skipLink.label

सूक्तम् 71 — स्वसार (10 मन्त्राः)

सूक्त 71

१० पराशरः शाक्त्यः। अग्निः। त्रिष्टुप्।

उप॒ प्र जि॑न्वन्नुश॒तीरु॒शन्तं॒ पतिं॒ न नित्यं॒ जन॑य॒: सनी॑ळाः ।

स्वसा॑र॒: श्यावी॒मरु॑षीमजुष्रञ् चि॒त्रमु॒च्छन्ती॑मु॒षसं॒ न गाव॑:

॥१॥

वी॒ळु चि॑द् दृ॒ह्ला पि॒तरो॑ न उ॒क्थैरद्रिं॑ रुज॒न्नङ्गि॑रसो॒ रवे॑ण ।

च॒क्रुर्दि॒वो बृ॑ह॒तो गा॒तुम॒स्मे अह॒: स्व॑र्विविदुः के॒तुमु॒स्राः

॥२॥

दध॑न्नृ॒तं ध॒नय॑न्नस्य धी॒तिमादिद॒र्यो दि॑धि॒ष्वो॒ ३ विभृ॑त्राः ।

अतृ॑ष्यन्तीर॒पसो॑ य॒न्त्यच्छा॑ दे॒वाञ्जन्म॒ प्रय॑सा व॒र्धय॑न्तीः

॥३॥

मथी॒द् यदीं॒ विभृ॑तो मात॒रिश्वा॑ गृ॒हेगृ॑हे श्ये॒तो जेन्यो॒ भूत् ।

आदीं॒ राज्ञे॒ न सही॑यसे॒ सचा॒ सन्ना दू॒त्यं १ भृग॑वाणो विवाय

॥४॥

म॒हे यत् पि॒त्र ईं॒ रसं॑ दि॒वे करव॑ त्सरत् पृश॒न्य॑श्चिकि॒त्वान् ।

सृ॒जदस्ता॑ धृष॒ता दि॒द्युम॑स्मै॒ स्वायां॑ दे॒वो दु॑हि॒तरि॒ त्विषिं॑ धात्

॥५॥

स्व आ यस्तुभ्यं॒ दम॒ आ वि॒भाति॒ नमो॑ वा॒ दाशा॑दुश॒तो अनु॒ द्यून् ।

वर्धो॑ अग्ने॒ वयो॑ अस्य द्वि॒बर्हा॒ यास॑द् रा॒या स॒रथं॒ यं जु॒नासि॑

॥६॥

अ॒ग्निं विश्वा॑ अ॒भि पृक्ष॑: सचन्ते समु॒द्रं न स्र॒वत॑: स॒प्त य॒ह्वीः ।

न जा॒मिभि॒र्वि चि॑किते॒ वयो॑ नो वि॒दा दे॒वेषु॒ प्रम॑तिं चिकि॒त्वान्

॥७॥

आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट् छुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके॑ ।

अ॒ग्निः शर्ध॑मनव॒द्यं युवा॑नं स्वा॒ध्यं॑ जनयत् सू॒दय॑च्च

॥८॥

मनो॒ न योऽध्व॑नः स॒द्य एत्येक॑: स॒त्रा सूरो॒ वस्व॑ ईशे ।

राजा॑ना मि॒त्रावरु॑णा सुपा॒णी गोषु॑ प्रि॒यम॒मृतं॒ रक्ष॑माणा

॥९॥

मा नो॑ अग्ने स॒ख्या पित्र्या॑णि॒ प्र म॑र्षिष्ठा अ॒भि वि॒दुष्क॒विः सन् ।

नभो॒ न रू॒पं ज॑रि॒मा मि॑नाति पु॒रा तस्या॑ अ॒भिश॑स्ते॒रधी॑हि

॥१०॥