॥

ऊचुश्चैव ततो देवा न जानीमो वयं सुराः ॥

ब्रह्मपत्नी तदोवाच विष्णुं प्रति सुरेश्वरम् ॥

त्रयाणामपि देवानां महांतं च वदस्व मे

॥३६॥

विष्णुरुवाच

विष्णुमायाबलेनैव मोहितं भुवनत्रयम् ॥

ततो ब्रह्मोवाच चेदं न त्वं जानासि भो विभोः

॥३७॥

नैव मुह्यति ते मायाबलेन नैवमेव च ॥

गर्वहिंसापरो देवो जगद्भर्ता जगत्प्रभुः

॥३८॥

ज्येष्ठं त्वां न विदुः सर्वे विष्णुमायावृताः खिलाः ॥

ततो ब्रह्मा स रोषेण क्रुद्धः प्रस्फुरिताननः

॥३९॥

उवाच वचनं कोपाद्धे विष्णो शृणु मे वचः ॥

येन वक्त्रेण सभायां वचनं समुदीरितम्

॥४०॥

तच्छीर्षं पततादाशु चाल्पकालेन वै पुनः ॥

ततो हाहाकृतं सर्वं सेंद्राः सर्षिपुरोगमाः

॥४१॥

ब्रह्माणं क्षमयामासुर्विष्णुं प्रति सुरोत्तमाः ॥

विष्णुश्च तद्वचः श्रुत्वा सत्यंसत्यं भविष्यति

॥४२॥

ततो विष्णुर्महातेजास्तीर्थस्योत्पादनेन च ॥

तपस्तेपे तु वै तत्र धर्मारण्ये सुरेश्वरः ॥

अश्वशीर्ष मुखं दृष्ट्वा हयग्रीवो जनार्द्दनः

॥४३॥

तपस्तेपे महाभाग विधिना सह भारत ॥

न शक्यं केनचित्कर्त्तुमात्मनात्मैव तुष्टवान्

॥४४॥

ब्रह्मापि तपसा युक्तस्तेपे वर्षशतत्रयम् ॥

तिष्ठन्नेव पुरो विष्णोर्विष्णुमायाविमोहितः

॥४५॥

यज्ञार्थमवदत्तुष्टो देवदेवो जगत्पतिः ॥

ब्रह्मंस्ते मुक्तताद्यास्ति मम मायाप्यदुःसहा

॥४६॥

ततो लब्धवरो ब्रह्मा हृष्टचित्तो जनार्द्दनः ॥

उवाच मधुरां वाचं सर्वेषां हितकारणात्

॥४७॥

अत्राभवन्महाक्षेत्रं पुण्यं पापप्रणाशनम् ॥

विधिविष्णुमयं चैतद्भवत्वेतन्न संशयः

॥४८॥

तीर्थस्य महिमा राजन्हयशीर्षस्तदा हरिः ॥

शुभाननो हि संजातः पूर्वेणैवा ननेन तु

॥४९॥

कंदर्पकोटिलावण्यो जातः कृष्णस्तदा नृप ॥

ब्रह्मापि तपसा युक्तो दिव्यं वर्षशतत्रयम्

॥५०॥

सावित्र्या च कृतं यत्र विष्णुमाया न बाधते ॥

मायया तु कृतं शीर्षं पंचमं शार्दुलस्य वा

॥५१॥

धर्मारण्ये कृतं रम्यं हरेण च्छेदितं पुरा ॥

तस्मै दत्त्वा वरं विष्णुर्जगामादर्शनं ततः

॥५२॥

स्थापयित्वा विधिस्तत्र तीर्थं चैव त्रिलोचनम् ॥

मुक्तेशं नाम देवस्य मोक्षतीर्थमरिंदम

॥५३॥

गतः सोऽपि सुरश्रेष्ठः स्वस्थानं सुरसेवितम् ॥

तत्र प्रेता दिवं यांति तर्पणेन प्रतर्पिताः

॥५४॥

अश्वमेधफलं स्नाने पाने गोदानजं फलम् ॥

पुष्कराद्यानि तीर्थानि गंगाद्याः सरितस्तथा

॥५५॥

स्नानार्थमत्रागच्छंति देवताः पितरस्तथा ॥

कार्त्तिक्यां कृत्तिकायोगे मुक्तेशं पूजयेत्तु यः

॥५६॥

स्नात्वा देवसरे रम्ये नत्वा देवं जनार्द्दनम् ॥

यः करोति नरो भक्त्या सर्वपापैः प्रमुच्यते

॥५७॥

भुक्त्वा भोगा न्यथाकामं विष्णुलोकं स गच्छति ॥

अपुत्रा काकवंध्या च मृतवत्सा मृतप्रजा

॥५८॥

एकांबरेण सुस्नातौ पतिपत्न्यौ यथाविधि ॥

