skipLink.label

सूक्तम् 78 — अभि (5 मन्त्राः)

सूक्त 78

५ गोतमो राहूगणः। अग्निः। गायत्री।

अ॒भि त्वा॒ गोत॑मा गि॒रा जात॑वेदो॒ विच॑र्षणे ।

द्यु॒म्नैर॒भि प्र णो॑नुमः

॥१॥

तमु॑ त्वा॒ गोत॑मो गि॒रा रा॒यस्का॑मो दुवस्यति ।

द्यु॒म्नैर॒भि प्र णो॑नुमः

॥२॥

तमु॑ त्वा वाज॒सात॑ममङ्गिर॒स्वद्ध॑वामहे ।

द्यु॒म्नैर॒भि प्र णो॑नुमः

॥३॥

तमु॑ त्वा वृत्र॒हन्त॑मं॒ यो दस्यूँ॑रवधूनु॒षे ।

द्यु॒म्नैर॒भि प्र णो॑नुमः

॥४॥

अवो॑चाम॒ रहू॑गणा अ॒ग्नये॒ मधु॑म॒द् वच॑: ।

द्यु॒म्नैर॒भि प्र णो॑नुमः

॥५॥