मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — केदारखण्डः, अध्याय २६

3
माहेश्वरखण्डः · केदारखण्डः · 26

शिवपार्वतिविवाहमंगलोत्सववर्णनम्

लोमश उवाच

अथ ते पर्वतश्रेष्ठा मेर्वाद्या जातसंभ्रमाः ॥

ऊचुस्ते चैकपद्येन हिमवंतं महागिरिम्

॥१॥

पर्वता ऊचुः

कन्यादानं क्रियतां चाद्य शैल श्रीमाञ्छम्भुर्भाग्यतस्तेऽद्य लब्धः ॥

हृन्मध्ये वै नात्र कार्यो विमर्शस्तस्मादेषा दीयतामीश्वराय

॥२॥

तच्छ्रुत्वा वचनं तेषां सुहृदां वै हिमालयः ॥

सम्यक्संकल्पमकरोद्ब्रह्ममा नोदितस्तदा ॥

इमां कन्यां तुभ्यमहं ददामि परमेश्वर

॥३॥

भार्यार्थं प्रतिगृह्णीष्वमंत्रेणानेन दत्तवान् ॥

अस्मै रुद्राय महते देवदवाय शंभव ॥

कन्या दत्ता महेशाय गिरींद्रेण महात्मना

॥४॥

वेद्यां च बहिरानीतौ दंपतीव कमलेक्षणौ ॥

उपवेशितौ बहिर्वेद्यां पार्वतीपरमेश्वरौ

॥५॥

आचार्येणाथ तत्रैव कश्यपेन महात्मना ॥

आह्वानं हवनार्थाय कृतमग्नेस्तदा द्विजाः

॥६॥

ब्रह्मा ब्रह्मासनगतो बभूव शिवसन्निधौ ॥

प्रवर्तमाने हवन ऋषयश्च विचक्षणाः

॥७॥

ऊचुः परस्परं तत्र नानादर्शनवेदिनः ॥

वेदवादरताः केचिदवदन्संमतेन वै

॥८॥

एवमेव न चाप्येवमेवमेव न चान्यथा ॥

कार्यमेव न वा कार्यं कार्याकार्यं तथा परे

॥९॥

इत्येवं ब्रुवतां शब्दः श्रूयते शिवसन्निधौ ॥

स्वकीयं मतमास्थाय ह्यब्रुवंस्ते परस्परम् ॥

तत्त्वज्ञानविहीनास्ते केवलं वेदबुद्धयः

॥१०॥

तेषां तद्वचनं श्रुत्वा परस्परजयैषिणाम् ॥

प्रहस्य नारदो वाक्यमुवाच शिवसन्निधौ

॥११॥

यूयं सर्वे वादिनश्च वेदवादरतास्तथा ॥

मौनमास्थाय भोविप्रा हृदि कृत्य सदाशिवम्

॥१२॥

आत्मानं परमात्मानं पराणां परमं च तत् ॥

येनेदं कारितं विश्वं यतः सर्वं प्रवर्त्तते ॥

यस्मिन्निलीयते विश्वं तस्मै सर्वात्मने नमः

॥१३॥

सोऽयमास्तेऽधुना गेहे पर्वतेंद्रस्य भो द्विजाः ॥

मुखादस्यैव संजाताः सर्वे यूयं विचक्षणाः

॥१४॥

एवमुक्तास्तदा तेन नारदेन द्विजोत्तमाः ॥

उपदेशकरैर्वाक्यैर्बोधितास्ते द्विजोत्तमाः

॥१५॥

वर्त्तमाने च यज्ञे च ब्रह्मा लोकपितामहः ॥

ददर्श चरणौ देव्या नखेंदुं च मनोहरम्

॥१६॥

दर्शनात्स्खलितः सद्यो बभूवांबुजसंभवः ॥

मदनेन समाविष्टो वीर्यं च प्राच्यवद्भुवि

॥१७॥

रेतसा क्षरमाणेन लज्जितोऽभूत्पितामहः ॥

चरणाभ्यां ममर्द्दाथ महद्गोप्यं दुरत्ययम्

॥१८॥

बहवश्चर्षयो जाता वालखिल्याः सहस्रशः ॥

उपतस्थुस्तदा सर्वेताततातेति चाब्रुवन्

॥१९॥

नारदेन तदोक्तास्ते वालखिल्याः प्रकोपिना ॥

गच्छंतु बटवो यूयं पर्वतं गंधमादनम्

॥२०॥

न स्थातव्यं भवद्भिश्च भवतां न प्रयोजनम् ॥

इत्येवमुक्तास्ते सर्वे वालखिल्याश्च पर्वतम् ॥

नारदेन समादिष्टा ययुः सर्वे त्वरान्विताः

॥२१॥

नारदेन ततो ब्रह्माऽऽश्वासितो वचनैः शुभैः ॥

तावच्च हवनं पूर्णं जातं तस्य महात्मनः

॥२२॥

महेशस्य तथा विप्राः शांतिपाठपरा बभुः ॥

ब्रह्मघोषेण महता व्याप्त मासीद्दिगंतरम्

॥२३॥

ततो नीराजितो देवो देवपत्नीभिरुत्तमः ॥

तथैव ऋषिपत्नीभिरर्चितः पूजितस्तथा

॥२४॥

तथा गिरीन्द्रस्य मनोरमाः शुभा नीराजयामासुरथैव योषितः ॥

गीतैः सुगीतज्ञविशारदाश्च तथैव चान्ये स्तुतिभिर्महर्षयः

॥२५॥

रत्नानि च महार्हाणि ददौ तेभ्यो महामनाः ॥

हिमालयो महाशैलः संहृष्टः परितोषयन्

॥२६॥

