skipLink.label

सूक्तम् 67 — वनेषु (5 मन्त्राः)

सूक्त 67

१० पराशरः शाक्त्यः। अग्निः। द्विपदा विराट्।

वने॑षु जा॒युर्मर्ते॑षु मि॒त्रो वृ॑णी॒ते श्रु॒ष्टिं, राजे॑वाजु॒र्यम् १

क्षेमो॒ न सा॒धुः, क्रतु॒र्न भ॒द्रो भुव॑त्स्वा॒धी, र्होता॑ हव्य॒वाट्

॥१॥

हस्ते॒ दधा॑नो, नृ॒म्णा विश्वा॒न्यमे॑ दे॒वान् धा॒द् गुहा॑ नि॒षीद॑न् ३

वि॒दन्ती॒मत्र॒, नरो॑ धियं॒धा हृ॒दा यत् त॒ष्टान् मन्त्राँ॒ अशं॑सन्

॥२॥

अ॒जो न क्षां, दा॒धार॑ पृथि॒वीं त॒स्तम्भ॒ द्यां मन्त्रे॑भिः स॒त्यैः ५

प्रि॒या प॒दानि॑, प॒श्वो नि पा॑हि वि॒श्वायु॑रग्ने, गु॒हा गुहं॑ गाः

॥३॥

य ईं॑ चि॒केत॒, गुहा॒ भव॑न्त॒मा यः स॒साद॒ धारा॑मृ॒तस्य॑ ७

वि ये चृ॒तन्त्यृ॒ता सप॑न्त॒ आदिद् वसू॑नि॒ प्र व॑वाचास्मै

॥४॥

वि यो वी॒रुत्सु॒, रोध॑न्महि॒त्वोत प्र॒जा, उ॒त प्र॒सूष्व॒न्तः ९

चित्ति॑र॒पां, दमे॑ वि॒श्वायु॒: सद्मे॑व॒ धीरा॑:, सं॒माय॑ चक्रुः

॥५॥