skipLink.label

सूक्तम् 41 — य (9 मन्त्राः)

सूक्त 41

९ कण्वो घौरः। वरुणमित्रार्यमणः, ४-६ आदित्याः। गायत्री।

यं रक्ष॑न्ति॒ प्रचे॑तसो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । नू चि॒त्स द॑भ्यते॒ जन॑:

॥१॥

यं बा॒हुते॑व॒ पिप्र॑ति॒ पान्ति॒ मर्त्यं॑ रि॒षः । अरि॑ष्ट॒: सर्व॑ एधते

॥२॥

वि दु॒र्गा वि द्विष॑: पु॒रो घ्नन्ति॒ राजा॑न एषाम् । नय॑न्ति दुरि॒ता ति॒रः

॥३॥

सु॒गः पन्था॑ अनृक्ष॒र आदि॑त्यास ऋ॒तं य॒ते । नात्रा॑वखा॒दो अ॑स्ति वः

॥४॥

यं य॒ज्ञं नय॑था नर॒ आदि॑त्या ऋ॒जुना॑ प॒था । प्र व॒: स धी॒तये॑ नशत्

॥५॥

स रत्नं॒ मर्त्यो॒ वसु॒ विश्वं॑ तो॒कमु॒त त्मना॑ । अच्छा॑ गच्छ॒त्यस्तृ॑तः

॥६॥

क॒था रा॑धाम सखाय॒: स्तोमं॑ मि॒त्रस्या॑र्य॒म्णः । महि॒ प्सरो॒ वरु॑णस्य

॥७॥

मा वो॒ घ्नन्तं॒ मा शप॑न्तं॒ प्रति॑ वोचे देव॒यन्त॑म् । सु॒म्नैरिद् व॒ आ वि॑वासे

॥८॥

च॒तुर॑श्चि॒द् दद॑मानाद् बिभी॒यादा निधा॑तोः । न दु॑रु॒क्ताय॑ स्पृहयेत्

॥९॥