skipLink.label

सूक्तम् 75 — जुषस्व (5 मन्त्राः)

सूक्त 75

५ गोतमो राहूगणः। अग्निः। गायत्री।

जु॒षस्व॑ स॒प्रथ॑स्तमं॒ वचो॑ दे॒वप्स॑रस्तमम् ।

ह॒व्या जुह्वा॑न आ॒सनि॑

॥१॥

अथा॑ ते अङ्गिरस्त॒माग्ने॑ वेधस्तम प्रि॒यम् ।

वो॒चेम॒ ब्रह्म॑ सान॒सि

॥२॥

कस्ते॑ जा॒मिर्जना॑ना॒मग्ने॒ को दा॒श्व॑ध्वरः ।

को ह॒ कस्मि॑न्नसि श्रि॒तः

॥३॥

त्वं जा॒मिर्जना॑ना॒मग्ने॑ मि॒त्रो अ॑सि प्रि॒यः ।

सखा॒ सखि॑भ्य॒ ईड्य॑:

॥४॥

यजा॑ नो मि॒त्रावरु॑णा॒ यजा॑ दे॒वाँ ऋ॒तं बृ॒हत् ।

अग्ने॒ यक्षि॒ स्वं दम॑म्

॥५॥