आनंदास्थापनवर्णनम्
युधिष्ठिर उवाच
रक्षसां चैव दैत्यानां यक्षणामथ पक्षिणाम् ॥
भयनाशाय काजेशैर्धर्मारण्यनिवासिनाम्
॥१॥शक्तीः संस्थापिता नृनं नानारूपा ह्यनेकशः ॥
तासां स्थानानि नामा नि यथारूपाणि मे वद
॥२॥व्यास उवाच
शृणु पार्थ महाबाहो धर्ममूर्ते नृपोत्तम ॥
स्थाने वै स्थापिता शक्तिः काजेशैश्चैव गोत्रपा
॥३॥श्रीमाता मदारिकायां शांता नंदापुरे वरे ॥
रक्षार्थं द्विजमुख्यानां चतुर्दिक्षु स्थिताश्च ताः
॥४॥युक्ताश्चैव सुरैः सर्वैः स्वस्वस्थाने नृपोत्तम ॥
वनमध्ये स्थिताः सर्वा द्विजानां रक्षणाय वै
॥५॥सा बभूव महाराज सावित्रीति प्रथा शिवा ॥
असुराणां वधार्थाय ज्ञानजा स्थापिता सुरैः
॥६॥गात्रायी? पक्षिणी देवी छत्रजा द्वारवासिनी ॥
शीहोरी चूटसंज्ञा या पिप्पलाशापुरी तथा ॥
अन्याश्च बहवश्चैव स्थापिता भयरक्षणे
॥७॥प्रतीच्योदीच्यां याम्यां वै विबुधैः स्थापिता हि सा ॥
नानायुधधरा सा च नानाभरणभूषिता
॥८॥नानावाहनमारूढा नानारूपधरा च सा ॥
नानाकोपसमायुक्ता नानाभयविना शिनी
॥९॥स्थाप्या मातर्यथास्थाने यथायोग्या दिशोदिश ॥
गरुडेन समारूढा त्रिशूलवरधारिणी
॥१०॥सिंहारूढा शुद्धरूपा वारुणी पानदर्पिता ॥
खड्गखेटकबाणाढ्यैः करैर्भाति शुभानना
॥११॥रक्तवस्त्रावृता चैव पीनोन्नतपयोधरा ॥
उद्यदादित्यबिंबाभा मदाघूर्णितलोचना
॥१२॥एवमेषा महादिव्या काजेशैः स्थापिता तदा ॥
रक्षार्थं सर्वजंतूनां सत्यमंदिरवासिनाम्
॥१३॥सा देवी नृपशार्दूल स्तुता संपूजिता सह ॥
ददाति सकलान्कामान्वांछितान्नृपमत्तम
॥१४॥धर्मारण्यात्पश्चिमतः स्थापिता छत्रजा शुभा ॥
तत्रस्था रक्षते विप्रान्कियच्छक्तिसम न्विता
॥१५॥भैरवं रूपमास्थाय राक्षसानां वधाय च ॥
धारयंत्यायुधानीत्थं विप्राणामभयाय च
॥१६॥सरश्चकार तस्याग्रे उत्तमं जल पूरितम् ॥
सरस्यस्मिन्महाभाग कृत्वा स्नानादितर्पणम्
॥१७॥पिंडदानादिकं सर्वमक्षयं चैव जायते ॥
भूमौ क्षिप्तांजलीन्दिव्यान्धूपदीपादिकं सदा
॥१८॥तस्य नो बाधते व्याधिः शत्रूणां नाश एव च ॥
बलिदानादिकं तत्र कुर्याद्भूयः स्वशक्तितः
॥१९॥शत्रवो नाशमायांति धनं धान्यं विवर्धते ॥
आनंदा स्थापिता राजञ्छक्त्यंशा च मनोरमा
॥२०॥रक्षणार्थं द्विजातीनां माहात्म्यं शृणु भूपते ॥
शुक्लांबरधरा दिव्या हेमभूषणभूषिता
॥२१॥सिंहारूढा चतुर्हस्ता शशांककृतशेखरा ॥
मुक्ताहारलतोपेता पीतोन्नतपयोधरा
॥२२॥अक्षमालासिहस्ता च गुण तोमरधारिणी ॥
दिव्यगंधवराधारा दिव्यमालाविभूषिता
॥२३॥सात्त्विकी शक्तिरानंदा स्थिता तस्मिन्पुरे पुरा ॥
पूजयेत्तां च वै राजन्कर्पूरारक्त चंदनैः
॥२४॥भोजयेत्पायसैः शुभ्रैर्मध्वाज्यसितया सह ॥
भवान्याः प्रीतये राजन्कुमार्याः पूजनं तथा
॥२५॥तत्र जप्तं हुतं दत्तं ध्यातं च नृपसत्तम ॥
तत्सर्वं चाक्षयं तत्र जायते नात्र संशयः
॥२६॥त्रिगुणे त्रिगुणा वृद्धिस्तस्मिन्स्थाने नृपोत्तम ॥
साधकस्य भवेन्नूनं धनदारादिसं पदः
॥२७॥न हानिर्न च रोगश्च न शत्रुर्न च दुष्कृतम् ॥
गावस्तस्य विवर्द्धंते धनधान्यादिसंकुलम्
॥२८॥न शाकिन्या भयं तस्य न च राज्ञश्च वैरिणः ॥
न च व्याधिभयं चैव सर्वत्र विजयी भवेत्
॥२९॥विद्याश्चतुर्द्दशास्यैव भासंते पठिता इव ॥
सूर्यवद्द्योतते भूमावानंदमा श्रितो नरः
॥३०॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वार्धे धर्मारण्यमाहात्म्य आनंदास्थापनवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