देवानाममृतप्राशनवर्णनम्
लोमश उवाच
प्रणम्य परमात्मानं रमायुक्तं जनार्द्दनम् ॥
अमृतार्थं ममंथुस्ते सुरासुरगणाः पुनः
॥१॥उदधेर्मथ्यमानाच्च निर्गतः सुमहायशाः ॥
धन्वंतरिरिति ख्यातो युवा मृत्युञ्जयः परः
॥२॥पाणिभ्यां पूर्णकलशं सुधायाः परिगृह्य वै ॥
यावत्सर्वे सुराः सर्वे निरीक्षंते मनोहरम्
॥३॥तदा दैत्याः समं गत्वा हर्तुकामा बलादिव ॥
सुधया पूर्णकलशं धन्वंतरिकरे स्थितम्
॥४॥यावत्तरंगमालाभिरावृतोऽभूद्भिषक्तमः ॥
शनैः शनैः समायातो दृष्टोऽसौ वृषपर्वणा
॥५॥करस्थः कलशस्तस्य हृतस्तेन बलादिव ॥
असुराश्च ततः सर्वे जगर्जुरतिभीषणम्
॥६॥कलशं सुधया पूर्णं गृहीत्वा ते समुत्सुकाः ॥
दैत्याः पातालमाजग्मुस्तदा देवा भ्रमान्विताः
॥७॥अनुजग्मुः सुसंनद्धा योद्धुकामाश्च तैः सह ॥
तदा देवान्समालोक्य बलिरेवमभाषत
॥८॥बलिरुवाच
वयं तु केवलं देवाः सुधया परितोषिताः ॥
शीघ्रमेव प्रगंतव्यं भवद्भिश्च सुरोत्तमैः
॥९॥त्रिविष्टपं मुदा युक्तैः किमस्माभिः प्रयोजनम् ॥
पुरास्माभिः कृतं मैत्रं भवद्भिः स्वार्थतत्परैः ॥
अधुना विदितं तत्तु नात्र कार्या विचारणा
॥१०॥एवं निर्भार्त्सितास्तेन बलिना सुरसत्तमाः ॥
यथागतेन मार्गेण जग्मुर्नारायणं प्रभुम्
॥११॥तं दृष्ट्वा विष्णुना सर्वे सुरा भग्नमनोरथा ॥
आश्वासिता वचोभिश्च नानानुनयको विदैः
॥१२॥मा त्रासं कुरुतात्रार्थ आनयिष्यामि तां सुधाम् ॥
एवमाभाष्य भगवान्मुकुन्दोऽनाथसंश्रयः
॥१३॥स्थापयित्वा सुरान्सर्वांस्तत्रैव मधुसूदनः ॥
मोहनीरूपमास्थाय दैत्यनामग्रतोऽभवत्
॥१४॥तावद्दैत्याः सुसंरब्धाः परस्परमथाब्रुवन् ॥
विवादः सर्वदैत्यानाममृतार्थे तदाऽभवत्
॥१५॥एवं प्रवर्तमाने तु मोहिनीरूपमाश्रिताम् ॥
दृष्ट्वा योषां तदा दैवात्सर्वभूतमनोरमाम्
॥१६॥विस्मयेन समाविष्टा बभूवुस्तृषितेक्षणाः ॥
तां संमान्य तदा दैत्यराजो बलिरुवाच ह
॥१७॥बलिरुवाच
सुधा त्वया विभक्तव्या सर्वेषां गतिहेतवे ॥
शीघ्रत्वेन महाभागे कुरुष्व वचनं मम
॥१८॥एवमुक्ता ह्युवाचेदं स्मयमाना बलिं प्रति ॥
स्त्रीणां नैव च विश्वासः कर्तव्यो हि विपश्चिता
॥१९॥अनृतं साहसं माया मूर्खत्वमति लोभता ॥
अशौचं निर्घृणत्वं च स्त्रीणां दोषाः स्वभावजाः
॥२०॥निःस्नेहत्वं च विज्ञेयं धूर्तत्वं चैव तत्त्वतः ॥
स्वस्त्रीणां चैव विज्ञेया दोषा नास्त्यत्र संशयः
॥२१॥यथैव श्वापदानां च वृका हिंसापरायणाः ॥
काका यतांडजानां च श्वापदानां च जंबुकाः ॥
धूर्ता तथा मनुष्याणां स्त्रीज्ञेया सततं बुधैः
॥२२॥मया सह भवद्भिश्च कथं सख्यं प्रवर्तते ॥
सर्वथात्र न विज्ञेयाः के यूयं चैव क ह्यहम्
॥२३॥तस्माद्भवद्भिः संचिंत्यकार्याकार्यविचक्षणैः ॥
कर्तव्यं परया बुद्ध्या प्रयातासुरसत्तमाः
