मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — धर्मारण्यखण्डः, अध्याय २२

3
ब्रह्मखण्डः · धर्मारण्यखण्डः · 22

देवतास्थापनम्

युधिष्ठिर उवाच

स्थानवासिन्यो योगिन्यः काजेशेन विनिर्मिताः ॥

कस्मिन्स्थाने हि का देव्यः कीदृश्यस्ता वदस्व मे

॥१॥

व्यास उवाच

सर्वज्ञोसि कुलीनोसि साधु पृष्टं त्वयानघ ॥

कथयिष्याम्यहं सर्वमखिलेन युधिष्ठिर

॥२॥

नानाभरणभूषाढ्या नानारत्नोपशोभिताः ॥

नानावसनसंवीता नानायुवसमन्विताः

॥३॥

नानावाहनसंयुक्ता नानास्वरनिनादिनीः ॥

भयनाशाय विप्राणां काजेशेन विनिर्मिताः

॥४॥

प्राच्यां याम्यामुदीच्यां च प्रतीच्यां स्थापिता हि ताः ॥

आग्नेया नैर्ऋते देशे वायव्येशानयोस्तथा

॥५॥

आशापुरी च गात्राई छत्राई ज्ञानजा तथा ॥

पिप्पलांबा तथा शांता सिद्धा भट्टारिका तथा

॥६॥

कदंबा विकटा मीठा सुपर्णा वसुजा तथा ॥

मातंगी च महादेवी वाराही मुकुटेश्वरी

॥७॥

भद्रा चैव महाशक्तिः सिंहारा च महाबला ॥

एताश्चान्याश्च बहवः कथितुं नैव शक्यते

॥८॥

नानारूपधरा देव्यो नानावेषसमाश्रिताः ॥

स्थानादुत्तरदिग्भागे आशापूर्णासमीपतः

॥९॥

पूर्वे तु विद्यते देवी आनंदानंददायिनी ॥

वसंती चोत्तरे देव्यो नानारूपधरा मुदा

॥१०॥

इष्टान्कामान्ददात्येता जलदानेन तर्पिताः ॥

स्थाने नैर्ऋतिदिग्भागे शांता शांतिप्रदायिनी

॥११॥

सिंहोपरि समासीना चतुर्हस्ता वरप्रदा ॥

भट्टारी च महाशक्तिः पुनस्तत्रैव तिष्ठति

॥१२॥

संस्तुता पूजिता भक्त्या भक्तानां भयनाशिनी ॥

स्थानात्तु सप्तमे क्रोशे क्षेमलाभा व्यव स्थिता

॥१३॥

सा विलेपमयी पूज्या चिंतिता सिद्धिदायिनी ॥

पूर्वस्यां दिशि लोकैस्तु बलिदानेन तर्पिता ॥

परिवारेण संयुक्ता भुक्तिमुक्ति प्रदायिनी

॥१४॥

अचिंत्यरूपचरिता सर्वशत्रुविनाशनी ॥

संध्यायास्त्रिषु कालेषु प्रत्यक्षैव हि दृश्यते

॥१५॥

स्थानात्तु सप्तमे क्रोशे दक्षिणा विन्ध्यवासिनी ॥

सायुधा रूपसंपन्ना भक्तानां भयहारिणी

॥१६॥

पश्चिमे निंबजा देवी तावद्भूमिसमाश्रिता ॥

महाबला सा दृष्टापि नयनानन्द दायिनी

॥१७॥

स्थानादुत्तरदिग्भागे तावद्भूमिसमाश्रिता ॥

शक्तिर्बहुसुवर्णाक्षा पूजिता सासुवर्णदा

॥१८॥

स्थानाद्वायव्यकोणे च क्रोशमात्र मिते श्रिता ॥

क्षेत्रधरा महादेवी समये च्छागधारिणी

॥१९॥

पुरादुत्तरदिग्भागे क्रोशमात्रे तु कर्णिका ॥

सर्वोपकारनिरता स्थानोपद्रवनाशनी

॥२०॥

स्थानान्निर्ऋतिदिग्भागे ब्रह्माणीप्रमुखास्तथा ॥

नानारूपधरा देव्यो विद्यंते जलमातरः

॥२१॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये देवतास्थापनंनाम द्वाविंशोऽध्यायः ॥ २२ ॥