skipLink.label

सूक्तम् 107 — आ (3 मन्त्राः)

सूक्त 107

३ कुत्स आङ्गिरसः। विश्वे देवाः। त्रिष्टुप्।

य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृळ॒यन्त॑: ।

आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्यादं॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑त्

॥१॥

उप॑ नो दे॒वा अव॒सा ग॑म॒न्त्वङ्गि॑रसां॒ साम॑भिः स्तू॒यमा॑नाः ।

इन्द्र॑ इन्द्रि॒यैर्म॒रुतो॑ म॒रुद्भि॑रादि॒त्यैर्नो॒ अदि॑ति॒: शर्म॑ यंसत्

॥२॥

तन्न॒ इन्द्र॒स्तद् वरु॑ण॒स्तद॒ग्निस्तद॑र्य॒मा तत् स॑वि॒ता चनो॑ धात् ।

तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः

॥३॥