skipLink.label

सूक्तम् 11 — इन्द्र (8 मन्त्राः)

सूक्त 11

८ जेता माधुच्छन्दसः। इन्द्रः। अनुष्टुप्।

इन्द्रं॒ विश्वा॑ अवीवृधन्त् समु॒द्रव्य॑चसं॒ गिर॑: ।

र॒थीत॑मं र॒थीनां॒ वाजा॑नां॒ सत्प॑तिं॒ पति॑म्

॥१॥

स॒ख्ये त॑ इन्द्र वा॒जिनो॒ मा भे॑म शवसस्पते ।

त्वाम॒भि प्र णो॑नुमो॒ जेता॑र॒मप॑रा जितम्

॥२॥

पू॒र्वीरिन्द्र॑स्य रा॒तयो॒ न वि द॑स्यन्त्यू॒तय॑: ।

यदी॒ वाज॑स्य॒ गोम॑तः स्तो॒तृभ्यो॒ मंह॑ते म॒घम्

॥३॥

पु॒रां भि॒न्दुर्युवा॑ क॒विरमि॑तौजा अजायत ।

इन्द्रो॒ विश्व॑स्य॒ कर्म॑णो ध॒र्ता व॒ज्री पु॑रुष्टु॒तः

॥४॥

त्वं व॒लस्य॒ गोम॒तो ऽपा॑वरद्रिवो॒ बिल॑म् ।

त्वां दे॒वा अबि॑भ्युषस् तु॒ज्यमा॑नास आविषुः

॥५॥

तवा॒हं शू॑र रा॒तिभि॒: प्रत्या॑यं॒ सिन्धु॑मा॒वद॑न् ।

उपा॑तिष्ठन्त गिर्वणो वि॒दुष्टे॒ तस्य॑ का॒रव॑:

॥६॥

मा॒याभि॑रिन्द्र मा॒यिनं॒ त्वं शुष्ण॒मवा॑तिरः ।

वि॒दुष्टे॒ तस्य॒ मेधि॑रा॒स् तेषां॒ श्रवां॒स्युत्ति॑र

॥७॥

इन्द्र॒मीशा॑न॒मोज॑सा॒भि स्तोमा॑ अनूषत ।

स॒हस्रं॒ यस्य॑ रा॒तय॑ उ॒त वा॒ सन्ति॒ भूय॑सीः

॥८॥