skipLink.label

सूक्तम् 60 — वह्नि (5 मन्त्राः)

सूक्त 60

५ नोधा गौतमः। अग्निः।त्रिष्टुप्।

वह्निं॑ य॒शसं॑ वि॒दथ॑स्य के॒तुं सु॑प्रा॒व्यं॑ दू॒तं स॒द्योअ॑र्थम् ।

द्वि॒जन्मा॑नं र॒यिमि॑व प्रश॒स्तं रा॒तिं भ॑र॒द् भृग॑वे मात॒रिश्वा॑

॥१॥

अ॒स्य शासु॑रु॒भया॑सः सचन्ते ह॒विष्म॑न्त उ॒शिजो॒ ये च॒ मर्ता॑: ।

दि॒वश्चि॒त् पूर्वो॒ न्य॑सादि॒ होता॒ ऽऽपृच्छ्यो॑ वि॒श्पति॑र्वि॒क्षु वे॒धाः

॥२॥

तं नव्य॑सी हृ॒द आ जाय॑मानम॒स्मत् सु॑की॒र्तिर्मधु॑जिह्वमश्याः ।

यमृ॒त्विजो॑ वृ॒जने॒ मानु॑षास॒: प्रय॑स्वन्त आ॒यवो॒ जीज॑नन्त

॥३॥

उ॒शिक् पा॑व॒को वसु॒र्मानु॑षेषु॒ वरे॑ण्यो॒ होता॑धायि वि॒क्षु ।

दमू॑ना गृ॒हप॑ति॒र्दम॒ आँ अ॒ग्निर्भु॑वद् रयि॒पती॑ रयी॒णाम्

॥४॥

तं त्वा॑ व॒यं पति॑मग्ने रयी॒णां प्र शं॑सामो म॒तिभि॒र्गोत॑मासः ।

आ॒शुं न वा॑जम्भ॒रं म॒र्जय॑न्तः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात्

॥५॥