skipLink.label

सूक्तम् 121 — कदित्था (15 मन्त्राः)

सूक्त 121

१५ कक्षीवान् दैर्घतमस औशिजः। इन्द्रो विश्वे देवा वा। त्रिष्टुप्।

कदि॒त्था नॄँ: पात्रं॑ देवय॒तां श्रव॒द् गिरो॒ अङ्गि॑रसां तुर॒ण्यन् ।

प्र यदान॒ड्विश॒ आ ह॒र्म्यस्यो॒रु क्रं॑सते अध्व॒रे यज॑त्रः

॥१॥

स्तम्भी॑द्ध॒ द्यां स ध॒रुणं॑ प्रुषायदृ॒भुर्वाजा॑य॒ द्रवि॑णं॒ नरो॒ गोः ।

अनु॑ स्व॒जां म॑हि॒षश्च॑क्षत॒ व्रां मेना॒मश्व॑स्य॒ परि॑ मा॒तरं॒ गोः

॥२॥

नक्ष॒द्धव॑मरु॒णीः पू॒र्व्यं राट् तु॒रो वि॒शामङ्गि॑रसा॒मनु॒ द्यून् ।

तक्ष॒द् वज्रं॒ नियु॑तं त॒स्तम्भ॒द् द्यां चतु॑ष्पदे॒ नर्या॑य द्वि॒पादे॑

॥३॥

अ॒स्य मदे॑ स्व॒र्यं॑ दा ऋ॒तायापी॑वृतमु॒स्रिया॑णा॒मनी॑कम् ।

यद्ध॑ प्र॒सर्गे॑ त्रिक॒कुम्नि॒वर्त॒दप॒ द्रुहो॒ मानु॑षस्य॒ दुरो॑ वः

॥४॥

तुभ्यं॒ पयो॒ यत् पि॒तरा॒वनी॑तां॒ राध॑: सु॒रेत॑स्तु॒रणे॑ भुर॒ण्यू ।

शुचि॒ यत् ते रेक्ण॒ आय॑जन्त सब॒र्दुघा॑या॒: पय॑ उ॒स्रिया॑याः

॥५॥

अध॒ प्र ज॑ज्ञे त॒रणि॑र्ममत्तु॒ प्र रो॑च्य॒स्या उ॒षसो॒ न सूर॑: ।

इन्दु॒र्येभि॒राष्ट॒ स्वेदु॑हव्यैः स्रु॒वेण॑ सि॒ञ्चञ्ज॒रणा॒भि धाम॑

॥६॥

स्वि॒ध्मा यद् व॒नधि॑तिरप॒स्यात् सूरो॑ अध्व॒रे परि॒ रोध॑ना॒ गोः ।

यद्ध॑ प्र॒भासि॒ कृत्व्याँ॒ अनु॒ द्यूनन॑र्विशे प॒श्विषे॑ तु॒राय॑

॥७॥

अ॒ष्टा म॒हो दि॒व आदो॒ हरी॑ इ॒ह द्यु॑म्ना॒साह॑म॒भि यो॑धा॒न उत्स॑म् ।

हरिं॒ यत्ते॑ म॒न्दिनं॑ दु॒क्षन् वृ॒धे गोर॑भस॒मद्रि॑भिर्वा॒ताप्य॑म्

॥८॥

त्वमा॑य॒सं प्रति॑ वर्तयो॒ गोर्दि॒वो अश्मा॑न॒मुप॑नीत॒मृभ्वा॑ ।

कुत्सा॑य॒ यत्र॑ पुरुहूत व॒न्वञ्छुष्ण॑मन॒न्तैः प॑रि॒यासि॑ व॒धैः

॥९॥

पु॒रा यत् सूर॒स्तम॑सो॒ अपी॑ते॒स्तम॑द्रिवः फलि॒गं हे॒तिम॑स्य ।

शुष्ण॑स्य चि॒त् परि॑हितं॒ यदोजो॑ दि॒वस्परि॒ सुग्र॑थितं॒ तदाद॑:

॥१०॥

अनु॑ त्वा म॒ही पाज॑सी अच॒क्रे द्यावा॒क्षामा॑ मदतामिन्द्र॒ कर्म॑न् ।

त्वं वृ॒त्रमा॒शया॑नं सि॒रासु॑ म॒हो वज्रे॑ण सिष्वपो व॒राहु॑म्

॥११॥

त्वमि॑न्द्र॒ नर्यो॒ याँ अवो॒ नॄन् तिष्ठा॒ वात॑स्य सु॒युजो॒ वहि॑ष्ठान् ।

यं ते॑ का॒व्य उ॒शना॑ म॒न्दिनं॒ दाद् वृ॑त्र॒हणं॒ पार्यं॑ ततक्ष॒ वज्र॑म्

॥१२॥

त्वं सूरो॑ ह॒रितो॑ रामयो॒ नॄन् भर॑च्च॒क्रमेत॑शो॒ नायमि॑न्द्र ।

प्रास्य॑ पा॒रं न॑व॒तिं ना॒व्या॑ना॒मपि॑ क॒र्तम॑वर्त॒योऽय॑ज्यून्

॥१३॥

त्वं नो॑ अ॒स्या इ॑न्द्र दु॒र्हणा॑याः पा॒हि व॑ज्रिवो दुरि॒ताद॒भीके॑ ।

प्र नो॒ वाजा॑न् र॒थ्यो॒ ३ अश्व॑बुध्यानि॒षे य॑न्धि॒ श्रव॑से सू॒नृता॑यै

॥१४॥

मा सा ते॑ अ॒स्मत् सु॑म॒तिर्वि द॑स॒द् वाज॑प्रमह॒: समिषो॑ वरन्त ।

आ नो॑ भज मघव॒न् गोष्व॒र्यो मंहि॑ष्ठास्ते सध॒माद॑: स्याम

॥१५॥