मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — धर्मारण्यखण्डः, अध्याय ४०

3
ब्रह्मखण्डः · धर्मारण्यखण्डः · 40

धर्मारण्यपुराणश्रवणमाहात्म्यवर्णनम्

नारद उवाच

ज्ञातिभेदे तु संजाते तस्मिन्मोहेरके पुरे ॥

त्रैविद्यैः किं कृतं ब्रह्मंस्तन्ममाचक्ष्व पृच्छतः

॥१॥

ब्रह्मोवाच

स्वस्थाने वाडवाः सर्वे हर्षनिर्भरमानसाः ॥

अग्निहोत्रपरा केऽपि केऽपि यज्ञपरायणाः

॥२॥

केऽपि चाग्निसमाधानाः केऽपि स्मार्ता निरंतरम् ॥

पुराणन्यायवेत्तारो वेदवेदांगवादिनः

॥३॥

सुखेन स्वान्सदाचारान्कुर्वन्तो ब्रह्मवादिनः ॥

एवं धर्मसमाचारान्कुर्वतां कुशलात्मनाम्

॥४॥

स्थानाचारान्कुलाचारानधिदेव्याश्च भाषितान् ॥

धर्मशास्त्रस्थितं सर्वं काजेशैरुदितं च यत्

॥५॥

परंपरागतं धर्म मूचुस्ते वाडवोत्तमाः

॥६॥

ब्राह्मणा ऊचुः

उपास्ते यश्च लिखितं रक्तपादैस्तु वाडवाः ॥

ज्ञातिश्रेष्ठः स विज्ञेयो वलिर्देयस्ततः परम्

॥७॥

रक्तचंदनं प्रसाध्याथ प्रसिद्धं स्वकुलं तथा ॥

कुंकुमारक्तपादैस्तैर्गंधपुष्पादिचर्चितैः

॥८॥

संभूय लिखितं तच्च रक्तपादं तदुच्यते ॥

रामस्य लेख्यं ते सर्वे पूजयंतु समाहिताः

॥९॥

रामस्य करमुद्रां च पूजयंतु द्विजाः सदा ॥

येषां दोषाः सदाचारे व्यभिचारादयो यदि

॥१०॥

तेषां दण्डो विधेयस्तु य उक्तो विधिवद्विजैः ॥

चिह्नं न राममुद्राया यावद्दंडं ददाति न

॥११॥

विना दण्डप्रदानेन मुद्राचिह्नं न धार्यते ॥

मुद्राहस्ताश्च विज्ञेया वाडवा नृपसत्तम

॥१२॥

पुत्रे जाते पिता दद्द्याच्छ्रीमात्रे तु बलिं सदा ॥

पलानि विंशतिः सर्प्पिर्गुडः पंचप लानि च

॥१३॥

कुंकुमादिभिरभ्यर्च्य जातमात्रः सुतस्तदा ॥

षष्ठे च दिवसे राजन्षष्ठीं पूजयते सदा

॥१४॥

दद्यात्तत्र बलिं साज्यं कुर्याद्धि बलिपंचकम् ॥

पंचप्रस्थान्बलीन्दद्यात्सवस्त्राञ्छ्रीफलैर्युतान्

॥१५॥

कुंकुमादिभिरभ्यर्च्य श्रीमात्रे भक्तिपूर्वकम् ॥

वितशाठ्यं न कुर्वीत कुले संततिवृद्धये

॥१६॥

तद्धि चार्पयता द्रव्यं वृद्धौ यद्ध्रीणितं पुनः ॥

जन्मनो नंतरं कार्यं जातकर्म यथाविधि

॥१७॥

विप्रानुकीर्तिता याश्च वृत्तिः सापि विभज्यते ॥

प्रथमा लभ्यमाना च वृत्तिर्वै यावती पुनः

॥१८॥

तस्या वृत्तेरर्द्धभागो गोत्रदेव्यै तु कल्प्यताम् ॥

द्विगुणं वणिजा चैव पुत्रं जाते भवेदिति

॥१९॥

मांडलीयाश्च ये शूद्रास्तेषामर्ककरं त्विदम् ॥

अडालजानां त्रिगुणं गोभुजानां चतुर्गुणम्

॥२०॥

