skipLink.label

सूक्तम् 180 — युवो (10 मन्त्राः)

सूक्त 180

१-१० अगस्त्यो मैत्रावरुणिः। अश्विनौ। त्रिष्टुप्।

यु॒वो रजां॑सि सु॒यमा॑सो॒ अश्वा॒ रथो॒ यद्वां॒ पर्यर्णां॑सि॒ दीय॑त् ।

हि॒र॒ण्यया॑ वां प॒वय॑: प्रुषाय॒न् मध्व॒: पिब॑न्ता उ॒षस॑: सचेथे

॥१॥

यु॒वमत्य॒स्याव॑ नक्षथो॒ यद् विप॑त्मनो॒ नर्य॑स्य॒ प्रय॑ज्योः ।

स्वसा॒ यद् वां विश्वगूर्ती॒ भरा॑ति॒ वाजा॒येट्टे॑ मधुपावि॒षे च॑

॥२॥

यु॒वं पय॑ उ॒स्रिया॑यामधत्तं प॒क्वमा॒माया॒मव॒ पूर्व्यं॒ गोः ।

अ॒न्तर्यद् व॒निनो॑ वामृतप्सू ह्वा॒रो न शुचि॒र्यज॑ते ह॒विष्मा॑न्

॥३॥

यु॒वं ह॑ घ॒र्मं मधु॑मन्त॒मत्र॑ये॒ ऽपो न क्षोदो॑ऽवृणीतमे॒षे ।

तद् वां॑ नरावश्विना॒ पश्व॑इष्टी॒ रथ्ये॑व च॒क्रा प्रति॑ यन्ति॒ मध्व॑:

॥४॥

आ वां॑ दा॒नाय॑ ववृतीय दस्रा॒ गोरोहे॑ण तौ॒ग्र्यो न जिव्रि॑: ।

अ॒पः क्षो॒णी स॑चते॒ माहि॑ना वां जू॒र्णो वा॒मक्षु॒रंह॑सो यजत्रा

॥५॥

नि यद् यु॒वेथे॑ नि॒युत॑: सुदानू॒ उप॑ स्व॒धाभि॑: सृजथ॒: पुरं॑धिम् ।

प्रेष॒द् वेष॒द् वातो॒ न सू॒रिरा म॒हे द॑दे सुव्र॒तो न वाज॑म्

॥६॥

व॒यं चि॒द्धि वां॑ जरि॒तार॑: स॒त्या वि॑प॒न्याम॑हे॒ वि प॒णिर्हि॒तावा॑न् ।

अधा॑ चि॒द्धि ष्मा॑श्विनावनिन्द्या पा॒थो हि ष्मा॑ वृषणा॒वन्ति॑देवम्

॥७॥

यु॒वां चि॒द्धि ष्मा॑श्विना॒वनु॒ द्यून् विरु॑द्रस्य प्र॒स्रव॑णस्य सा॒तौ ।

अ॒गस्त्यो॑ न॒रां नृषु॒ प्रश॑स्त॒: कारा॑धुनीव चितयत् स॒हस्रै॑:

॥८॥

प्र यद् वहे॑थे महि॒ना रथ॑स्य॒ प्र स्य॑न्द्रा याथो॒ मनु॑षो॒ न होता॑ ।

ध॒त्तं सू॒रिभ्य॑ उ॒त वा॒ स्वश्व्यं॒ नास॑त्या रयि॒षाच॑: स्याम

॥९॥

तं वां॒ रथं॑ व॒यम॒द्या हु॑वेम॒ स्तोमै॑रश्विना सुवि॒ताय॒ नव्य॑म् ।

अरि॑ष्टनेमिं॒ परि॒ द्यामि॑या॒नं वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम्

॥१०॥