गणेशप्रस्थापनावर्णनम्
व्यास उवाच
ततो देवैर्नृपश्रेष्ठ रक्षार्थं सत्यमंदिरम् ॥
स्थापितं तत्तदाद्यैव सत्याभिख्या हि सा पुरी
॥१॥पूर्वं धर्मेश्वरो देवो दक्षिणेन गणाधिपः ॥
पश्चिमे स्थापितो भानुरुत्तरे च स्वयंभुवः
॥२॥युधिष्ठिर उवाच
गणेशः स्थापितः केन कस्मात्स्थापितवानसौ ॥
किं नामासौ महाभाग तन्मे कथय मा चिरम्
॥३॥व्यास उवाच
अधुनाहं प्रवक्ष्यामि गणेशोत्पत्तिकारणम्
॥४॥समये मिलिताः सर्वे देवता मातरस्तथा ॥
धर्मारण्ये महाराज स्थापितश्चंडिकासुतः
॥५॥आदौ देवैर्नृपश्रेष्ठ भूमौ वै सत्ययोषिताम् ॥
प्राकारश्चाभवत्तत्र पताकाध्वजशोभितः
॥६॥ब्राह्मणायतने तत्र प्राकारमण्डलान्तरे ॥
तन्मध्ये रचितं पीठमिष्टकाभिः सुशोभितम्
॥७॥प्रतोल्यश्च चतस्रो वै शुद्धा एव सतोरणाः ॥
पूर्वे धर्मेश्वरो देवो दक्षिणे गणनायकः
॥८॥पश्चिमे स्थापितो भानुरुत्तरे च स्वयंभुवः ॥
धर्मेश्वरोत्पत्तिवृत्तमाख्यातं तत्तवाग्रतः
॥९॥अधुनाहं प्रवक्ष्यामि गणेशोत्पत्तिहेतुकम् ॥
कदाचित्पार्वती गात्रोद्वर्त्तनं कृतवत्यभूत्
॥१०॥मलं तज्जनितं दृष्ट्वा हस्ते धृत्वा स्वगात्रजम् ॥
प्रतिमां च ततः कृत्वा सुरूपं च ददर्श ह
॥११॥जीवं तस्यां च संचार्य उदतिष्ठत्तदग्रतः ॥
मातरं स तदोवाच कि करोमि तवाज्ञया
॥१२॥पार्वत्युवाच
यावत्स्नानं करिष्यामि तावत्त्वं द्वारि तिष्ठ मे ॥
आयुधानि च सर्वाणि परश्वादीनि यानि तु
॥१३॥त्वयि तिष्ठति मद्द्वारे कोऽपि विघ्नं करोतु न ॥
एवमुक्तो महादेव्या द्वारेऽतिष्ठत्स सायुधः
॥१४॥एतस्मिन्नंतरे देवो महादेवो जगाम ह ॥
आभ्यंतरे प्रवेष्टुं च मतिं दध्रे महेश्वरः
॥१९॥द्वारस्थेन गणेशेन प्रवेशोदायि तस्य न ॥
ततः क्रुद्धो महादेवः परस्परमयुध्यत
॥१६॥युद्धं कृत्वा ततश्चोभौ परस्परवधैषिणौ ॥
परशुं जघ्निवान्देव ललाटे परमे शुभम्
॥१७॥ततो देवो महादेवः शूलमुद्यम्य चाहनत् ॥
शिरश्चिच्छेद शूलेन तद्भूमौ निपपात ह
॥१८॥तं दृष्ट्वा पतितं पुत्रं पार्वती प्ररुरोद ह ॥
हाहाकारो महानासीत्तदा तत्र निपातिते
॥१९॥पार्वतीं विकलां दृष्ट्वा देवदेवो महेश्वरः ॥
चिंतयामास देवोऽपि किं कृतं वा मुधा मया
॥२०॥एतस्मिन्नंतरे तत्र गजासुरमपश्यत ॥
तं दृष्ट्वा च महादैत्यं सर्वलोकैकपूजितः
॥२१॥जघ्निवांस्तच्छिरो गृह्य पार्वत्या कृतमर्भकम् ॥
उत्तस्थौ सगणस्तत्र महादेवस्य सन्निधौ
॥२२॥ततो नाम चकारास्य गजानन इति स्फुटम् ॥
सुराः सर्वे च संपृक्ता हर्षिता मुनयस्तथा
॥२३॥स्तुवंति स्तुतिभिः शश्वत्कुटुम्बकुशलंकरम् ॥
विक्रीणाति कुटुम्बं यो मोदकार्थं समर्चके
॥२४॥दक्षिणस्यां प्रतोल्यां तमेकदंतं च पीवरम् ॥
आर्चयच्च महादेवं स्वयंभूः सुरपूजितम्
॥२५॥जटिलं वामनं चैव नागयज्ञोपवीतकम् ॥
त्र्यक्षं चैव महाकायं करध्वजकुठारकम्
॥२६॥दधानं कमलं हस्ते सर्वविप्रविनाशनम् ॥
रक्षणाय च लोकानां नगराद्दक्षिणाश्रितम्
॥२७॥सुप्रसन्नं गणाध्यक्षं सिद्धिबुद्धिनमस्कृतम् ॥
सिंदूराभं सुरश्रेष्ठं तीव्रांकुशधरं शुभम्
॥२८॥शतपुष्पैः शुभैः पुष्पैरर्चितं ह्यमराधिपः ॥
प्रणम्य च महाभक्त्या तुष्टुवु स्तं सुरास्ततः
॥२९॥देवा ऊचुः
नमस्तेस्तु सुरेशाय गणानां पतये नमः ॥
गजानन नमस्तुभ्यं महादेवाधिदैवत
॥३०॥भक्तिप्रियाय देवाय गणाध्यक्ष नमोस्तु ते ॥
इत्येतैश्च शुभैः स्तोत्रैः स्तूयमानो गणाधिपः ॥
सुप्रीतश्च गणाध्यक्षः तदाऽसौ वाक्यमब्रवीत्
॥३१॥गणाध्यक्ष उवाच
तुष्टोऽहं वो सुरा ब्रूत वांछितं च ददामि वः
॥३२॥देवा ऊचुः
त्वमत्रस्थो महाभाग कुरु कार्यं च नः प्रभो ॥
धर्मारण्ये च विप्राणां वणिग्जननिवासिनाम्
॥३३॥ब्रह्मचर्यादियुक्तानां धार्मिकाणां गणेश्वर ॥
वर्णाश्रमेतराणां च रक्षिता भव सर्वदा
॥३४॥त्वत्प्रसादान्महाभाग धनसौख्ययुता द्विजाः ॥
भवंतु सर्वे सततं वणिजश्च महाबलाः
॥३५॥रक्षितव्यास्त्वया देव यावच्चंद्रार्कमेदिनी ॥
एवमस्त्विति सोवादीद्गणनाथो महेश्वरः
॥३६॥देवाश्च हर्षमापन्नाः पूजयंति गणाधिपम् ॥
ततो देवा मुदा युक्ताः पुष्पधूपादितर्पणैः
॥३७॥ये चान्ये मनुजा लोके निर्विघ्नार्थं च पूजयन्
॥३८॥विवाहोत्सवयज्ञेषु पूर्वमाराधितो भवेत् ॥
धर्मारण्योद्भवानां च प्रसन्नो भव सर्वदा
॥३९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां तृतीये ब्रह्मखण्डे पूर्वभागे गणेशप्रस्थापनावर्णनंनाम द्वादशोऽध्यायः ॥ १२ ॥