skipLink.label

उदाहरणानि

शीघ्र मार्गाः

सूक्तम् 20 — अय (8 मन्त्राः)

सूक्त 20

८ मेधातिथिः काण्वः। ऋभवः।गायत्री।

अ॒यं दे॒वाय॒ जन्म॑ने॒ स्तोमो॒ विप्रे॑भिरास॒या । अका॑रि रत्न॒धात॑मः

॥१॥

य इन्द्रा॑य वचो॒युजा॑ तत॒क्षुर्मन॑सा॒ हरी॑ । शमी॑भिर्य॒ज्ञमा॑शत

॥२॥

तक्ष॒न् नास॑त्याभ्यां॒ परि॑ज्मानं सु॒खं रथ॑म् । तक्ष॑न् धे॒नुं स॑ब॒र्दुघा॑म्

॥३॥

युवा॑ना पि॒तरा॒ पुन॑: स॒त्यम॑न्त्रा ऋजू॒यव॑: । ऋ॒भवो॑ वि॒ष्ट्य॑क्रत

॥४॥

सं वो॒ मदा॑सो अग्म॒तेन्द्रे॑ण च म॒रुत्व॑ता । आ॒दि॒त्येभि॑श्च॒ राज॑भिः

॥५॥

उ॒त त्यं च॑म॒सं नवं॒ त्वष्टु॑र्दे॒वस्य॒ निष्कृ॑तम् । अक॑र्त च॒तुर॒: पुन॑:

॥६॥

ते नो॒ रत्ना॑नि धत्तन॒ त्रिरा साप्ता॑नि सुन्व॒ते । एक॑मेकं सुश॒स्तिभि॑:

॥७॥

अधा॑रयन्त॒ वह्न॒यो ऽभ॑जन्त सुकृ॒त्यया॑ । भा॒गं दे॒वेषु॑ य॒ज्ञिय॑म्

॥८॥