skipLink.label

सूक्तम् 160 — ते (5 मन्त्राः)

सूक्त 160

५ दीर्घतमा औचथ्यः। द्यावापृथिवी। जगती।

ते हि द्यावा॑पृथि॒वी वि॒श्वश॑म्भुव ऋ॒ताव॑री॒ रज॑सो धार॒यत्क॑वी ।

सु॒जन्म॑नी धि॒षणे॑ अ॒न्तरी॑यते दे॒वो दे॒वी धर्म॑णा॒ सूर्य॒: शुचि॑:

॥१॥

उ॒रु॒व्यच॑सा म॒हिनी॑ अस॒श्चता॑ पि॒ता मा॒ता च॒ भुव॑नानि रक्षतः ।

सु॒धृष्ट॑मे वपु॒ष्ये॒ ३ न रोद॑सी पि॒ता यत् सी॑म॒भि रू॒पैरवा॑सयत्

॥२॥

स वह्नि॑: पु॒त्रः पि॒त्रोः प॒वित्र॑वान् पु॒नाति॒ धीरो॒ भुव॑नानि मा॒यया॑ ।

धे॒नुं च॒ पृश्निं॑ वृष॒भं सु॒रेत॑सं वि॒श्वाहा॑ शु॒क्रं पयो॑ अस्य दुक्षत

॥३॥

अ॒यं दे॒वाना॑म॒पसा॑म॒पस्त॑मो॒ यो ज॒जान॒ रोद॑सी वि॒श्वश॑म्भुवा ।

वि यो म॒मे रज॑सी सुक्रतू॒यया॒ ऽजरे॑भि॒: स्कम्भ॑नेभि॒: समा॑नृचे

॥४॥

ते नो॑ गृणा॒ने म॑हिनी॒ महि॒ श्रव॑: क्ष॒त्रं द्या॑वापृथिवी धासथो बृ॒हत् ।

येना॒भि कृ॒ष्टीस्त॒तना॑म वि॒श्वहा॑ प॒नाय्य॒मोजो॑ अ॒स्मे समि॑न्वतम्

॥५॥