skipLink.label

उदाहरणानि

शीघ्र मार्गाः

सूक्तम् 150 — पुरु (3 मन्त्राः)

सूक्त 150

३ दीर्घतमा औचथ्यः। अग्निः। उष्णिक्।

पु॒रु त्वा॑ दा॒श्वान् वो॑चे॒ ऽरिर॑ग्ने॒ तव॑ स्वि॒दा । तो॒दस्ये॑व शर॒ण आ म॒हस्य॑

॥१॥

व्य॑नि॒नस्य॑ ध॒निन॑: प्रहो॒षे चि॒दर॑रुषः । क॒दा च॒न प्र॒जिग॑तो॒ अदे॑वयोः

॥२॥

स च॒न्द्रो वि॑प्र॒ मर्त्यो॑ म॒हो व्राध॑न्तमो दि॒वि । प्रप्रेत् ते॑ अग्ने व॒नुष॑: स्याम

॥३॥