skipLink.label

सूक्तम् 47 — तमश्विना (10 मन्त्राः)

सूक्त 47

१० प्रस्कण्वः काण्वः। अश्विनौ। प्रगाथः – विषमा बृहत्यः, समा सतोबृहत्यः।

अ॒यं वां॒ मधु॑मत्तमः सु॒तः सोम॑ ऋतावृधा ।

तम॑श्विना पिबतं ति॒रोअ॑ह्न्यं ध॒त्तं रत्ना॑नि दा॒शुषे॑

॥१॥

त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॑ सु॒पेश॑सा॒ रथे॒ना या॑तमश्विना ।

कण्वा॑सो वां॒ ब्रह्म॑ कृण्वन्त्यध्व॒रे तेषां॒ सु शृ॑णुतं॒ हव॑म्

॥२॥

अश्वि॑ना॒ मधु॑मत्तमं पा॒तं सोम॑मृतावृधा ।

अथा॒द्य द॑स्रा॒ वसु॒ बिभ्र॑ता॒ रथे॑ दा॒श्वांस॒मुप॑ गच्छतम्

॥३॥

त्रि॒ष॒ध॒स्थे ब॒र्हिषि॑ विश्ववेदसा॒ मध्वा॑ य॒ज्ञं मि॑मिक्षतम् ।

कण्वा॑सो वां सु॒तसो॑मा अ॒भिद्य॑वो यु॒वां ह॑वन्ते अश्विना

॥४॥

याभि॒: कण्व॑म॒भिष्टि॑भि॒: प्राव॑तं यु॒वम॑श्विना ।

ताभि॒: ष्व१स्माँ अ॑वतं शुभस्पती पा॒तं सोम॑मृतावृधा

॥५॥

सु॒दासे॑ दस्रा॒ वसु॒ बिभ्र॑ता॒ रथे॒ पृक्षो॑ वहतमश्विना ।

र॒यिं स॑मु॒द्रादु॒त वा॑ दि॒वस्पर्य॒स्मे ध॑त्तं पुरु॒स्पृह॑म्

॥६॥

यन्ना॑सत्या परा॒वति॒ यद्वा॒ स्थो अधि॑ तु॒र्वशे॑ ।

अतो॒ रथे॑न सु॒वृता॑ न॒ आ ग॑तं सा॒कं सूर्य॑स्य र॒श्मिभि॑:

॥७॥

अ॒र्वाञ्चा॑ वां॒ सप्त॑योऽध्वर॒श्रियो॒ वह॑न्तु॒ सव॒नेदुप॑ ।

इषं॑ पृ॒ञ्चन्ता॑ सु॒कृते॑ सु॒दान॑व॒ आ ब॒र्हिः सी॑दतं नरा

॥८॥

तेन॑ नास॒त्या ग॑तं॒ रथे॑न॒ सूर्य॑त्वचा ।

येन॒ शश्व॑दू॒हथु॑र्दा॒शुषे॒ वसु॒ मध्व॒: सोम॑स्य पी॒तये॑

॥९॥

उ॒क्थेभि॑र॒र्वागव॑से पुरू॒वसू॑ अ॒र्कैश्च॒ नि ह्व॑यामहे ।

शश्व॒त् कण्वा॑नां॒ सद॑सि प्रि॒ये हि कं॒ सोमं॑ प॒पथु॑रश्विना

॥१०॥