इत्येतत्कथितं सर्वमन्यच्च शूद्रजातिषु ॥

यस्य दोषस्तु हत्यायाः समुद्भूतो विधेर्वशात्

॥२१॥

दण्डस्तु विधिवत्तस्य कर्त्तव्यो वेदशास्त्रिभिः ॥

अन्यायो न्यायवादी स्यान्निर्द्दोषे दोषदायकः

॥२२॥

पंक्तिभेदस्य कर्ता च गोसहस्रवधः स्मृतः ॥

वृत्तिभागविभजनं तथा न्यायविचारणम् ॥

श्रीरामदूतकस्याग्रे कर्त्तव्यमिति निश्चयः

॥२३॥

तस्य पूजां प्रकुर्वीत तदा कालेऽथवा सदा ॥

तैलेन लेपयेत्तस्य देहे वै विघ्नशांतये

॥२४॥

धूपं दीपं फलं दद्यात्पुष्पैर्नानाविधैः किल ॥

पूजितो हनुमानेव ददाति तस्य वांछितम्

॥२५॥

प्रतिपुत्रं तु तस्याग्रे कुर्यान्नान्यत्र कुत्रचित् ॥

श्रीमाताबकुलस्वामिभागधेयं तु पूर्वतः

॥२६॥

पश्चात्प्रतिग्रहं विप्रैः कर्त्तव्यमिति निश्चितम् ॥

समागमेषु विप्राणां न्यायान्यायविनिर्णये

॥२७॥

निर्णयं हृदये धृत्वा तत्रस्थं श्रावयेद्द्विजान् ॥

केवलं धर्मबुद्ध्या च पक्षपातं विवर्जयेत्

॥२८॥

सर्वेषां संमतं कार्यं तद्ध्यविकृतमेव च ॥

आकारितस्ततो विप्रः सभायां भयमेति चेत्

॥२९॥

न तस्य वाक्यं श्रोतव्यं निर्णीतार्थनिवारणे ॥

यस्य वर्जस्तु क्रियते मिलित्वा सर्व वाडवैः

॥३०॥

खानपानादिकं सर्वं कार्यं तेन विवर्जयेत् ॥

तस्य कन्या न दातव्या तत्संसर्गी च तादृशः

॥३१॥

ततो दंडं प्रकुर्वीत सर्वैरेव द्विजोत्तमैः ॥

भोजनं कन्यकादानमिति दाशरथेर्मतम्

॥३२॥

यत्किंचित्कुरुते पापं लब्धुं स्थलमथापि वा ॥

शुष्कार्द्रं वसते चान्ने तस्मादन्नं परि त्यजेत्

॥३३॥

कुर्वंस्तत्पापभागी स्यात्तस्य दंडो यथाविधि ॥

न्यायं न पश्यते यस्तु शक्तौ सत्यां सदा यतः

॥३४॥

पापभागी स विज्ञेय इति सत्यं न संशयः ॥

उत्कोचं यस्तु गृह्णाति पापिनां दुष्टकर्मिणाम् ॥

सकलं च भवेत्तस्य पापं नैवात्र सशयः

॥३५॥

तस्यान्नं गृह्यते नैव कन्यापि न कदाचन ॥

हितमाचरते यस्तु पुत्राणामपि वै नरः

॥३६॥

स एतान्नियमान्सर्वान्पालयेन्नात्र संशयः ॥

एवं पत्रं लिखित्वा तु वाडवास्ते प्रह र्षिताः

॥३७॥

प्राप्ते कलियुगे घोरे यथा पापं न कुर्वते ॥

इति ज्ञात्वा तु सर्वे ते न्यायधर्मं प्रचक्रिरे

॥३८॥

व्यास उवाच

कलौ प्राप्ते द्विजाः सर्वे स्थानभ्रष्टा यतस्ततः ॥

पक्षमुत्कलं ग्रहीष्यंति तथा स्युः पक्षपातिनः

॥३९॥

भोक्ष्यंते म्लेच्छकग्रामान्कोलाविध्वंसिभिः किल ॥

वेदभ्रष्टाश्च ते विप्रा भविष्यंति कलौ युगे

॥४०॥

युधिष्ठिर उवाच

देशेदेशे गमिष्यंति ते विप्रा वणिजस्तथा ॥

