skipLink.label

सूक्तम् 28 — यत्र (9 मन्त्राः)

सूक्त 28

९ आजीगर्तिः शुनःशेप स कृत्रिमो वैश्वामित्रो देवरातः। १-४ इन्द्रः, ५-६ उलू खलं, ७-८ उलूखल मुसले, ९ प्रजापतिर्हरि श्चन्द्रः, (अधिषवण) चर्म सोमो वा। १-६ अनुष्टुप्, ७-९ गायत्री।

यत्र॒ ग्रावा॑ पृ॒थुबु॑ध्न ऊ॒र्ध्वो भव॑ति॒ सोत॑वे । उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः

॥१॥

यत्र॒ द्वावि॑व ज॒घना॑धिषव॒ण्या॑ कृ॒ता । उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः

॥२॥

यत्र॒ नार्य॑पच्य॒वमु॑पच्य॒वं च॒ शिक्ष॑ते । उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः

॥३॥

यत्र॒ मन्थां॑ विब॒ध्नते॑ र॒श्मीन् यमि॑त॒वा इ॑व । उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः

॥४॥

यच्चि॒द्धि त्वं गृ॒हेगृ॑ह॒ उलू॑खलक यु॒ज्यसे॑ । इ॒ह द्यु॒मत्त॑मं वद॒ जय॑तामिव दुन्दु॒भिः

॥५॥

उ॒त स्म॑ ते वनस्पते॒ वातो॒ वि वा॒त्यग्र॒मित् । अथो॒ इन्द्रा॑य॒ पात॑वे सु॒नु सोम॑मुलूखल

॥६॥

आ॒य॒जी वा॑ज॒सात॑मा॒ ता ह्यु१च्चा वि॑जर्भृ॒तः । हरी॑ इ॒वान्धां॑सि॒ बप्स॑ता

॥७॥

ता नो॑ अ॒द्य व॑नस्पती ऋ॒ष्वावृ॒ष्वेभि॑: सो॒तृभि॑: । इन्द्रा॑य॒ मधु॑मत्सुतम्

॥८॥

उच्छि॒ष्टं च॒म्वो॑र्भर॒ सोमं॑ प॒वित्र॒ आ सृ॑ज । नि धे॑हि॒ गोरधि॑ त्व॒चि

॥९॥