पुराणप्रस्तावदक्षवृत्तान्तवर्णनम्
अथ श्रीस्कान्दे महापुराणे प्रथमं माहेश्वरखण्डं प्रारभ्यते
श्रीगणेशाय नमः
ॐनमो भगवते वासुदेवाय
ॐनारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥
देवीं सरस्वती चैव ततो जयमुदीरयेत्
॥१॥व्यास उवाच
यस्याज्ञया जगत्स्रष्टाविरिंचिः पालको हरिः ॥
संहर्ता कालरुद्राख्यो नमस्तस्मै पिनाकिने
॥१॥तीर्थानामुत्तमं तीर्थं क्षेत्राणां क्षेत्रमुत्तमम् ॥
तत्रैव नैमिषारण्ये सौनकाद्यास्तपोधनाः ॥
दीर्घसत्रं प्रकुर्वंतः सत्रिणः कर्मचेतसः
॥२॥तेषां सदर्शनौत्सुक्यादागतो हि महातपाः ॥
व्यासशिष्यो महाप्राज्ञो लोमशोनाम नामतः
॥३॥तत्रागतं ते ददृशुर्मुनयो दीर्घसत्रिणः ॥
उत्तस्थुर्युगपत्सर्वे सार्घ्यहस्ताः समुत्सुकाः
॥४॥दत्त्वार्घ्यपाद्यं सत्कृत्य मुनयो वीतकल्मषाः ॥
तं पप्रच्छुर्महाभागाः शिवधर्मं सविस्तरम्
॥५॥ऋषय ऊचुः
कथयस्व महाप्राज्ञ देवदेवस्य शूलिनः ॥
महिमानं महाभाग ध्यानार्चनसमन्वितम्
॥६॥संमार्जने किं फलं स्यात्तथा रंगावलीषु च ॥
प्रदाने दर्पणस्याथ तथा वै चामरस्य च
॥७॥प्रदाने च वितानस्य तथा धारागृहस्य च ॥
दीपदाने किं फलं स्यात्पूजायां किं फलं भवेत्
॥८॥कानिकानि च पुण्यानि कथ्यतां शिवपूजने ॥
इतिहासपुराणानि वेदाध्ययनमेव च
॥९॥शिवस्याग्रे प्रकुर्वंति कारयन्त्यथ वा नराः ॥
किं फलं च नृणां तेषां कथ्यतां विस्तरेण हि
॥१०॥शिवाख्यानपरोलोके त्वत्तो नान्योऽस्ति वै मुने
॥११॥इति श्रुत्वा वचस्तेषां मुनीनां भावितात्मनाम् ॥
उवाच व्यासशिष्योऽसौ शिवमाहात्म्यमुत्तमम्
॥१२॥लोमश उवाच
अष्टादशपुराणेषु गीयते वै परः शिवः ॥
तस्माच्छिवस्य माहात्म्यं वक्तुं कोऽपि न पार्यते
॥१३॥शिवेति द्व्यक्षरं नाम व्याहरिइष्यंति ये जनाः ॥
तेषां स्वर्गश्च मोक्षश्च भविष्यति न चान्यथा
॥१४॥उदारो हि महादेवो देवानां पतिरिश्वरः ॥
येन सर्वं प्रदत्तं हि तस्मात्सर्व इति स्मृतः
॥१५॥ते धन्यास्ते महात्मानो ये भजंति सदा शिवम्
॥१६॥विना सदाशिवं योहि संसारं तर्तुमिच्छति ॥
स मूढो हि महापापः शिवद्वेषी न संशयः
॥१७॥भक्षितं हि गरं येन दक्षयज्ञो विनाशितः ॥
कालस्य दहनं येन कृतं राज्ञः प्रमोचनम्
॥१८॥ऋषय ऊचुः
यथा गरं भक्षितं च यथा यज्ञो विनाशितः ॥
दक्षस्य च तथा ब्रूहि परं कौतूहलं हि नः
॥१९॥सूत उवाच
दाक्षायणी पुरा दत्ता शंकराय महात्मने ॥
वचनाद्ब्रह्मणो विप्रा दक्षेण परमेष्ठिनः
॥२०॥एकदा हि स दक्षो वै नैमिषारण्यमागतः ॥
यदृच्छावशमापन्न ऋषिभिः परिपूजितः
॥२१॥स्तुतिभिः प्रणिपातैश्च तथा सर्वैः सुरासुरैः ॥
तत्र स्थितो महादेवो नाभ्युत्थानाभिवादने ॥
चकारास्य ततः क्रुद्धो दक्षो वचनब्रवीत्
॥२२॥सर्वत्र सर्वे हि सुरासुरा भृशं नमंति मां विप्रवराः समुत्सुकाः ॥
कथं ह्यसौ दुर्जनवन्महात्मा भूतादिभिः प्रेतपिशाचयुक्तः ॥
श्मशानवासी निरपत्रपो ह्ययं कथं प्रणामं न करोति मेऽधुना