कथं वै ज्ञायते सर्वै केन चिह्नेन मारिष

॥११॥

यस्मिन्गोत्रे समुत्पन्ना वाडवा ये महाबलाः

॥४२॥

व्यास उवाच

ज्ञायते गोत्रसंज्ञाऽथ केचिच्चैव पराक्रमैः ॥

यस्ययस्य च यत्कर्म तस्य तस्यावटंककः

॥४३॥

अवटंकैर्हि ज्ञायंते नान्यथा ज्ञायते क्वचित् ॥

गोत्रैश्च प्रवरैश्चैव अवटंकैर्नृपात्मज

॥४४॥

ज्ञायंते हि द्विजा राजन्मोढ ब्राह्मणसत्तमाः

॥१९॥

युधिष्ठिर उवाच

गोत्रैश्च प्रवरैश्चैव श्रुता एते तवाननात् ॥

कां वा शाखामधीयानास्तन्मे ब्रूहि पितामह

॥१६॥

व्यास उवाच

ज्ञायंते यत्रयत्रस्था माध्यंदिनीया महाबलाः ॥

कौथमीं च समाश्रित्य केचिद्विप्रा गुणान्विताः

॥४७॥

ऋगथर्वणजा शाखा नष्टा सा च महामते ॥

एवं वै वर्तमानास्ते वाडवा धर्मसंभवाः

॥४८॥

धर्मारण्ये महाभागाः पुत्रपौत्रान्विताऽभवन् ॥

शूद्राः सर्वे महाभागाः पुत्रपौत्र समावृताः

॥४९॥

धर्मारण्ये महातीर्थे सर्वे ते द्विजसेवकाः ॥

अभवन्रामभक्ताश्च रामाज्ञां पालयंति च

॥५०॥

आज्ञामत्याऽऽदरेणेह हनूमंतश्च वीर्यवान् ॥

पालयेत्सोऽपि चेदानीं सुप्राप्ते वै कलौ युगे ॥

अदृष्टरूपी हनुमांस्तत्र भ्रमति नित्यशः ॥

त्रैविद्या वाडवा यत्र चातुर्विद्यास्तथैव च

॥५२॥

सभायामुपविष्टा येऽन्यायात्पापं प्रकुर्वते ॥

जयो हि न्यायकर्तॄणामजयोऽन्यायकारिणाम्

॥५३॥

सापराधे यस्तु पुत्रे ताते भ्रातरि चापि वा ॥

पक्षपातं प्रकुर्वीत तस्य कुप्यति वायुजः

॥५४॥

कुपितो हनुमानेष धननाशं करोति वै ॥

पुत्रनाशं करोत्येव धामनाशं तथैव च

॥५५॥

सेवार्थं निर्मितः शूद्रो न विप्रान्परिषेवते ॥

वृत्तिं वा न ददात्येव हनुमांस्तस्य कुप्यति

॥५६॥

अर्थनाशं पुत्रनाशं स्थाननाशं महा भयम् ॥

कुरुते वायुपुत्रो हि रामवाक्यमनुस्मरन्

॥५७॥

यत्र कुत्र स्थिता विप्राः शूद्रा वा नृपसत्तम ॥

न निर्द्धना भवेयुस्ते प्रसादाद्राघवस्य च

॥५८॥

यो मूढश्चाप्यधर्मात्मा पापपाषंडमाश्रितः ।

निजान्विप्रान्परित्यज्य परज्ञातींश्च मन्यते

॥५९॥

तस्य पूर्वकृतं पुण्यं भस्मीभवति नान्यथा ॥

अन्येषां दीयते दानं स्वल्पं वा यदि वा बहु

॥६०॥

यथा भवति वै पूर्वं ब्रह्मविष्णुशिवैः कृतम् ॥

तस्य देवा न गृह्णंति हृव्यं कव्यं च पूर्वजाः

॥६१॥

वंचयित्वा निजान्विप्रानन्येभ्यः प्रददेत्तु यः ॥

तस्य जन्मार्जितं पुण्यं भस्मीभवति तत्क्षणात्

॥६२॥

ब्रह्मविष्णुशिवैश्चैव पूजिता ये द्विजोत्तमाः ॥

ते षां ये विमुखाः शूद्रा रौरवे निवसंति ते

॥६३॥