तद्दोषं नाशयेन्नूनं प्रजाप्तिप्रतिबन्धकम्

॥५९॥

मोक्षेश्वरप्रसादेन पुत्रपौत्रादि वर्द्धयेत् ॥

दद्याद्वैकेन चित्तेन फलानि सत्यसंयुता

॥६०॥

निधाय वंशपात्रेऽपि नारी दोषात्प्रमुच्यते ॥

प्राप्नुवंति च देवाश्च अग्निष्टोमफलं नृप

॥६१॥

वेधा हरिर्हरश्चैव तप्यंते परमं तपः ॥

धर्मारण्ये त्रिसंध्यं च स्नात्वा देवसरस्यथ

॥६२॥

तत्र मोक्षेश्वरः शंभुः स्थापितो वै ततः सुरैः ॥

तत्र सांगं जपं कृत्वा न भूयः स्तनपो भवेत्

॥६३॥

एवं क्षेत्रं महाराज प्रसिद्धं भुवनत्रये ॥

यस्तत्र कुरुते श्राद्धं पितॄणां श्रद्धयान्वितः

॥६४॥

उद्धरेत्सप्त गोत्राणि कुलमेकोत्तरं शतम् ॥

देवसरो महारम्यं नानापुष्पैः समन्वितम् ॥

श्यामं सकलकल्हारैर्विविधैर्जलजंतुभिः

॥६५॥

ब्रह्मविष्णुमहेशाद्यैः सेवितं सुरमानुषैः ॥

सिद्धैर्यक्षैश्च मुनिभिः सेवितं सर्वतः शुभम्

॥६६॥

युधिष्ठिर उवाच

कीदृशं तत्सरः ख्यातं तस्मि न्स्थाने द्विजोत्तम ॥

तस्य रूपं प्रकारं च कथयस्व यथातथम्

॥६७॥

व्यास उवाच

साधुसाधु महाप्राज्ञ धर्मपुत्र युधिष्ठिर ॥

यस्य संकीर्तनान्नूनं सर्वपापैः प्रमुच्यते

॥६८॥

अतिस्वछतरं शीतं गंगोदकसमप्रभम् ॥

पवित्रं मधुरं स्वादु जलं तस्य नृपोत्तम

॥६९॥

महाविशालं गंभीरं देवखातं मनोरमम् ॥

लहर्यादिभिर्गंभीरः फेनावर्तसमाकुलम्

॥७०॥

झषमंडूककमठैर्मकरैश्च समाकुलम् ॥

शंखशुक्त्यादि भिर्युक्तं राजहंसैः सुशोभितम्

॥७१॥

वटप्लक्षैः समायुक्तमश्वत्थाम्रैश्च वेष्टितम् ॥

चक्रवाकसमोपतं बकसारसटिट्टिभैः

॥७२॥

कमनीय प्रगन्धाच्छच्छत्रपत्रैः सुशोभितम् ॥

सेव्यमानं द्विजैः सर्वैः सारसाद्यैः सुशोभितम्

॥७३॥

सदेवैर्मुनिभिश्चैव विप्रैर्मत्यैश्च भूमिप ॥

सेवितं दुःखहं चैव सर्वपापप्रणाशनम्

॥७४॥

अनादिनिधनोदंतं सेवितं सिद्धमंडलैः ॥

स्नानादिभिः सर्वदैव तत्सरो नृपसत्तम

॥७५॥

विधिना कुरुते यस्तु नीलोत्सर्गं च तत्तटे ॥

प्रेता नैव कुले तस्य यावदिंद्राश्चतुर्दश

॥७६॥

कन्यादानं च ये कुर्युर्विधिना तत्र भूपते ॥

ते तिष्ठन्ति ब्रह्मलोके यावदाभूतसंप्लवम्

॥७७॥

महिषीं गृहदासीं च सुरभीं सुतसंयुताम् ॥

हेम विद्यां तथा भूमिं रथांश्च गजवाससी

॥७८॥

ददाति श्रद्धया तत्र सोऽक्षयं स्वर्गमश्नुते ॥

देवखातस्य माहात्म्यं यः पठेच्छिवसन्निधौ ॥

दीर्घमायुस्तथा सौख्यं लभते नात्र संशयः

॥७९॥

यः शृणोति नरो भक्त्या नारी वा त्विदमद्भुतम् ॥

कुले तस्य भवेच्छ्रेयः कल्पांतेऽपि युधिष्ठिर

॥८०॥

एतत्सर्वं मयाख्यातं हयग्रीवस्य कारणम् ॥

प्रभास्तस्य तीर्थस्य सर्वपापायनुत्तये

॥८१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्य माहात्म्ये हयग्रीवस्याख्यानवर्णनंनाम पञ्चदशोऽध्यायः ॥ १५ ॥