॥२३॥पाखंडिनो दुर्जनाः पापशीला विप्रं दृष्ट्वा चोद्धता उन्मदाश्च ॥
वध्यास्त्याज्याः सद्भिरेवंविधा हि तस्मादेनं शापितुं चोद्यतोऽस्मि
॥२४॥इत्येवमुक्त्वा स महातपास्तदा रुषान्वितो रुद्रमिदं बभाषे
॥२५॥श्रृण्वंत्वमी विप्रतमा इदानीं वचो हि मे कर्तुमिहार्हथैतत् ॥
रुद्रो ह्ययं यज्ञबाह्यो वृतो मे वर्णातीतो वर्णपरो यतश्च
॥२६॥नंदी निशम्य तद्वाक्यं शैलादो हि रुषान्वितः ॥
अब्रवीत्त्वरितो दक्षं शापदं तं महाप्रभम्
॥२७॥नन्द्युवाच
यज्ञबाह्यो हि मे स्वामी महेशोऽयं कृतः कथम् ॥
यस्य स्मरणमात्रेण यज्ञाश्च सफला ह्यमी
॥२८॥यज्ञो दानं तपश्चैव तीर्थानि विविधानि च ॥
यस्य नाम्ना पवित्राणि सोयं शप्तोऽधुना कथम्
॥२९॥वृथा ते ब्रह्मचापल्याच्छप्तोऽयं दक्ष दुर्मते ॥
येनेदं पालितं विश्वं सर्वेण च महात्मना ॥
शप्तोऽयं स कथं पाप रुद्रोऽयं ब्राह्मणाधम
॥३०॥एवं निर्भार्त्सितस्तेन नंदिना हि प्रजापतिः ॥
नंदिनं च शशापाथ दक्षो रोषसमन्वितः
॥३१॥यूयं सर्वे रुद्रवरा वेदबाह्याश्च वै भृशम् ॥
शप्ताहि वेदमार्गैश्च तथा त्यक्ता महर्षिभिः
॥३२॥पाषंडवादसंयुक्ताः शिष्टऽऽचारबहिष्कृताः ॥
कपालिनः पानरतास्तथा कालमुखा ह्यमी
॥३३॥इति शप्तास्तदा तेन दक्षेण शिवकिंकराः ॥
तदा प्रकुपितो नंदी दक्षं शप्तुं प्रचक्रमे
॥३४॥शप्ता वयं त्वया विप्र साधवः शिवकिंकराः ॥
वृथैव ब्रह्मचापल्यादहं शापं ददामि ते
॥३५॥वेदवादरता यूयं नान्यदस्तीतिवादिनः ॥
कामात्मानः स्वर्गपरा लोभमोहसमन्विताः
॥३६॥वैदिकं च पुरस्कृत्य ब्राह्मणाः शूद्रयाजकाः ॥
दरिद्रिणो भविष्यंति प्रतिग्रहरताः सदा
॥३७॥दक्ष केचिद्भविष्यन्ति ब्राह्मणा ब्रह्मराक्षसाः ॥
लोमश उवाच ॥
विप्रास्ते शपितास्तेन नंदिना कोपिना भृशम्
॥३८॥अथाकर्ण्येश्वरो वाक्यं नंदिनः प्रहसन्निव ॥
उवाच वाक्यं मधुरं बोधययुक्तं सदाशिवः
॥३९॥महादेव उवाच
कोपं नार्हसि वै कर्तुं ब्राह्मणान्प्रति वै सदा ॥
ब्राह्मणागुरवो ह्येते वेदवादरताः सदा
॥४०॥वेदो मंत्रमयः साक्षात्तथा सूक्तमयो भृशम् ॥
सूक्ते प्रतिष्ठितो ह्यात्मा सर्वेषामपि देहिनाम्
॥४१॥तस्मान्नात्मविदो निन्द्या आत्मैवाहं न चेतरः ॥
कोऽयं कस्त्वं क्व चाहं वै कस्माच्छप्ता हि वै द्विजाः
॥४२॥प्रपंचरचनां हित्वा बुद्धो भव महामते ॥
तत्त्वज्ञानेन निर्वर्त्य स्वस्थः क्रोधादिवर्जितः
॥४३॥एवं प्रबोधितस्तेन शंभुना परमेष्ठिना ॥
विवेकपरमो भूत्वा शैलादो हि महातपाः ॥
शिवेन सह संगम्य परमानंदसंप्लुतः
॥४४॥दक्षोपि हि रुषाऽऽविष्टऋषिभिः परिवारितः ॥
ययौ स्थानं स्वकं तत्र प्रविवेश रुषाऽन्वितः
॥४५॥श्रद्धां विहाय परमां शिवपूजकानां निंदापरः स हि बभूव नराधमश्च ॥
सर्वैर्महर्षिभिरुपेत्य स तत्र शर्वं देवं निनिन्द न बभूव कदापि शान्तः
॥४६॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे पुराणप्रस्तावदक्षवृत्तान्तवर्णनंनाम प्रथमोऽध्यायः ॥ १ ॥