skipLink.label

सूक्तम् 83 — अश्वावति (6 मन्त्राः)

सूक्त 83

६ गोतमो राहूगणः। इन्द्रः। जगती।

अश्वा॑वति प्रथ॒मो गोषु॑ गच्छति सुप्रा॒वीरि॑न्द्र॒ मर्त्य॒स्तवो॒तिभि॑: ।

तमित् पृ॑णक्षि॒ वसु॑ना॒ भवी॑यसा॒ सिन्धु॒मापो॒ यथा॒भितो॒ विचे॑तसः

॥१॥

आपो॒ न दे॒वीरुप॑ यन्ति हो॒त्रिय॑म॒वः प॑श्यन्ति॒ वित॑तं॒ यथा॒ रज॑: ।

प्रा॒चैर्दे॒वास॒: प्र ण॑यन्ति देव॒युं ब्र॑ह्म॒प्रियं॑ जोषयन्ते व॒रा इ॑व

॥२॥

अधि॒ द्वयो॑रदधा उ॒क्थ्यं १ वचो॑ य॒तस्रु॑चा मिथु॒ना या स॑प॒र्यत॑: ।

असं॑यत्तो व्र॒ते ते॑ क्षेति॒ पुष्य॑ति भ॒द्रा श॒क्तिर्यज॑मानाय सुन्व॒ते

॥३॥

आदङ्गि॑राः प्रथ॒मं द॑धिरे॒ वय॑ इ॒द्धाग्न॑य॒: शम्या॒ ये सु॑कृ॒त्यया॑ ।

सर्वं॑ प॒णेः सम॑विन्दन्त॒ भोज॑न॒मश्वा॑वन्तं॒ गोम॑न्त॒मा प॒शुं नर॑:

॥४॥

य॒ज्ञैरथ॑र्वा प्रथ॒मः प॒थस्त॑ते॒ तत॒: सूर्यो॑ व्रत॒पा वे॒न आज॑नि ।

आ गा आ॑जदु॒शना॑ का॒व्यः सचा॑ य॒मस्य॑ जा॒तम॒मृतं॑ यजामहे

॥५॥

ब॒र्हिर्वा॒ यत् स्व॑प॒त्याय॑ वृ॒ज्यते॒ ऽर्को वा॒ श्लोक॑मा॒घोष॑ते दि॒वि ।

ग्रावा॒ यत्र॒ वद॑ति का॒रुरु॒क्थ्य १ स्तस्येदिन्द्रो॑ अभिपि॒त्वेषु॑ रण्यति

॥६॥