skipLink.label

सूक्तम् 45 — त्वमग्ने (10 मन्त्राः)

सूक्त 45

१० प्रस्कण्वः काण्वः। अग्निः, १० (उत्तरार्धस्य) देवाः। अनुष्टुप्।

त्वम॑ग्ने॒ वसूँ॑रि॒ह रु॒द्राँ आ॑दि॒त्याँ उ॒त । यजा॑ स्वध्व॒रं जनं॒ मनु॑जातं घृत॒प्रुष॑म्

॥१॥

श्रु॒ष्टी॒वानो॒ हि दा॒शुषे॑ दे॒वा अ॑ग्ने॒ विचे॑तसः । तान् रो॑हिदश्व गिर्वण॒स् त्रय॑स्त्रिंशत॒मा व॑ह

॥२॥

प्रि॒य॒मे॒ध॒वद॑त्रि॒वज् जात॑वेदो विरूप॒वत् । अ॒ङ्गि॒र॒स्वन्म॑हिव्रत॒ प्रस्क॑ण्वस्य श्रुधी॒ हव॑म्

॥३॥

महि॑केरव ऊ॒तये॑ प्रि॒यमे॑धा अहूषत । राज॑न्तमध्व॒राणा॑म॒ग्निं शु॒क्रेण॑ शो॒चिषा॑

॥४॥

घृता॑हवन सन्त्ये॒मा उ॒ षु श्रु॑धी॒ गिर॑: । याभि॒: कण्व॑स्य सू॒नवो॒ हव॒न्तेऽव॑से त्वा

॥५॥

त्वां चि॑त्रश्रवस्तम॒ हव॑न्ते वि॒क्षु ज॒न्तव॑: । शो॒चिष्के॑शं पुरुप्रि॒याग्ने॑ ह॒व्याय॒ वोह्ळ॑वे

॥६॥

नि त्वा॒ होता॑रमृ॒त्विजं॑ दधि॒रे व॑सु॒वित्त॑मम् । श्रुत्क॑र्णं स॒प्रथ॑स्तमं॒ विप्रा॑ अग्ने॒ दिवि॑ष्टिषु

॥७॥

आ त्वा॒ विप्रा॑ अचुच्यवुः सु॒तसो॑मा अ॒भि प्रय॑: । बृ॒हद् भा बिभ्र॑तो ह॒विरग्ने॒ मर्ता॑य दा॒शुषे॑

॥८॥

प्रा॒त॒र्याव्ण॑: सहस्कृत सोम॒पेया॑य सन्त्य । इ॒हाद्य दैव्यं॒ जनं॑ ब॒र्हिरा सा॑दया वसो

॥९॥

अ॒र्वाञ्चं॒ दैव्यं॒ जन॒मग्ने॒ यक्ष्व॒ सहू॑तिभिः । अ॒यं सोम॑: सुदानव॒स् तं पा॑त ति॒रोअ॑ह्न्यम्

॥१०॥