skipLink.label

सूक्तम् 134 — आ (6 मन्त्राः)

सूक्त 134

६ परुच्छेपो दैवोदासिः । वायुः। अत्यष्टिः, ६ अष्टिः।

आ त्वा॒ जुवो॑ रारहा॒णा अ॒भि प्रयो॒ वायो॒ वह॑न्त्वि॒ह पू॒र्वपी॑तये॒ सोम॑स्य पू॒र्वपी॑तये ।

ऊ॒र्ध्वा ते॒ अनु॑ सू॒नृता॒ मन॑स्तिष्ठतु जान॒ती ।

नि॒युत्व॑ता॒ रथे॒ना या॑हि दा॒वने॒ वायो॑ म॒खस्य॑ दा॒वने॑

॥१॥

मन्द॑न्तु त्वा म॒न्दिनो॑ वाय॒विन्द॑वो॒ ऽस्मत् क्रा॒णास॒: सुकृ॑ता अ॒भिद्य॑वो॒ गोभि॑: क्रा॒णा अ॒भिद्य॑वः ।

यद्ध॑ क्रा॒णा इ॒रध्यै॒ दक्षं॒ सच॑न्त ऊ॒तय॑: ।

स॒ध्री॒ची॒ना नि॒युतो॑ दा॒वने॒ धिय॒ उप॑ ब्रुवत ईं॒ धिय॑:

॥२॥

वा॒युर्यु॑ङ्क्ते॒ रोहि॑ता वा॒युर॑रु॒णा वा॒यू रथे॑ अजि॒रा धु॒रि वोह्ल॑वे॒ वहि॑ष्ठा धु॒रि वोह्ल॑वे ।

प्र बो॑धया॒ पुरं॑धिं जा॒र आ स॑स॒तीमि॑व ।

प्र च॑क्षय॒ रोद॑सी वासयो॒षस॒: श्रव॑से वासयो॒षस॑:

॥३॥

तुभ्य॑मु॒षास॒: शुच॑यः परा॒वति॑ भ॒द्रा वस्त्रा॑ तन्वते॒ दंसु॑ र॒श्मिषु॑ चि॒त्रा नव्ये॑षु र॒श्मिषु॑ ।

तुभ्यं॑ धे॒नुः स॑ब॒र्दुघा॒ विश्वा॒ वसू॑नि दोहते ।

अज॑नयो म॒रुतो॑ व॒क्षणा॑भ्यो दि॒व आ व॒क्षणा॑भ्यः

॥४॥

तुभ्यं॑ शु॒क्रास॒: शुच॑यस्तुर॒ण्यवो॒ मदे॑षू॒ग्रा इ॑षणन्त भु॒र्वण्य॒पामि॑षन्त भु॒र्वणि॑ ।

त्वां त्सा॒री दस॑मानो॒ भग॑मीट्टे तक्व॒वीये॑ ।

त्वं विश्व॑स्मा॒द् भुव॑नात् पासि॒ धर्म॑णासु॒र्या॑त् पासि॒ धर्म॑णा

॥५॥

त्वं नो॑ वायवेषा॒मपू॑र्व्य॒: सोमा॑नां प्रथ॒मः पी॒तिम॑र्हसि सु॒तानां॑ पी॒तिम॑र्हसि ।

उ॒तो वि॒हुत्म॑तीनां वि॒शां व॑व॒र्जुषी॑णाम् ।

विश्वा॒ इत् ते॑ धे॒नवो॑ दुह्र आ॒शिरं॑ घृ॒तं दु॑ह्रत आ॒शिर॑म्

॥६॥