॥२४॥बलिरुवाच
अद्यामृतं च सर्वेषां विभजस्व यथातथम् ॥
त्वया दत्तं च गृह्णीमः सत्यंसत्यं वदामि ते
॥२८॥एवमुक्ता तदा देवी मोहिनी सर्वमंगला ॥
उवाचाथासुरान्सर्वान्रोचयँल्लौकिकीं स्थितिम्
॥२९॥भगवानुवाच
यूयं सर्वे कृतार्थाश्च जाता दैवेन केनचित् ॥
अद्योपावाससंयुक्ता अमृतस्याधिवासनम्
॥३०॥क्रियतामसुराः श्रेष्ठाः शुभेच्छा किंचिदस्ति वः ॥
श्वेभूते पारणं कुर्याद्व्रतार्चनरतिश्च वः
॥३१॥न्यायोपार्जितवित्तेन दशमांशेन धीमता ॥
कर्तव्यो विनियोगश्च ईशप्रीत्यर्थहेतवे
॥३२॥तथेति मत्वा ते सर्वे यथोक्तं देवमायया ॥
चक्रुस्तथैव दैतेया मोहिता नातिकोविदाः
॥३३॥मयासुरेण च तदा भवनानि कृतानि वै ॥
मनोज्ञानि महार्हाणि सुप्रभाणि महांति च
॥३४॥तेषुपविष्टास्ते सर्वे सुस्नाताः समलंकृताः ॥
स्थापयित्वा सुसंरब्धाः पूर्णं कलशमग्रतः
॥३५॥रात्रौ जागरणं सर्वैः कृतं परमया मुदा ॥
अथोषसि प्रवृत्ते च प्रातःस्नानयुता भवन्
॥३६॥असुरा बलिमुख्याश्च पंक्तिभूता यताक्रमम् ॥
सर्वमावश्यकं कृत्वा तदा पानरता भवन्
॥३७॥बलिश्च वृषपर्वा च नमुचिः शंख एव च ॥
सुदंष्ट्रश्चैव संह्लादी कालनेमिर्विभीषणः
॥३८॥वातापिरिल्वलः कुम्भो निकुम्भः प्रच्छदस्तथा ॥
तथा सुन्दोपसुन्दौ च निशुम्भः शुम्भ एव च
॥३९॥महिषो महिषाक्षश्च बिडालाक्षः प्रतापवान् ॥
चिक्षुराख्यो महाबाहुर्जृभणोऽथ वृषासुरः
॥४०॥विबाहुर्बाहुको घोरस्तथा वै घोरदर्शनः ॥
एते चान्ये च बहवो दैत्यदानवराक्षसाः ॥
यथाक्रमं चोपविष्टा राहुः केतुस्तथैव च
॥४१॥तेषां तु कोटिसंख्यानां दैत्यानां पंक्तिरास्थिता
॥४२॥ततस्तया तदा देव्या अमृतार्थं हि वै द्विजाः ॥
यज्जातं तच्छृणउध्वं हि तया देव्या कृतं महत्
॥४३॥सर्वे विज्ञापिताः सद्यो गृहीतकलशा तदा ॥
शोभया परया युक्ता साक्षात्सा विष्णुमोहिनी
॥४४॥करस्थेन तदा देवी कलशेन विराजिता ॥
शुशुभे परया कांत्या जगन्मंगलमंगला
॥४५॥परिवेषधराः सर्वे सुरास्ते ह्यसुरांतिकम् ॥
आगतास्तत्क्षणादेव यत्र ते ह्यसुरोत्तमाः
॥४६॥तान्दृष्ट्वा मोहिनी सद्य उवाच प्रमदोत्तमा
॥४७॥मोहिन्युवाच
एते ह्यतिथयो ज्ञेया धर्म्मसर्वस्वसाधनाः ॥
एभ्यो देयं यताशक्त्या यदि सत्यं वचो मम ॥
प्रमाणं भवतां चाद्य कुरुध्वं मा विलंबथ
॥४८॥परेषामुपकारं च ये कुर्वंति स्वशक्तितः ॥
धन्यास्ते चैव विज्ञेयाः पवित्राः लोकपालकाः
॥४९॥केवलात्मोदरार्थाय उद्योगं ये प्रकुर्वते ॥
ते क्लेशभागिनो ज्ञेया नात्र कार्या विचारणा
॥५०॥तस्माद्विभजनं कार्यं मयैतस्य शुभव्रताः ॥
देवेभ्यश्च प्रयच्छध्वं यद्धि चात्मप्रियाप्रियम्
॥५१॥इत्युक्ते वचने देव्या तथा चक्रुरतं द्रिताः ॥
आह्वयामासुरसुराः सर्वान्देवान्सवासवान्
