skipLink.label

उदाहरणानि

शीघ्र मार्गाः

सूक्तम् 16 — आ (9 मन्त्राः)

सूक्त 16

९ मेधातिथिःकाण्वः। इन्द्रः।गायत्री।

आ त्वा॑ वहन्तु॒ हर॑यो॒ वृष॑णं॒ सोम॑पीतये । इन्द्र॑ त्वा॒ सूर॑चक्षसः

॥१॥

इ॒मा धा॒ना घृ॑त॒स्नुवो॒ हरी॑ इ॒होप॑ वक्षतः । इन्द्रं॑ सु॒खत॑मे॒ रथे॑

॥२॥

इन्द्रं॑ प्रा॒तर्ह॑वामह॒ इन्द्रं॑ प्रय॒त्य॑ध्व॒रे । इन्द्रं॒ सोम॑स्य पी॒तये॑

॥३॥

उप॑ नः सु॒तमा ग॑हि॒ हरि॑भिरिन्द्र के॒शिभि॑: । सु॒ते हि त्वा॒ हवा॑महे

॥४॥

सेमं न॒: स्तोम॒मा ग॒ह्युपे॒दं सव॑नं सु॒तम् । गौ॒रो न तृ॑षि॒तः पि॑ब

॥५॥

इ॒मे सोमा॑स॒ इन्द॑वः सु॒तासो॒ अधि॑ ब॒र्हिषि॑ । ताँ इ॑न्द्र॒ सह॑से पिब

॥६॥

अ॒यं ते॒ स्तोमो॑ अग्रि॒यो हृ॑दि॒स्पृग॑स्तु॒ शंत॑मः । अथा॒ सोमं॑ सु॒तं पि॑ब

॥७॥

विश्व॒मित्सव॑नं सु॒तमिन्द्रो॒ मदा॑य गच्छति । वृ॒त्र॒हा सोम॑पीतये

॥८॥

सेमं न॒: काम॒मा पृ॑ण॒ गोभि॒रश्वै॑: शतक्रतो । स्तवा॑म त्वा स्वा॒ध्य॑:

॥९॥