यो लौल्याच्च कुलाचारं गोत्राचारं प्रलोपयेत् ॥

स्वाचारं यो न कुर्वीत कदाचिद्वै विमोहितः

॥६४॥

सर्वनाशो भवेत्तस्य भस्मीभवति तत्क्षणात् ॥

तस्मात्सर्वः कुलाचारः स्थानाचारस्तथैव च

॥६५॥

गोत्राचारः पालनीयो यथावित्तानुसारतः ॥

एवं ते कथितं राजन्धर्मारण्यं पुरातनम्

॥६६॥

स्थापितं देवदेवैश्च ब्रह्मविष्णुशिवादिभिः ॥

धर्मारण्यं कृतयुगे त्रेतायां सत्यमंदिरम् ॥

द्वापरे वेदभवनं कालौ मोहेरकं स्मृतम्

॥६७॥

! ब्रह्मोवाच

य इदं शृणुयात्पुत्र श्रद्धया परया युतः ॥

धर्मारण्यस्य माहात्म्यं सर्वकिल्बिषनाशनम्

॥६८॥

मनोवाक्कायजनितं पातकं त्रिविधं च यत् ॥

तत्सर्वं नाशमायाति श्रवणात्कीर्तनात्सुकृत्

॥६९॥

धन्यं यशस्यमायुष्यं सुखसंतानदायकम् ॥

माहात्म्यं शृणुयाद्वत्स सर्वसौख्याप्तये नरः

॥७०॥

सर्वतीर्थेषु यत्पुण्यं सर्वक्षेत्रेषु यत्फलम् ॥

तत्फलं समवाप्नोति धर्मारण्यस्य सेवनात्

॥७१॥

नारद उवाच

धर्मारण्यस्य माहात्म्यं यच्छ्रुतं त्वन्मुखांबुजात् ॥

धर्मवाप्यां यत्र धर्म्मस्तपस्तेपे सुदुष्कुरम्

॥७२॥

तस्य क्षेत्रस्य महिमा मया त्वत्तोऽवधारितः ॥

स्वस्ति तेऽस्तु गमिष्यामि धर्मारण्यदिदृक्षया

॥७३॥

तत्र वाक्यजलौघेन पावितोऽहं चतुर्मुख

॥७४॥

व्यास उवाच

इदमाख्यानकं सर्वं कथितं पांडुनंदन ॥

यच्छ्रुत्वा गोसहस्रस्य फलं प्राप्नोति मानवः

॥७५॥

अपुत्रो लभते पुत्रान्निर्द्धनो धनवान्भवेत् ॥

रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बंधनात्

॥७६॥

विद्यार्थी लभते विद्यामुत्तमां कर्मसाधनाम् ॥

तीर्थयात्राफलं तस्य कोटिकन्याफलं लभेत्

॥७७॥

यः श्रृणोति नरो भक्त्या नारी वाथ नरोत्तम ॥

निरयं नैव पश्यंति एकोत्तरशतैः सह

॥७८॥

शुभे देशे निवेश्याथ क्षौमवस्त्रादिभिस्तथा ॥

पुराणपुस्तकं राजन्प्रयतः शिष्टसंमतः

॥७९॥

अर्चयेच्च यथा न्यायं गंधमाल्यैः पृथक्पृथक् ॥

समाप्तौ नृप ग्रंथस्य वाचकस्यानुपूजनम्

॥८०॥

दानादिभिर्यथान्यायं संपूर्णफलहेतवे ॥

मुद्रिकां कुंडले चैव ब्रह्मसूत्रं हिरण्मयम्

॥८१॥

वस्त्राणि च विचित्राणि गंधमाल्यानुलेपनैः ॥

देववत्पूजनं कृत्वा गां च दद्यात्पयस्विनीम्

॥८२॥

एवं विधानतः श्रुत्वा धर्मारण्यकथानकम् ॥

धर्मारण्यनिवासस्य फलमाप्नोत्यसंशयम्

॥८३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये धर्मारण्यनिवासिव्यवस्थावर्णनपूर्वक धर्मारण्यपुराणश्रवणमाहात्म्यवर्णनंनाम चत्वारिंशोऽध्यायः ॥ ४० ॥