॥५२॥उपविष्टाश्च ते सर्वे अमृतार्थं च भो द्विजाः ॥
तेषूपविश्यमानेषु ह्युवाच परमं वचः ॥
मोहिनी सर्वधर्म्मज्ञा असुराणां स्मयन्निव
॥५३॥मोहिन्युवाच
आदौ ह्यभ्यागताः पूज्या इति वै वैदिकी श्रुतिः
॥५४॥तस्माद्यूयं वेदपराः सर्वे देवपरायणाः ॥
ब्रुवंतु त्वरितेनैव आदौ केषां ददाम्यहम् ॥
अमृतं हि महाभागा बलिमुख्या वदंतु भोः
॥५५॥बलिनोक्ता तदा देवी यत्ते मनसि रोचते ॥
स्वामिनी त्वं न संदेहो ह्यस्माकं सुंदरानने
॥५६॥एवं संमानिता तेन बलिना भावितात्मना ॥
परिवेषणकार्यार्थं कलशं गृह्य सत्वरा
॥५७॥तस्मान्नरेन्द्रकरभोरुलसद्दृकूला श्रोणीतटालसगतिर्मविह्वलांगी ॥
सा कूजती कनकनूपुरसिंजितेन कुंभस्तनी कलशपाणिरथाविवेश
॥५८॥तदा तु देवी परिवेषयंती सा मोहिनी देवगणाय साक्षात् ॥
ववर्ष देवेषु सुधारसं पुनः पुनः सुधाहाररसामृतं यथा
॥५९॥पुनश्च ते देवगणाः सुधारसं दत्तं तया परया विश्वमूर्त्या ॥
बलिमुख्याः सह लोकपाला गंधर्वयक्षाप्सरसां गणाश्च
॥६०॥सर्वे दैत्या आसनस्था पुनश्च ते देवगणाः सुधारसं दत्तं पीडिताश्च ॥
तूष्णींभूता बलिमुख्या द्विजेंद्रा मनस्विनो ध्यानपरा बभूवुः
॥६१॥ततस्तथाविधान्दृष्ट्वा दैत्यांस्तान्मोहमाश्रितान् ॥
तदा राहुश्च केतुश्च द्वावेतौ दैत्यपुंगवौ
॥६२॥देवानां रूपमास्थाय अमृतार्थं त्वरान्वितौ ॥
उपविष्टौ तदा पङ्क्त्यां देवानाममृतार्थिनौ
॥६३॥यदामृतं पातुकामो राहुः परमदुर्जयः ॥
चन्द्रार्काभ्यां प्रकथितो विष्णोरमिततेजसः
॥६४॥तदा तस्य शिरश्छिन्नं राहोर्दुर्विग्रहस्य च ॥
शिरो गगनमापेदे कबंधं च महीतले ॥
भ्रममाणं तदा ह्यद्रींश्चूर्णयामास वै तदा
॥६५॥साद्रिश्च सर्वभूलोकश्चूर्णितश्च तदाऽभवत् ॥
तया तेन च देहेन चूर्णितं सचराचरम्
॥६६॥दृष्ट्वा तदा महादेवस्तस्योपरि तु संस्थितः ॥
निवासः सर्वदेवानां तस्याः पादतलेऽभवत्
॥६७॥पीडनं तत्समीपेथ निवास इति नाम वै
॥६८॥महतामालयं यस्माद्यस्यास्तच्चरणांबुजम् ॥
महालयेति विख्याता जगत्त्रयविमोहिनी
॥६९॥केतुश्च धूमरूपोऽसावाकाशे विलयं गतः ॥
सुधां समर्प्य चंद्राय तिरोधानगतोऽभवत्
॥७०॥वासुदेवो जगद्योनिर्जगतां कारणं परम् ॥
विष्णोः प्रसादात्तज्जातं सुराणां कार्यसिद्धिदम्
॥७१॥असुराणां विनाशाय जातं दैवविपर्ययात् ॥
विना दैवेन जानीध्वमुद्यमो हि निरर्थकः
॥७२॥यौगपद्येन तैः सर्वैः क्षीराब्धेर्मंथनं कृतम् ॥
सिद्धिर्जाता हि देवानामसिद्धिरसुरान्प्रति
॥७३॥ततश्च ते देववरान्प्रकोपिता दैत्याश्च मायाप्रवि मोहिताः पुनः ॥
अनेकशस्त्रास्त्रयुतास्तदाऽभवन्विष्णौ गते गर्जमानास्तदानीम्
॥७४॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे समुद्रमंथनाख्याने देवानाममृतप्राशनवर्णनंनाम द्वादशोऽध्यायः ॥ १२ ॥
छ