skipLink.label

सूक्तम् 105 — न (19 मन्त्राः)

सूक्त 105

१९ त्रित आप्त्यः, कुत्स आङ्गिरसो वा। विश्वे देवाः। पंक्तिः, ८ यव मध्य महाबृहती, १९ त्रिष्टुप्।

च॒न्द्रमा॑ अ॒प्स्व १ न्तरा सु॑प॒र्णो धा॑वते दि॒वि ।

न वो॑ हिरण्यनेमयः प॒दं वि॑न्दन्ति विद्युतो वि॒त्तं मे॑ अ॒स्य रो॑दसी

॥१॥

अर्थ॒मिद् वा उ॑ अ॒र्थिन॒ आ जा॒या यु॑वते॒ पति॑म् ।

तु॒ञ्जाते॒ वृष्ण्यं॒ पय॑: परि॒दाय॒ रसं॑ दुहे वि॒त्तं मे॑ अ॒स्य रो॑दसी

॥२॥

मो षु दे॑वा अ॒दः स्व १ रव॑ पादि दि॒वस्परि॑ ।

मा सो॒म्यस्य॑ श॒म्भुव॒: शूने॑ भूम॒ कदा॑ च॒न वि॒त्तं मे॑ अ॒स्य रो॑दसी

॥३॥

य॒ज्ञं पृ॑च्छाम्यव॒मं स तद् दू॒तो वि वो॑चति ।

क्व॑ ऋ॒तं पू॒र्व्यं ग॒तं कस्तद् बि॑भर्ति॒ नूत॑नो वि॒त्तं मे॑ अ॒स्य रो॑दसी

॥४॥

अ॒मी ये दे॑वा॒: स्थन॑ त्रि॒ष्वा रो॑च॒ने दि॒वः ।

कद् व॑ ऋ॒तं कदनृ॑तं॒ क्व॑ प्र॒त्ना व॒ आहु॑तिर्वि॒त्तं मे॑ अ॒स्य रो॑दसी

॥५॥

कद् व॑ ऋ॒तस्य॑ धर्ण॒सि कद् वरु॑णस्य॒ चक्ष॑णम् ।

कद॑र्य॒म्णो म॒हस्प॒थाति॑ क्रामेम दू॒ढ्यो॑ वि॒त्तं मे॑ अ॒स्य रो॑दसी

॥६॥

अ॒हं सो अ॑स्मि॒ यः पु॒रा सु॒ते वदा॑मि॒ कानि॑ चित् ।

तं मा॑ व्यन्त्या॒ध्यो॒ ३ वृको॒ न तृ॒ष्णजं॑ मृ॒गं वि॒त्तं मे॑ अ॒स्य रो॑दसी

॥७॥

सं मा॑ तपन्त्य॒भित॑: स॒पत्नी॑रिव॒ पर्श॑वः ।

मूषो॒ न शि॒श्ना व्य॑दन्ति मा॒ध्य॑: स्तो॒तारं॑ ते शतक्रतो वि॒त्तं मे॑ अ॒स्य रो॑दसी

॥८॥

अ॒मी ये स॒प्त र॒श्मय॒स्तत्रा॑ मे॒ नाभि॒रात॑ता ।

त्रि॒तस्तद् वेदा॒प्त्यः स जा॑मि॒त्वाय॑ रेभति वि॒त्तं मे॑ अ॒स्य रो॑दसी

॥९॥

अ॒मी ये पञ्चो॒क्षणो॒ मध्ये॑ त॒स्थुर्म॒हो दि॒वः ।

दे॒व॒त्रा नु प्र॒वाच्यं॑ सध्रीची॒ना नि वा॑वृतुर्वि॒त्तं मे॑ अ॒स्य रो॑दसी

॥१०॥

सु॒प॒र्णा ए॒त आ॑सते॒ मध्य॑ आ॒रोध॑ने दि॒वः ।

ते से॑धन्ति प॒थो वृकं॒ तर॑न्तं य॒ह्वती॑र॒पो वि॒त्तं मे॑ अ॒स्य रो॑दसी

॥११॥

नव्यं॒ तदु॒क्थ्यं॑ हि॒तं देवा॑सः सुप्रवाच॒नम् ।

ऋ॒तम॑र्षन्ति॒ सिन्ध॑वः स॒त्यं ता॑तान॒ सूर्यो॑ वि॒त्तं मे॑ अ॒स्य रो॑दसी

॥१२॥

अग्ने॒ तव॒ त्यदु॒क्थ्यं॑ दे॒वेष्व॒स्त्याप्य॑म् ।

स न॑: स॒त्तो म॑नु॒ष्वदा दे॒वान् य॑क्षि वि॒दुष्ट॑रो वि॒त्तं मे॑ अ॒स्य रो॑दसी

॥१३॥

स॒त्तो होता॑ मनु॒ष्वदा दे॒वाँ अच्छा॑ वि॒दुष्ट॑रः ।

अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रो वि॒त्तं मे॑ अ॒स्य रो॑दसी

॥१४॥

ब्रह्मा॑ कृणोति॒ वरु॑णो गातु॒विदं॒ तमी॑महे ।

व्यू॑र्णोति हृ॒दा म॒तिं नव्यो॑ जायतामृ॒तं वि॒त्तं मे॑ अ॒स्य रो॑दसी

॥१५॥

अ॒सौ यः पन्था॑ आदि॒त्यो दि॒वि प्र॒वाच्यं॑ कृ॒तः ।

न स दे॑वा अति॒क्रमे॒ तं म॑र्तासो॒ न प॑श्यथ वि॒त्तं मे॑ अ॒स्य रो॑दसी

॥१६॥

त्रि॒तः कूपेऽव॑हितो दे॒वान् ह॑वत ऊ॒तये॑ ।

तच्छु॑श्राव॒ बृह॒स्पति॑: कृ॒ण्वन्नं॑हूर॒णादु॒रु वि॒त्तं मे॑ अ॒स्य रो॑दसी

॥१७॥

अ॒रु॒णो मा॑ स॒कृद् वृक॑: प॒था यन्तं॑ द॒दर्श॒ हि ।

उज्जि॑हीते नि॒चाय्या॒ तष्टे॑व पृष्ट्याम॒यी वि॒त्तं मे॑ अ॒स्य रो॑दसी

॥१८॥

ए॒नाङ्गू॒षेण॑ व॒यमिन्द्र॑वन्तो॒ ऽभि ष्या॑म वृ॒जने॒ सर्व॑वीराः ।

तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः

॥१९॥