skipLink.label

सूक्तम् 77 — यो (5 मन्त्राः)

सूक्त 77

५ गोतमो राहूगणः। अग्निः। त्रिष्टुप्।

क॒था दा॑शेमा॒ग्नये॒ कास्मै॑ दे॒वजु॑ष्टोच्यते भा॒मिने॒ गीः ।

यो मर्त्ये॑ष्व॒मृत॑ ऋ॒तावा॒ होता॒ यजि॑ष्ठ॒ इत् कृ॒णोति॑ दे॒वान्

॥१॥

यो अ॑ध्व॒रेषु॒ शंत॑म ऋ॒तावा॒ होता॒ तमू॒ नमो॑भि॒रा कृ॑णुध्वम् ।

अ॒ग्निर्यद् वेर्मर्ता॑य दे॒वान्त्स चा॒ बोधा॑ति॒ मन॑सा यजाति

॥२॥

स हि क्रतु॒: स मर्य॒: स सा॒धुर्मि॒त्रो न भू॒दद्भु॑तस्य र॒थीः ।

तं मेधे॑षु प्रथ॒मं दे॑व॒यन्ती॒र्विश॒ उप॑ ब्रुवते द॒स्ममारी॑:

॥३॥

स नो॑ नृ॒णां नृत॑मो रि॒शादा॑ अ॒ग्निर्गिरोऽव॑सा वेतु धी॒तिम् ।

तना॑ च॒ ये म॒घवा॑न॒: शवि॑ष्ठा॒ वाज॑प्रसूता इ॒षय॑न्त॒ मन्म॑

॥४॥

ए॒वाग्निर्गोत॑मेभिर्ऋ॒तावा॒ विप्रे॑भिरस्तोष्ट जा॒तवे॑दाः ।

स ए॑षु द्यु॒म्नं पी॑पय॒त् स वाजं॒ स पु॒ष्टिं या॑ति॒ जोष॒मा चि॑कि॒त्वान्

॥५॥