skipLink.label

सूक्तम् 158 — वसू (6 मन्त्राः)

सूक्त 158

६ दीर्घतमा औचथ्यः। अश्विनौ।त्रिष्टुप्, ६ अनुष्टुप्।

वसू॑ रु॒द्रा पु॑रु॒मन्तू॑ वृ॒धन्ता॑ दश॒स्यतं॑ नो वृषणाव॒भिष्टौ॑ ।

दस्रा॑ ह॒ यद् रेक्ण॑ औच॒थ्यो वां॒ प्र यत् स॒स्राथे॒ अक॑वाभिरू॒ती

॥१॥

को वां॑ दाशत् सुम॒तये॑ चिद॒स्यै वसू॒ यद् धेथे॒ नम॑सा प॒दे गोः ।

जि॒गृ॒तम॒स्मे रे॒वती॒: पुरं॑धीः काम॒प्रेणे॑व॒ मन॑सा॒ चर॑न्ता

॥२॥

यु॒क्तो ह॒ यद् वां॑ तौ॒ग्र्याय॑ पे॒रुर्वि मध्ये॒ अर्ण॑सो॒ धायि॑ प॒ज्रः ।

उप॑ वा॒मव॑: शर॒णं ग॑मेयं॒ शूरो॒ नाज्म॑ प॒तय॑द्भि॒रेवै॑:

॥३॥

उप॑स्तुतिरौच॒थ्यमु॑रुष्ये॒न्मा मामि॒मे प॑त॒त्रिणी॒ वि दु॑ग्धाम् ।

मा मामेधो॒ दश॑तयश्चि॒तो धा॒क् प्र यद् वां॑ ब॒द्धस्त्मनि॒ खाद॑ति॒ क्षाम्

॥४॥

न मा॑ गरन् न॒द्यो॑ मा॒तृत॑मा दा॒सा यदीं॒ सुस॑मुब्धम॒वाधु॑: ।

शिरो॒ यद॑स्य त्रैत॒नो वि॒तक्ष॑त् स्व॒यं दा॒स उरो॒ अंसा॒वपि॑ ग्ध

॥५॥

दी॒र्घत॑मा मामते॒यो जु॑जु॒र्वान् द॑श॒मे यु॒गे ।

अ॒पामर्थं॑ य॒तीनां॑ ब्र॒ह्मा भ॑वति॒ सार॑थिः

॥६॥