९ गोतमो राहूगणः। अग्निः। गायत्री।
उ॒प॒प्र॒यन्तो॑ अध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये॑ । आ॒रे अ॒स्मे च॑ शृण्व॒ते
॥१॥यः स्नीहि॑तीषु पू॒र्व्यः सं॑जग्मा॒नासु॑ कृ॒ष्टिषु॑ । अर॑क्षद् दा॒शुषे॒ गय॑म्
॥२॥उ॒त ब्रु॑वन्तु ज॒न्तव॒ उद॒ग्निर्वृ॑त्र॒हाज॑नि । ध॒नं॒ज॒यो रणे॑रणे
॥३॥यस्य॑ दू॒तो असि॒ क्षये॒ वेषि॑ ह॒व्यानि॑ वी॒तये॑ । द॒स्मत् कृ॒णोष्य॑ध्व॒रम्
॥४॥तमित् सु॑ह॒व्यम॑ङ्गिरः सुदे॒वं स॑हसो यहो । जना॑ आहुः सुब॒र्हिष॑म्
॥५॥आ च॒ वहा॑सि॒ ताँ इ॒ह दे॒वाँ उप॒ प्रश॑स्तये । ह॒व्या सु॑श्चन्द्र वी॒तये॑
॥६॥न योरु॑प॒ब्दिरश्व्य॑: शृ॒ण्वे रथ॑स्य॒ कच्च॒न । यद॑ग्ने॒ यासि॑ दू॒त्य॑म्
॥७॥त्वोतो॑ वा॒ज्यह्र॑यो॒ ऽभि पूर्व॑स्मा॒दप॑रः । प्र दा॒श्वाँ अ॑ग्ने अस्थात्
॥८॥उ॒त द्यु॒मत् सु॒वीर्यं॑ बृ॒हद॑ग्ने विवाससि । दे॒वेभ्यो॑ देव दा॒शुषे॑
॥९॥