skipLink.label

उदाहरणानि

शीघ्र मार्गाः

सूक्तम् 103 — क्षमेदमन्यद् (8 मन्त्राः)

सूक्त 103

८ कुत्स आङ्गिरसः। इन्द्रः। त्रिष्टुप्।

तत् त॑ इन्द्रि॒यं प॑र॒मं प॑रा॒चैरधा॑रयन्त क॒वय॑: पु॒रेदम् ।

क्ष॒मेदम॒न्यद् दि॒व्य १ न्यद॑स्य॒ समी॑ पृच्यते सम॒नेव॑ के॒तुः

॥१॥

स धा॑रयत् पृथि॒वीं प॒प्रथ॑च्च॒ वज्रे॑ण ह॒त्वा निर॒पः स॑सर्ज ।

अह॒न्नहि॒मभि॑नद्रौहि॒णं व्यह॒न् व्यं॑सं म॒घवा॒ शची॑भिः

॥२॥

स जा॒तूभ॑र्मा श्र॒द्दधा॑न॒ ओज॒: पुरो॑ विभि॒न्दन्न॑चर॒द् वि दासी॑: ।

वि॒द्वान् वज्रि॒न् दस्य॑वे हे॒तिम॒स्याऽऽर्यं॒ सहो॑ वर्धया द्यु॒म्नमि॑न्द्र

॥३॥

तदू॒चुषे॒ मानु॑षे॒मा यु॒गानि॑ की॒र्तेन्यं॑ म॒घवा॒ नाम॒ बिभ्र॑त् ।

उ॒प॒प्र॒यन् द॑स्यु॒हत्या॑य व॒ज्री यद्ध॑ सू॒नुः श्रव॑से॒ नाम॑ द॒धे

॥४॥

तद॑स्ये॒दं प॑श्यता॒ भूरि॑ पु॒ष्टं श्रदिन्द्र॑स्य धत्तन वी॒र्या॑य ।

स गा अ॑विन्द॒त् सो अ॑विन्द॒दश्वा॒न् त्स ओष॑धी॒: सो अ॒पः स वना॑नि

॥५॥

भूरि॑कर्मणे वृष॒भाय॒ वृष्णे॑ स॒त्यशु॑ष्माय सुनवाम॒ सोम॑म् ।

य आ॒दृत्या॑ परिप॒न्थीव॒ शूरो ऽय॑ज्वनो वि॒भज॒न्नेति॒ वेद॑:

॥६॥

तदि॑न्द्र॒ प्रेव॑ वी॒र्यं॑ चकर्थ॒ यत् स॒सन्तं॒ वज्रे॒णाबो॑ध॒योऽहि॑म् ।

अनु॑ त्वा॒ पत्नी॑र्हृषि॒तं वय॑श्च॒ विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा

॥७॥

शुष्णं॒ पिप्रुं॒ कुय॑वं वृ॒त्रमि॑न्द्र य॒दाव॑धी॒र्वि पुर॒: शम्ब॑रस्य ।

तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः

॥८॥