बभौ तदानीं सुरसिद्धसंघैर्वेद्यां स्थितोऽसौ सकलत्रको विभुः ॥

सर्वैरुपेती निजपार्षदैर्गणैः प्रहृष्टचेता जगदेकसुन्दराः

॥२७॥

एतस्मिन्नंतरे तत्र ब्रह्मविष्णुपुरोगमाः ॥

ऋषिगंधर्वयक्षाश्च येन्ये तत्र समागताः

॥२८॥

सर्वान्समभ्यर्च्य तदा महात्मा महान्गिरीशः परमेण वर्चसा ॥

सद्रत्नवस्त्राभरणानि सम्यग्ददौ च ताम्बूलसुगन्धवार्यपि

॥२९॥

तदा शिवं पुरस्कृत्याभ्यव जह्रुः सुरेश्वराः ॥

तथा सर्वे मिलित्वा तु ऐकपद्येन मोदिताः

॥३०॥

पंक्तीभूताश्च बुभुर्लिंगिना श्रृंगिणा सह ॥

केचिद्गणाः पृथग्भूता नानाहास्यरसैर्विभुम्

॥३१॥

अतोषयन्नारदाद्या अनेकालीकसंयुताः ॥

तथा चण्डीगणाः सर्वे बभुजुः कृतभाजनाः

॥३२॥

वैतालाः क्षेत्रपालाश्च बुभुजुः कृतभाजनाः ॥

शाकिनी डाकिनी चैव यक्षिण्यो मातृकादयः

॥३३॥

योगिन्योऽथ चतुः षष्टिर्योगिनो हि तथा परे ॥

दश कोट्यो गणानां च कोट्येका च महात्मनाम्

॥३४॥

एवं तु ऋषयः सर्वे तथानये विबुधादयः ॥

योगिनो हि मया चान्ये कथिताः पूर्वमेव हि

॥३५॥

योगिन्यश्चैव कथितास्तासां भक्ष्यं वदामि वः ॥

खड्गानां केचिदानीय क्रव्यं पवित्रमेव च

॥३६॥

भुंजंति चास्थिसंयुक्तं तथांत्राणि बुभुक्षिताः ॥

आनीय केचिच्छीर्षाणि महिषाणां गुरूणि च

॥३७॥

तथा केचिन्नृत्यमानास्तदानीं रोरूय्यमाणाः प्रमथाश्चैव चान्ये ॥

केचित्तूष्णीमास्थिता रुद्ररूपाः परेचान्याँल्लोकमानास्तथैव

॥३८॥

योगिनीचक्रमध्यस्थो भैरवो हि ननर्त च ॥

तथान्ये भूतवेताला मामेत्येवं प्रलापिनः

॥३९॥

एवं तेषामुद्धवं हि निरिक्ष्य मधुसूदनः ॥

उवाच प्रहसन्वाक्यं शंकरं लोकशंकरम्

॥४०॥

एतान्गणान्वारय भो अत्र मत्तांश्च संप्रति ॥

अस्मिन्काले च यत्कार्यं सर्वैस्तत्कार्यमे व च

॥४१॥

पांडित्येन महादेव तस्मादेतान्निवारय ॥

तच्छ्रुत्वा भगवान्रुद्रो वीरभद्रमुवाच ह

॥४२॥

रुद्र उवाच

वारयस्व प्रमत्तांश्च क्षीबांश्चैव विशेषतः ॥

तेनोक्तो वीरभद्रश्च शंभुना परमेष्ठिना

॥४३॥

आज्ञापिताः प्रमत्ताश्च वीरभद्रेण धीमता ॥

प्रमथा वारितास्तेन तूष्णीमाश्रित्य ते स्थिताः

॥४४॥

निश्चला योगिनीमध्ये भूतप्रमथगुह्यकाः ॥

शाकिन्यो यातुधानाश्च कूष्मांडाः कोपिकर्पटाः

॥४५॥

तथान्ये भूतवेतालाः क्षेत्रपालाश्च भैरवाः ॥

सर्वे शांताः प्रमत्ताश्च बभूवुः प्रमथादयः

॥४६॥

एवं विस्तारसंयुक्तं कृतमुद्वहनं तदा ॥

हिमाद्रिणा परं विप्राः सुमंगल्यं सुशोभनम्

॥४७॥

चत्वारो दिवसा जाताः परिपूर्णेन चेतसा ॥

हिमाद्रिणा कृता पूजा देवदेवस्य शूलिनः

॥४८॥

वस्त्रालंकाराभरणै रत्नैरुच्चावचैस्ततः ॥

पूजयित्वा महादेवं विष्णोर्वचनपरोऽभवत्

॥४९॥

लक्ष्मीसमेतं विष्णुं च वस्त्रालंकरणैः शुभैः ॥

पूजयामास हिमवांस्तथा ब्रह्माणमेव च

॥५०॥

इंद्रं पुरोधसा सार्द्धमिंद्राण्या सहितं विभुम् ॥

तथैव लोकपालांश्च पूजयित्वा पृथक्पृथक्

॥५१॥

तथैव पूजिता चंडी भूतप्रमथगुह्यकैः ॥

वस्त्रालंकरणैश्चैव रत्नैर्नानाविधैरपि ॥

ये चान्य आगतास्तत्र ते च सर्वे प्रपूजिताः

॥५२॥

एवं तदानीं प्रतिपूजिताश्च देवाश्च सर्वे ऋषयश्च यक्षाः ॥

गंधर्वविद्याधरसिद्धचारणास्तथैव मर्त्त्याप्सरसां गणाश्च

॥५३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे शिवपार्वतिविवाहमंगलोत्सववर्णनं नाम षड्विशोऽध्यायः ॥ २६ ॥