skipLink.label

सूक्तम् 35 — ह्वयाम्यग्नि (10 मन्त्राः)

सूक्त 35

११ हिरण्यस्तूप आङ्गिरसः। १ (पादानां क्रमेण) अग्निः, मित्रावरुणौ, रात्रिः, सविता च। २-११ सविता। त्रिष्टुप्, १, ९ जगती।

ह्वया॑म्य॒ग्निं प्र॑थ॒मं स्व॒स्तये॒ ह्वया॑मि मि॒त्रावरु॑णावि॒हाव॑से । ह्वया॑मि॒ रात्रीं॒ जग॑तो नि॒वेश॑नीं॒ ह्वया॑मि दे॒वं स॑वि॒तार॑मू॒तये॑

॥१॥

आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।

हि॒र॒ण्यये॑न सवि॒ता रथे॒नाऽऽ दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न्

॥२॥

याति॑ दे॒वः प्र॒वता॒ यात्यु॒द्वता॒ याति॑ शु॒भ्राभ्यां॑ यज॒तो हरि॑भ्याम् ।

आ दे॒वो या॑ति सवि॒ता प॑रा॒वतो ऽप॒ विश्वा॑ दुरि॒ता बाध॑मानः

॥३॥

अ॒भीवृ॑तं॒ कृश॑नैर्वि॒श्वरू॑पं॒ हिर॑ण्यशम्यं यज॒तो बृ॒हन्त॑म् ।

आस्था॒द् रथं॑ सवि॒ता चि॒त्रभा॑नुः कृ॒ष्णा रजां॑सि॒ तवि॑षीं॒ दधा॑नः

॥४॥

वि जना॑ञ्छ्या॒वाः शि॑ति॒पादो॑ अख्य॒न् रथं॒ हिर॑ण्यप्रउगं॒ वह॑न्तः ।

शश्व॒द् विश॑: सवि॒तुर्दैव्य॑स्यो॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः ॥ ५

ति॒स्रो द्याव॑: सवि॒तुर्द्वा उ॒पस्थाँ॒ एका॑ य॒मस्य॒ भुव॑ने विरा॒षाट् ।

आ॒णिं न रथ्य॑म॒मृताधि॑ तस्थुरि॒ह ब्र॑वीतु॒ य उ॒ तच्चिके॑तत्

॥६॥

वि सु॑प॒र्णो अ॒न्तरि॑क्षाण्यख्यद्ग गभी॒रवे॑पा॒ असु॑रः सुनी॒थः ।

क्वे॒३दानीं॒ सूर्य॒: कश्चि॑केत कत॒मां द्यां र॒श्मिर॒स्या त॑तान

॥७॥

अ॒ष्टौ व्य॑ख्यत् क॒कुभ॑: पृथि॒व्यास् त्री धन्व॒ योज॑ना स॒प्त सिन्धू॑न् ।

हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒व आगा॒द् दध॒द्रत्ना॑ दा॒शुषे॒ वार्या॑णि

॥८॥

हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वी अ॒न्तरी॑यते ।

अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति

॥९॥

हिर॑ण्यहस्तो॒ असु॑रः सुनी॒थः सु॑मृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् ।

अ॒प॒सेध॑न् र॒क्षसो॑ यातु॒धाना॒नस्था॑द् दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः

॥१०॥

ये ते॒ पन्था॑: सवितः पू॒र्व्यासो॑ ऽरे॒णव॒: सुकृ॑ता अ॒न्तरि॑क्षे ।

तेभि॑र्नो अ॒द्य प॒थिभि॑: सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च ब्रूहि देव

॥११॥