skipLink.label

उदाहरणानि

शीघ्र मार्गाः

सूक्तम् 51 — अभि (15 मन्त्राः)

सूक्त 51

१५ सव्य आङ्गिरसः। इन्द्रः। जगती, १४-१५ त्रिष्टुप्।

अ॒भि त्यं मे॒षं पु॑रुहू॒तमृ॒ग्मिय॒मिन्द्रं॑ गी॒र्भिर्म॑दता॒ वस्वो॑ अर्ण॒वम् ।

यस्य॒ द्यावो॒ न वि॒चर॑न्ति॒ मानु॑षा भु॒जे मंहि॑ष्ठम॒भि विप्र॑मर्चत

॥१॥

अ॒भीम॑वन्वन्त्स्वभि॒ष्टिमू॒तयो॑ ऽन्तरिक्ष॒प्रां तवि॑षीभि॒रावृ॑तम् ।

इन्द्रं॒ दक्षा॑स ऋ॒भवो॑ मद॒च्युतं॑ श॒तक्र॑तुं॒ जव॑नी सू॒नृतारु॑हत्

॥२॥

त्वं गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रपो॒तात्र॑ये श॒तदु॑रेषु गातु॒वित् ।

स॒सेन॑ चिद् विम॒दाया॑वहो॒ वस्वा॒जावद्रिं॑ वावसा॒नस्य॑ न॒र्तय॑न्

॥३॥

त्वम॒पाम॑पि॒धाना॑वृणो॒रपाधा॑रय॒: पर्व॑ते॒ दानु॑म॒द्वसु॑ ।

वृ॒त्रं यदि॑न्द्र॒ शव॒साव॑धी॒रहि॒मादित् सूर्यं॑ दि॒व्यारो॑हयो दृ॒शे

॥४॥

त्वं मा॒याभि॒रप॑ मा॒यिनो॑ऽधमः स्व॒धाभि॒र्ये अधि॒ शुप्ता॒वजु॑ह्वत ।

त्वं पिप्रो॑र्नृमण॒: प्रारु॑ज॒: पुर॒: प्र ऋ॒जिश्वा॑नं दस्यु॒हत्ये॑ष्वाविथ

॥५॥

त्वं कुत्सं॑ शुष्ण॒हत्ये॑ष्वावि॒थार॑न्धयोऽतिथि॒ग्वाय॒ शम्ब॑रम् ।

म॒हान्तं॑ चिदर्बु॒दं नि क्र॑मीः प॒दा स॒नादे॒व द॑स्यु॒हत्या॑य जज्ञिषे

॥६॥

त्वे विश्वा॒ तवि॑षी स॒ध्र्य॑ग्घि॒ता तव॒ राध॑: सोमपी॒थाय॑ हर्षते ।

तव॒ वज्र॑श्चिकिते बा॒ह्वोर्हि॒तो वृ॒श्चा शत्रो॒रव॒ विश्वा॑नि॒ वृष्ण्या॑

॥७॥

वि जा॑नी॒ह्यार्या॒न्ये च॒ दस्य॑वो ब॒र्हिष्म॑ते रन्धया॒ शास॑दव्र॒तान् ।

शाकी॑ भव॒ यज॑मानस्य चोदि॒ता विश्वेत् ता ते॑ सध॒मादे॑षु चाकन

॥८॥

अनु॑व्रताय र॒न्धय॒न्नप॑व्रताना॒भूभि॒रिन्द्र॑: श्न॒थय॒न्नना॑भुवः ।

वृ॒द्धस्य॑ चि॒द् वर्ध॑तो॒ द्यामिन॑क्षत॒: स्तवा॑नो व॒म्रो वि ज॑घान सं॒दिह॑:

॥९॥

तक्ष॒द् यत्त॑ उ॒शना॒ सह॑सा॒ सहो॒ वि रोद॑सी म॒ज्मना॑ बाधते॒ शव॑: ।

आ त्वा॒ वात॑स्य नृमणो मनो॒युज॒ आ पूर्य॑माणमवहन्न॒भि श्रव॑:

॥१०॥

मन्दि॑ष्ट॒ यदु॒शने॑ का॒व्ये सचाँ॒ इन्द्रो॑ व॒ङ्कू व॑ङ्कु॒तराधि॑ तिष्ठति ।

उ॒ग्रो य॒यिं निर॒पः स्रोत॑सासृज॒द्वि शुष्ण॑स्य दृंहि॒ता ऐ॑रय॒त्पुर॑:

॥११॥

आ स्मा॒ रथं॑ वृष॒पाणे॑षु तिष्ठसि शार्या॒तस्य॒ प्रभृ॑ता॒ येषु॒ मन्द॑से ।

इन्द्र॒ यथा॑ सु॒तसो॑मेषु चा॒कनो॑ऽन॒र्वाणं॒ श्लोक॒मा रो॑हसे दि॒वि

॥१२॥

अद॑दा॒ अर्भां॑ मह॒ते व॑च॒स्यवे॑ क॒क्षीव॑ते वृच॒यामि॑न्द्र सुन्व॒ते ।

मेना॑भवो वृषण॒श्वस्य॑ सुक्रतो॒ विश्वेत् ता ते॒ सव॑नेषु प्र॒वाच्या॑

॥१३॥

इन्द्रो॑ अश्रायि सु॒ध्यो॑ निरे॒के प॒ज्रेषु॒ स्तोमो॒ दुर्यो॒ न यूप॑: ।

अ॒श्व॒युर्ग॒व्यू र॑थ॒युर्व॑सू॒युरिन्द्र॒ इद्रा॒यः क्ष॑यति प्रय॒न्ता

॥१४॥

इ॒दं नमो॑ वृष॒भाय॑ स्व॒राजे॑ स॒त्यशु॑ष्माय त॒वसे॑ऽवाचि ।

अ॒स्मिन्नि॑न्द्र वृ॒जने॒ सर्व॑वीरा॒: स्मत्सू॒रिभि॒स्तव॒ शर्म॑न्त्स्याम

॥१५॥